१३. चूळरथविमानवण्णना

दळ्हधम्मा निसारस्साति चूळरथविमानं. तस्स का उप्पत्ति? भगवति परिनिब्बुते धातुविभागं कत्वा तत्थ तत्थ सत्थु थूपेसु पतिट्ठापियमानेसु महाकस्सपत्थेरप्पमुखेसु धम्मं सङ्गायितुं उच्चिनित्वा गहितेसु सावकेसु याव वस्सूपगमना वेनेय्यापेक्खाय अत्तनो अत्तनो परिसाय सद्धिं तत्थ तत्थ वसन्तेसु आयस्मा महाकच्चायनो पच्चन्तदेसे अञ्ञतरस्मिं अरञ्ञायतने विहरति. तेन समयेन अस्सकरट्ठे पोतलिनगरे अस्सकराजा रज्जं कारेति, तस्स जेट्ठाय देविया पुत्तो सुजातो नाम कुमारो सोळसवस्सुद्देसिको कनिट्ठाय देविया निबन्धनेन पितरा रट्ठतो पब्बाजितो अरञ्ञं पविसित्वा वनचरके निस्साय अरञ्ञे वसति. सो किर कस्सपस्स भगवतो सासने पब्बजित्वा सीलमत्ते पतिट्ठितो पुथुज्जनकालकिरियं कत्वा तावतिंसेसु निब्बत्तित्वा तत्थ यावतायुकं ठत्वा अपरापरं सुगतियंयेव परिब्भमन्तो इमस्मिं बुद्धुप्पादे भगवतो अभिसम्बोधितो तिंसवस्से अस्सकरट्ठे अस्सकरञ्ञो अग्गमहेसिया कुच्छिस्मिं निब्बत्ति, ‘‘सुजातो’’तिस्स नामं अहोसि. सो महन्तेन परिवारेन वड्ढति.

तस्स पन मातरि कालकताय राजा अञ्ञं राजधीतरं अग्गमहेसिट्ठाने ठपेसि. सापि अपरेन समयेन पुत्तं विजायि. तस्सा राजा पुत्तं दिस्वा पसन्नो ‘‘भद्दे, तया इच्छितं वरं गण्हाही’’ति वरं अदासि. सा गहितकं कत्वा ठपेत्वा यदा सुजातकुमारो सोळसवस्सुद्देसिको जातो, तदा राजानं आह ‘‘देव, तुम्हेहि मम पुत्तं दिस्वा तुट्ठचित्तेहि वरो दिन्नो, तं इदानि देथा’’ति. ‘‘गण्ह, देवी’’ति. ‘‘मय्हं पुत्तस्स रज्जं देथा’’ति. ‘‘नस्स, वसलि, मम जेट्ठपुत्ते देवकुमारसदिसे सुजातकुमारे ठिते कस्मा एवं वदसी’’ति पटिक्खिपि. देवी पुनप्पुनं निबन्धनं करोन्ती मनं अलभित्वा एकदिवसं आह ‘‘देव, यदि सच्चे तिट्ठसि, देहि एवा’’ति. राजा ‘‘अनुपधारेत्वा मया इमिस्सा वरो दिन्नो, अयञ्च एवं वदती’’ति विप्पटिसारी हुत्वा सुजातकुमारं पक्कोसित्वा तमत्थं आरोचेत्वा अस्सूनि पवत्तेसि. कुमारो पितरं सोचमानं दिस्वा दोमनस्सप्पत्तो अस्सूनि पवत्तेत्वा ‘‘अनुजानाहि, देव, अहं अञ्ञत्थ गमिस्सामी’’ति आह. तं सुत्वा रञ्ञा ‘‘अञ्ञं ते नगरं मापेस्सामि, तत्थ वसेय्यासी’’ति वुत्ते कुमारो न इच्छि. ‘‘मम सहायानं राजूनं सन्तिके पेसेस्सामी’’ति च वुत्ते तम्पि नानुजानि. केवलं ‘‘देव, अरञ्ञं गमिस्सामी’’ति आह. राजा पुत्तं आलिङ्गित्वा सीसे चुम्बित्वा ‘‘ममच्चयेन इधागन्त्वा रज्जे पतिट्ठहा’’ति वत्वा विस्सज्जेसि.

