६. पठमकरणीयविमानवण्णना
उच्चमिदं मणिथूणन्ति करणीयविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने. तेन समयेन सावत्थिवासी एको उपासको न्हानोपकरणानि गहेत्वा अचिरवतिं गन्त्वा न्हत्वा आगच्छन्तो भगवन्तं सावत्थिं पिण्डाय पविसन्तं दिस्वा उपसङ्कमित्वा वन्दित्वा एवमाह ‘‘भन्ते केन निमन्तिता’’ति. भगवा तुण्ही अहोसि. सो केनचि अनिमन्तितभावं ञत्वा आह ‘‘अधिवासेतु मे, भन्ते, भगवा भत्तं अनुकम्पं उपादाया’’ति. अधिवासेसि भगवा तुण्हीभावेन. सो भगवन्तं अत्तनो गेहं नेत्वा बुद्धारहं आसनं पञ्ञापेत्वा तत्थ भगवन्तं निसीदापेत्वा पणीतेन अन्नपानेन सन्तप्पेसि. भगवा कतभत्तकिच्चो तस्स अनुमोदनं कत्वा पक्कामि. सेसं अनन्तरविमानसदिसं. तेन वुत्तं –
९२६. ‘‘उच्चमिदं मणिथूणं विमानं…पे… नारियो च नच्चन्ति सुवण्णछन्ना.
९२८. ‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
९३०. ‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.
९३१. ‘‘करणीयानि पुञ्ञानि, पण्डितेन विजानता;
सम्मग्गतेसु बुद्धेसु, यत्थ दिन्नं महप्फलं.
९३१. ‘‘अत्थाय वत मे बुद्धो, अरञ्ञा गाममागतो;
कत्थ चित्तं पसादेत्वा, तावतिंसूपगो अहं.
९३३. ‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
९३१. तत्थ पण्डितेनाति सप्पञ्ञेन. विजानताति अत्तनो हिताहितं जानन्तेन. सम्मग्गतेसूति सम्मापटिपन्नेसु, बुद्धेसूति सम्मासम्बुद्धेसु.
९३२. अत्थायाति हिताय, वुड्ढिया वा. अरञ्ञाति विहारतो, जेतवनं सन्धाय वदति. तावतिंसूपगोति तावतिंसदेवकायं, तावतिंसभवनं वा उप्पज्जनवसेन उपगतो. सेसं वुत्तनयमेव.
करणीयविमानवण्णना निट्ठिता.