१२. ततियनागविमानवण्णना

को नु दिब्बेन यानेनाति ततियनागविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन समयेन तयो खीणासवत्थेरा गामकावासे वस्सं उपगच्छिंसु. ते वुत्थवस्सा पवारेत्वा ‘‘भगवन्तं वन्दिस्सामा’’ति राजगहं उद्दिस्स गच्छन्ता अन्तरामग्गे सायं अञ्ञतरस्मिं गामके मिच्छादिट्ठिकब्राह्मणस्स उच्छुखेत्तसमीपं गन्त्वा उच्छुपालं पुच्छिंसु ‘‘आवुसो, सक्का अज्ज राजगहं पापुणितु’’न्ति. ‘‘न सक्का, भन्ते, इतो अड्ढयोजने राजगहं, इधेव वसित्वा स्वे गच्छथा’’ति आह. ‘‘अत्थेत्थ कोचि वसनयोग्गो आवासो’’ति? ‘‘नत्थि, भन्ते, अहं पन वो वसनट्ठानं जानिस्सामी’’ति. थेरा अधिवासेसुं.

सो उच्छूसुयेव यथाठितेसु साखामण्डपाकारेन दण्डकानि बन्धित्वा उच्छुपण्णेहि छादेत्वा हेट्ठा पलालं अत्थरित्वा एकस्स थेरस्स अदासि, दुतियस्स थेरस्स तीहि उच्छूहि दण्डकसङ्खेपेन बन्धित्वा तिणेन छादेत्वा हेट्ठा च तिणसन्थरं कत्वा अदासि, इतरस्स अत्तनो कुटियं द्वे तयो दण्डके साखायो च नीहरित्वा चीवरेन पटिच्छादेन्तो चीवरकुटिं कत्वा अदासि. ते तत्थ वसिंसु. अथ विभाताय रत्तिया कालस्सेव भत्तं पचित्वा दन्तकट्ठञ्च मुखोदकञ्च दत्वा सह उच्छुरसेन भत्तं अदासि. तेसं भुञ्जित्वा अनुमोदनं कत्वा गच्छन्तानं एकेकं उच्छुं अदासि ‘‘मय्हं भागो भविस्सती’’ति. सो थोकं मग्गं थेरे अनुगन्त्वा निवत्तन्तो अत्तनो वेय्यावच्चञ्च दानञ्च आरब्भ उळारं पीतिसोमनस्सं पटिसंवेदेन्तो निवत्ति.

खेत्तसामिको पन गच्छन्तानं भिक्खूनं पटिपथेन आगच्छन्तो भिक्खू पुच्छि ‘‘कुतो वो उच्छु लद्धा’’ति? ‘‘उच्छुपालकेन दिन्ना’’ति. तं सुत्वा ब्राह्मणो कुपितो अनत्तमनो तटतटायमानो कोधाभिभूतो तस्स पिट्ठितो उपधावित्वा मुग्गरेन तं पहरन्तो एकप्पहारेनेव जीविता वोरोपेसि. सो अत्तना कतपुञ्ञकम्ममेव अनुस्सरन्तो कालं कत्वा सुधम्मादेवसभायं निब्बत्ति. तस्स पुञ्ञानुभावेन सब्बसेतो महन्तो दिब्बवरवारणो निब्बत्ति.

उच्छुपालकस्स मरणं सुत्वा तस्स मातापितरो चेव ञातिमित्ता च अस्सुमुखा रोदमाना तं ठानं अगमंसु, सब्बे च गामवासिनो सन्निपतिंसु. तत्रस्स मातापितरो सरीरकिच्चं कातुं आरभिंसु. तस्मिं खणे सो देवपुत्तो तं दिब्बहत्थिं अभिरुहित्वा सब्बताळावचरपरिवुतो पञ्चङ्गिकेन तूरियेन पवज्जमानेन महन्तेन परिवारेन महतिया देविद्धिया देवलोकतो आगन्त्वा ताय परिसाय दिस्समानरूपो आकासे अट्ठासि. अथ नं तत्थ पण्डितजातिको पुरिसो इमाहि गाथाहि तेन कतपुञ्ञकम्मं पुच्छि –

९७६. ‘‘को नु दिब्बेन यानेन, सब्बसेतेन हत्थिना;

तूरियताळितनिग्घोसो, अन्तलिक्खे महीयति.

९७७. ‘‘देवता नुसि गन्धब्बो, अदु सक्को पुरिन्ददो;

अजानन्ता तं पुच्छाम, कथं जानेमु तं मय’’न्ति.