सो अरञ्ञं पविसित्वा वनचरके निस्साय वसन्तो एकदिवसं मिगवं गतो. तस्स समणकाले सहायवरो एको देवपुत्तो हितेसिताय मिगरूपेन तं पलोभेन्तो धावित्वा आयस्मतो महाकच्चायनस्स वसनट्ठानसमीपं पत्वा अन्तरधायि. सो ‘‘इमं मिगं इदानि गण्हिस्सामी’’ति उपधावन्तो थेरस्स वसनट्ठानं पत्वा तं अपस्सन्तो बहि पण्णसालाय थेरं निसिन्नं दिस्वा तस्स समीपे चापकोटिं ओलुब्भ अट्ठासि. थेरो तं ओलोकेत्वा आदितो पट्ठाय सब्बं तस्स पवत्तिं ञत्वा अनुग्गण्हन्तो अजानन्तो विय सङ्गहं करोन्तो –

९८१. ‘‘दळ्हधम्मा निसारस्स, धनुं ओलुब्भ तिट्ठसि;

खत्तियो नुसि राजञ्ञो, अदु लुद्दो वनेचरो’’ति. –

पुच्छि. तत्थ दळ्हधम्माति दळ्हधनु. दळ्हधनु नाम द्विसहस्सथामं वुच्चति. द्विसहस्सथामन्ति च यस्स आरोपितस्स जियाय बद्धो लोहसीसादीनं भारो दण्डे गहेत्वा याव कण्डप्पमाणा उक्खित्तस्स पथवितो मुच्चति. निसारस्साति निरतिसयसारस्स विसिट्ठसारस्स रुक्खस्स धनुं, सारतररुक्खमयं धनुन्ति अत्थो. ओलुब्भाति सन्निरुम्भित्वा. राजञ्ञोति राजकुमारो. वनेचरोति वनचरो.

अथ सो अत्तानं आविकरोन्तो –

९८२. ‘‘अस्सकाधिपतिस्साहं, भन्ते पुत्तो वनेचरो;

नामं मे भिक्खु ते ब्रूमि, सुजातो इति मं विदू.

९८३. ‘‘मिगे गवेसमानोहं, ओगाहन्तो ब्रहावनं;

मिगं तञ्चेव नाद्दक्खिं, तञ्च दिस्वा ठितो अह’’न्ति. –

आह. तत्थ अस्सकाधिपतिस्साति अस्सकरट्ठाधिपतिनो अस्सकराजस्स. भिक्खूति थेरं आलपति. मिगे गवेसमानोति मिगसूकरादिके गवेसन्तो, मिगवं चरन्तोति अत्थो.

तं सुत्वा थेरो तेन सद्धिं पटिसन्थारं करोन्तो –

९८४. ‘‘स्वागतं ते महापुञ्ञ, अथो ते अदुरागतं;

एत्तो उदकमादाय, पादे पक्खालयस्सु ते.

९८५. ‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;

राजपुत्त ततो पित्वा, सन्थतस्मिं उपाविसा’’ति. – आह;

९८४. तत्थ अदुरागतन्ति दुरागमनवज्जितं, महापुञ्ञ, ते इधागमनं स्वागतं, न ते अप्पकम्पि दुरागमनं अत्थि तुय्हञ्च मय्हञ्च पीतिसोमनस्सजननतोति अधिप्पायो. ‘‘अधुनागत’’न्तिपि पाठो, इदानि आगमनन्ति अत्थो.

९८५. सन्थतस्मिं उपाविसाति अनन्तरहिताय भूमिया अनिसीदित्वा अमुकस्मिं तिणसन्थारके निसीदाति.

ततो राजकुमारो थेरस्स पटिसन्थारं सम्पटिच्छन्तो आह –

९८६. ‘‘कल्याणी वत ते वाचा, सवनीया महामुनि;

नेला अत्थवती वग्गु, मन्त्वा अत्थञ्च भाससि.

९८७. ‘‘का ते रति वने विहरतो, इसिनिसभ वदेहि पुट्ठो;

तव वचनपथं निसामयित्वा, अत्थधम्मपदं समाचरेमसे’’ति.

९८६. तत्थ कल्याणीति सुन्दरा सोभना. सवनीयाति सोतुं युत्ता. नेलाति निद्दोसा. अत्थवतीति अत्थयुत्ता दिट्ठधम्मिकादिना हितेन उपेता. वग्गूति मधुरा. मन्त्वाति जानित्वा पञ्ञाय परिच्छिन्दित्वा. अत्थन्ति अत्थतो अनपेतं एकन्तहितावहं.

९८७. इसिनिसभाति इसीसु निसभ आजानीयसदिस. वचनपथन्ति वचनं. वचनमेव हि अत्थाधिगमस्स उपायभावतो ‘‘वचनपथ’’न्ति वुत्तं. अत्थधम्मपदं समाचरेमसेति इध चेव सम्पराये च अत्थावहं सीलादिधम्मकोट्ठासं पटिपज्जामसे.

इदानि थेरो अत्तनो सम्मापटिपत्तिं तस्स अनुच्छविकं वदन्तो –

९८८. ‘‘अहिंसा सब्बपाणीनं, कुमारम्हाक रुच्चति;

थेय्या च अतिचारा च, मज्जपाना च आरति.

९८९. ‘‘आरति समचरिया च, बाहुसच्चं कतञ्ञुता;

दिट्ठेव धम्मे पासंसा, धम्मा एते पसंसिया’’ति. – आह;

९८९. तत्थ आरति समचरिया चाति यथावुत्ता च पापधम्मतो आरति, पटिविरति कायसमतादिसमचरिया च. बाहुसच्चन्ति परियत्तिबाहुसच्चं. कतञ्ञुताति परेहि अत्तनो कतस्स उपकारस्स जानना. पासंसाति अत्थकामेहि कुलपुत्तेहि पकारतो आसंसितब्बा. धम्मा एतेति एते यथावुत्ता अहिंसादिधम्मा. पसंसियाति विञ्ञूहि पसंसितब्बा.

एवं थेरो तस्स अनुच्छविकं सम्मापटिपत्तिं वत्वा अनागतंसञाणेन आयुसङ्खारे ओलोकेन्तो ‘‘पञ्चमासमत्तमेवा’’ति दिस्वा तं संवेजेत्वा दळ्हं तत्थ सम्मापटिपत्तियं पतिट्ठापेतुं इमं गाथमाह –

९९०. ‘‘सन्तिके मरणं तुय्हं, ओरं मासेहि पञ्चहि;

राजपुत्त विजानाहि, अत्तानं परिमोचया’’ति.

तत्थ अत्तानं परिमोचयाति अत्तानं अपायदुक्खतो मोचेहि.

ततो कुमारो अत्तनो मुत्तिया उपायं पुच्छन्तो आह –

९९१. ‘‘कतमं स्वाहं जनपदं गन्त्वा, किं कम्मं किञ्च पोरिसं;

काय वा पन विज्जाय, भवेय्यं अजरामरो’’ति.

तत्थ कतमं स्वाहन्ति कतमं सु अहं, कतमं नूति अत्थो. किं कम्मं किञ्च पोरिसन्ति कत्वाति वचनसेसो. पोरिसन्ति पुरिसकिच्चं.

ततो थेरो तस्स धम्मं देसेतुं इमा गाथायो अवोच –

९९२. ‘‘न विज्जते सो पदेसो, कम्मं विज्जा च पोरिसं;

यत्थ गन्त्वा भवे मच्चो, राजपुत्ताजरामरो.

९९३. ‘‘महद्धना महाभोगा, रट्ठवन्तोपि खत्तिया;

पहूतधनधञ्ञासे, तेपि नो अजरामरा.

९९४. ‘‘यदि ते सुता अन्धकवेण्डुपुत्ता, सूरा वीरा विक्कन्तप्पहारिनो;

तेपि आयुक्खयं पत्ता, विद्धस्ता सस्सतीसमा.

९९५. ‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;

एते चञ्ञे च जातिया, तेपि नो अजरामरा.

९९६. ‘‘ये मन्तं परिवत्तेन्ति, छळङ्गं ब्रह्मचिन्तितं;

एते चञ्ञे च विज्जाय, तेपि नो अजरामरा.

९९७. ‘‘इसयो चापि ये सन्ता, सञ्ञतत्ता तपस्सिनो;

सरीरं तेपि कालेन, विजहन्ति तपस्सिनो.

९९८. ‘‘भावितत्तापि अरहन्तो, कतकिच्चा अनासवा;

निक्खिपन्ति इमं देहं, पुञ्ञपापपरिक्खया’’ति.

९९२. तत्थ यत्थ गन्त्वाति यं पदेसं गन्त्वा कम्मं विज्जं पोरिसञ्च कायपयोगेन इतरपयोगेन च उपगन्त्वा पापुणित्वा भवेय्य अजरामरोति अत्थो.