सोपिस्स इमाहि गाथाहि एतमत्थं ब्याकासि –

९७८. ‘‘नाम्हि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;

सुधम्मा नाम ये देवा, तेसं अञ्ञतरो अह’’न्ति.

९७९. ‘‘पुच्छाम देवं सुधम्मं, पुथुं कत्वान अञ्जलिं;

किं कत्वा मानुसे कम्मं, सुधम्मं उपपज्जती’’ति – पुनपि पुच्छि;

९८०. ‘‘उच्छागारं तिणागारं, वत्थागारञ्च यो ददे;

तिण्णं अञ्ञतरं दत्वा, सुधम्मं उपपज्जती’’ति. – पुनपि ब्याकासि;

९७६. तत्थ तूरियताळितनिग्घोसोति ताळितपञ्चङ्गितदिब्बतूरियनिग्घोसो अत्तानं उद्दिस्स पवज्जमानदिब्बतूरियसद्दो. अन्तलिक्खे महीयतीति आकासे ठत्वा आकासट्ठेनेव महता परिवारेन पूजीयति.

९७७. देवता नुसीति देवता नु असि, किं नु त्वं देवोसीति अत्थो. गन्धब्बोति गन्धब्बकायिकदेवो असीति अत्थो. अदु सक्को पुरिन्ददोति उदाहु पुरे ददातीति ‘‘पुरिन्ददो’’ति विस्सुतो सक्को नुसि, अथ सक्को देवराजा असीति अत्थो. एत्थ च सतिपि सक्कगन्धब्बानं देवभावे तेसं विसुं गहितत्ता गोबलिबद्धञायेन तदञ्ञदेववाचको देवसद्दो दट्ठब्बो.

९७८. अथ देवपुत्तो ‘‘विस्सज्जनं नाम पुच्छासभागेन होती’’ति तेहि पुच्छितं देवगन्धब्बसक्कभावं पटिक्खिपित्वा अत्तानं आचिक्खन्तो ‘‘नम्हि देवो न गन्धब्बो’’तिआदिमाह. तत्थ नम्हि देवोति तया आसङ्कितो यो कोचि देवो न होमि न गन्धब्बो न सक्को, अपिच खो सुधम्मा नाम ये देवा, तेसं अञ्ञतरो अहं, सुधम्मा देवता नाम तावतिंसदेवनिकायस्सेव अञ्ञतरदेवनिकायो. सो किर उच्छुपालो तेसं देवानं सम्पत्तिं सुत्वा पगेव तत्थ चित्तं पणिधाय ठितोति केचि वदन्ति.

९७९. पुथुन्ति महन्तं, परिपुण्णं कत्वाति अत्थो. सक्कच्चकिरियादीपनत्थञ्हेतं वुत्तं.

९८०. सुधम्मादेवयानं पुट्ठो देवपुत्तो ककण्टकनिमित्तं वदन्तो विय दिट्ठमत्तमेव गहेत्वा अत्तना कतपुञ्ञं आचिक्खन्तो ‘‘उच्छागार’’न्ति गाथमाह. तत्थ तिण्णं अञ्ञतरं दत्वाति यदिपि मया तीणि अगारानि दिन्नानि, तीसु पन अञ्ञतरेनाति अयमत्थोपि सिज्झतीति नयग्गाहेन देवपुत्तो एवमाह. सेसं सुविञ्ञेय्यमेव.

एवं सो तेन पुच्छि तमत्थं विस्सज्जेत्वा रतनत्तयगुणं पकासेन्तो मातापितूहि सद्धिं सम्मोदनं कत्वा देवलोकमेव गतो. मनुस्सा देवपुत्तस्स वचनं सुत्वा भगवति भिक्खुसङ्घे च सञ्जातपसादबहुमाना बहुं दानूपकरणं सज्जेत्वा सकटानं पूरेत्वा वेळुवनं गन्त्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा सत्थु तं पवत्तिं आरोचयिंसु. सत्था तं पुच्छाविस्सज्जनं तथेव वत्वा तमेव अत्थं अट्ठुप्पत्तिं कत्वा वित्थारेन धम्मं देसेत्वा ते सरणेसु च सीलेसु च पतिट्ठापेसि. ते च पतिट्ठितसद्धा भगवन्तं वन्दित्वा अत्तनो गामं उपगन्त्वा उच्छुपालस्स मतट्ठाने विहारं कारयिंसूति.

ततियनागविमानवण्णना निट्ठिता.