९९३. हेट्ठिमकोटिया कोटिसतादिपरिमाणं संहरित्वा ठपितं महन्तं धनं एतेसन्ति महद्धना. कुम्भत्तयादिकहापणपरिब्बयो महन्तो भोगो एतेसन्ति महाभोगा. रट्ठवन्तोति रट्ठसामिका, अनेकयोजनपरिमाणं रट्ठं पसासन्ताति अधिप्पायो. खत्तियाति खत्तियजातिका. पहूतधनधञ्ञासेति महाधनधञ्ञसन्निचया, अत्तनो परिसाय च सत्तट्ठसंवच्छरपहोनकधनधञ्ञसन्निचया. तेपि नो अजरामराति जरामरणधम्मा एव, महद्धनतादीनिपि तेसं उपरि निपतन्तं जरामरणं निवत्तेतुं न सक्कोन्तीति अत्थो.

९९४. अन्धकवेण्डुपुत्ताति अन्धकवेण्डुस्स पुत्ताति पञ्ञाता. सूराति सत्तिमन्तो. वीराति वीरियवन्तो. विक्कन्तप्पहारिनोति सूरवीरभावेनेव पटिसत्तुबलं विक्कम्म पसय्ह पहरणसीला. विद्धस्ताति विनट्ठा. सस्सतीसमाति कुलपरम्पराय सस्सतीहि चन्दसूरियादीहि समाना, तेपि अचिरकालपवत्तकुलन्वयाति अत्थो.

९९५. जातियाति अत्तनो जातिया, विसिट्ठतरा पन जातिपि नेसं जरामरणं निवत्तेतुं न सक्कोतीति अत्थो.

९९६. मन्तन्ति वेदं. छळङ्गन्ति कप्पब्याकरणनिरुत्तिसिक्खाछन्दोविचितिजोतिसत्थसङ्खातेहि छहि अङ्गेहि छळङ्गं. ब्रह्मचिन्तितन्ति ब्रह्मेहि अट्ठकादीहि चिन्तितं पञ्ञाचक्खुना दिट्ठं.

९९७. सन्ताति उपसन्तकायवचीकम्मन्ता. सञ्ञतत्ताति सञ्ञतचित्ता. तपस्सिनोति तपनिस्सिता.

इदानि कुमारो अत्तना कत्तब्बं वदन्तो –

९९९. ‘‘सुभासिता अत्थवती, गाथायो ते महामुनि;

निज्झत्तोम्हि सुभट्ठेन, त्वञ्च मे सरणं भवा’’ति. –

आह. तत्थ निज्झत्तोम्हीति निज्झापितो धम्मोजसञ्ञाय सञ्ञत्तिगतो अम्हि. सुभट्ठेनाति सुट्ठु भासितेन.

ततो थेरो तं अनुसासन्तो इमं गाथं अभासि –

१०००. ‘‘मा मं त्वं सरणं गच्छ, तमेव सरणं वज;

सक्यपुत्तं महावीरं, यमहं सरणं गतो’’ति.

ततो राजकुमारो आह –

१००१. ‘‘कतरस्मिं सो जनपदे, सत्था तुम्हाक मारिस;

अहम्पि दट्ठुं गच्छिस्सं, जिनं अप्पटिपुग्गल’’न्ति.

पुन थेरो आह –

१००२. ‘‘पुरत्थिमस्मिं जनपदे, ओक्काककुलसम्भवो;

तत्थासि पुरिसाजञ्ञो, सो च खो परिनिब्बुतो’’ति.

तत्थ थेरेन निसिन्नपदेसतो मज्झिमदेसस्स पाचीनदिसाभागत्ता वुत्तं ‘‘पुरत्थिमस्मिं जनपदे’’ति.

एवं सो राजपुत्तो थेरस्स धम्मदेसनं सुत्वा पसन्नमानसो सरणेसु च सीलेसु च पतिट्ठहि. तेन वुत्तं –

१००३. ‘‘सचे हि बुद्धो तिट्ठेय्य, सत्था तुम्हाक मारिस;

योजनानि सहस्सानि, गच्छेय्यं पयिरुपासितुं.

१००४. ‘‘यतो च खो परिनिब्बुतो, सत्था तुम्हाक मारिस;

निब्बुतम्पि महावीरं, गच्छामि सरणं अहं.

१००५. ‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;

सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.

१००६. ‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि;

अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो’’ति.

एवं पन तं सरणेसु च सीलेसु च पतिट्ठितं थेरो एवमाह ‘‘राजकुमार, तुय्हं इध अरञ्ञवासेन अत्थो नत्थि, न चिरं तव जीवितं, पञ्चमासब्भन्तरे एव कालं करिस्ससि, तस्मा तव पितु सन्तिकमेव गन्त्वा दानादीनि पुञ्ञानि कत्वा सग्गपरायणो भवेय्यासी’’ति वत्वा अत्तनो सन्तिके धातुयो दत्वा विस्सज्जेसि. सो गच्छन्तो ‘‘अहं, भन्ते, तुम्हाकं वचनेन इतो गमिस्सामि, तुम्हेहिपि मय्हं अनुकम्पाय तत्थ आगन्तब्ब’’न्ति वत्वा थेरस्स अधिवासनं विदित्वा वन्दित्वा पदक्खिणं कत्वा पितु नगरं गन्त्वा उय्यानं पविसित्वा अत्तनो आगतभावं रञ्ञो निवेदेसि.

तं सुत्वा राजा सपरिवारो उय्यानं गन्त्वा कुमारं आलिङ्गित्वा अन्तेपुरं नेत्वा अभिसिञ्चितुकामो अहोसि. कुमारो ‘‘देव, मय्हं अप्पकं आयु, इतो चतुन्नं मासानं अच्चयेन मरणं भविस्सति, किं मे रज्जेन, तुम्हे निस्साय पुञ्ञमेव करिस्सामी’’ति वत्वा थेरस्स गुणं रतनत्तयस्स च आनुभावं पवेदेसि. तं सुत्वा राजा संवेगप्पत्तो रतनत्तये च थेरे च पसन्नमानसो महन्तं विहारं कारेत्वा महाकच्चायनत्थेरस्स सन्तिके दूतं पाहेसि. थेरोपि राजानं महाजनञ्च अनुग्गण्हन्तो आगच्छि. राजा च सपरिवारो दूरतोव पच्चुग्गमनं कत्वा थेरं विहारं पवेसेत्वा चतूहि पच्चयेहि सक्कच्चं उपट्ठहन्तो सरणेसु च सीलेसु च पतिट्ठहि. कुमारो च सीलानि समादियित्वा थेरं भिक्खू चेव सक्कच्चं उपट्ठहन्तो दानानि ददन्तो धम्मं सुणन्तो चतुन्नं मासानं अच्चयेन कालं कत्वा तावतिंसभवने निब्बत्ति. तस्स पुञ्ञानुभावेन सत्तरतनपटिमण्डितो सत्तयोजनप्पमाणो रथो उप्पज्जि, अनेकानि चस्स अच्छरासहस्सानि परिवारो अहोसि.

राजा कुमारस्स सरीरसक्कारं कत्वा भिक्खुसङ्घस्स च महादानं पवत्तेत्वा चेतियस्स पूजं अकासि, तत्थ महाजनो सन्निपति, थेरोपि सपरिवारो तं पदेसं उपगञ्छि. अथ देवपुत्तो अत्तना कतकुसलकम्मं ओलोकेत्वा कतञ्ञुताय ‘‘गन्त्वा थेरं वन्दिस्सामि, सासनगुणे च पाकटे करिस्सामी’’ति चिन्तेत्वा दिब्बरथं आरुय्ह महता परिवारेन दिस्समानरूपो आगन्त्वा रथा ओरुय्ह थेरस्स पादे वन्दित्वा पितरा सद्धिं पटिसन्थारं कत्वा थेरं पयिरुपासमानो अञ्जलिं पग्गय्ह अट्ठासि. तं थेरो इमाहि गाथाहि पुच्छि –

१००७. ‘‘सहस्सरंसीव यथामहप्पभो, दिसं यथा भाति नभे अनुक्कमं;

तथापकारो तवायं महारथो, समन्ततो योजनसत्तमायतो.

१००८. ‘‘सुवण्णपट्टेहि समन्तमोत्थटो, उरस्स मुत्ताहि मणीहि चित्तितो;

लेखा सुवण्णस्स च रूपियस्स च, सोभेन्ति वेळुरियमया सुनिम्मिता.

१००९. ‘‘सीसञ्चिदं वेळुरियस्स निम्मितं, युगञ्चिदं लोहितकाय चित्तितं;

युत्ता सुवण्णस्स च रूपियस्स च, सोभन्ति अस्सा च इमे मनोजवा.

१०१०. ‘‘सो तिट्ठसि हेमरथे अधिट्ठितो, देवानमिन्दोव सहस्सवाहनो;

पुच्छामि ताहं यसवन्त कोविदं, कथं तया लद्धो अयं उळारो’’ति.

१००७. तत्थ सहस्सरंसीति सूरियो. सो हि अनेकसहस्सरंसिमन्तताय ‘‘सहस्सरंसी’’ति वुच्चति. यथामहप्पभोति अत्तनो महत्तस्स अनुरूपप्पभो. यथा हि महत्तेन सूरियमण्डलेन सदिसं जोतिमण्डलं नत्थि, एवं पभायपि. तथा हि तं एकस्मिं खणे तीसु महादीपेसु आलोकं फरन्तं तिट्ठति. दिसं यथा भाति नभे अनुक्कमन्ति नभे आकासे यथेव दिसं अनुक्कमन्तो गच्छन्तो यथा येन पकारेन भाति दिब्बति जोतति. तथापकारोति तादिसाकारो. तवायन्ति तव अयं.

१००८. सुवण्णपट्टेहीति सुवण्णमयेहि पट्टेहि. समन्तमोत्थटो समन्ततो छादितो. उरस्साति उरो अस्स, रथस्स उरोति च ईसामूलं वदति. लेखाति वेळुरियमया मालाकम्मलताकम्मादिलेखा. तासं सुवण्णपट्टेसु च रजतपट्टेसु च दिस्समानत्ता वुत्तं ‘‘सुवण्णस्स च रूपियस्स चा’’ति. सोभेन्तीति रथं सोभयन्ति.

१००९. सीसन्ति रथकुब्बरसीसं. वेळुरियस्स निम्मितन्ति वेळुरियेन निम्मितं, वेळुरियमणिमयन्ति अत्थो. लोहितकायाति लोहितकमणिना, येन केनचि रत्तमणिना वा. युत्ताति योजिता, अथ वा योत्ता सुवण्णस्स च रूपियस्स चाति सुवण्णमया च रूपियमया च योत्ता, सङ्खलिकाति अत्थो.

१०१०. अधिट्ठितोति अत्तनो देविद्धिया सकलमिदं ठानं अभिभवित्वा ठितो. सहस्सवाहनोति सहस्सयुत्तवाहनो, सहस्सआजानीययुत्तरथो देवानमिन्दो यथाति अधिप्पायो. यसवन्ताति आलपनं, यसस्सीति अत्थो. कोविदन्ति कुसलञाणवन्तं, रथारोहने वा छेकं. अयं उळारोति अयं उळारो महन्तो यसोति अधिप्पायो.

एवं थेरेन पुट्ठो देवपुत्तो इमाहि गाथाहि ब्याकासि –

१०११. ‘‘सुजातो नामहं भन्ते, राजपुत्तो पुरे अहुं;

त्वञ्च मं अनुकम्पाय, सञ्ञमस्मिं निवेसयि.

१०१२. ‘‘खीणायुकञ्च मं ञत्वा, सरीरं पादासि सत्थुनो;

इमं सुजात पूजेहि, तं ते अत्थाय हेहिति.

१०१३. ‘‘ताहं गन्धेहि मालेहि, पूजयित्वा समुय्युतो;

पहाय मानुसं देहं, उपपन्नोम्हि नन्दनं.

१०१४. ‘‘नन्दने च वने रम्मे, नानादिजगणायुते;

रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति.

१०१२-३. तत्थ सरीरन्ती सरीरधातुं. हेहितीति भविस्सति. समुय्युतोति सम्मा उय्युत्तो, युत्तप्पयुत्तोति अत्थो.

एवं देवपुत्तो थेरेन पुच्छितमत्थं कथेत्वा थेरं वन्दित्वा पदक्खिणं कत्वा पितरं आपुच्छित्वा रथं आरुय्ह देवलोकमेव गतो. थेरोपि तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय वित्थारेन धम्मकथं कथेसि. सा धम्मकथा महाजनस्स सात्थिका अहोसि. अथ थेरो तं सब्बं अत्तना च तेन च कथितनियामेनेव सङ्गीतिकाले धम्मसङ्गाहकानं आरोचेसि, ते च तं तथा सङ्गहं आरोपेसुन्ति.

चूळरथविमानवण्णना निट्ठिता.