४. अलोमविमानवण्णना
अभिक्कन्तेन वण्णेनाति अलोमविमानं. तस्स का उप्पत्ति? भगवा बाराणसियं इसिपतने मिगदाये विहरन्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय बाराणसिं पिण्डाय पाविसि. तत्थेका अलोमा नाम दुग्गतित्थी भगवन्तं दिस्वा पसन्नचित्ता अञ्ञं दातब्बं अपस्सन्ती ‘‘ईदिसम्पि भगवतो दिन्नं मय्हं महप्फलं भविस्सती’’ति चिन्तेत्वा परिभिन्नवण्णं अलोणं सुक्खकुम्मासं उपनेसि, भगवा पटिग्गहेसि. सा तं दानं आरम्मणं कत्वा सोमनस्सं पवेदेसि, सा अपरभागे कालं कत्वा तावतिंसेसु निब्बत्ति. तं आयस्मा महामोग्गल्लानो –
७११. ‘‘अभिक्कन्तेन वण्णेन…पे… वण्णो च ते सब्बदिसा पभासती’’ति. –
पुच्छि. सापि तस्स ब्याकासि, तं दस्सेतुं –
७१४. ‘‘सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फल’’न्ति. – वुत्तं;
७१५. ‘‘अहञ्च बाराणसियं, बुद्धस्सादिच्चबन्धुनो;
अदासिं सुक्खकुम्मासं, पसन्ना सेहि पाणिभि.
७१६. ‘‘सुक्खाय अलोणिकाय च, पस्स फलं कुम्मासपिण्डिया;
अलोमं सुखितं दिस्वा, को पुञ्ञं न करिस्सति.
७१७. ‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
७१६. तत्थ अलोमं सुखितं दिस्वाति अलोमम्पि नाम सुक्खकुम्मासमत्तं दत्वा एवं दिब्बसुखेन सुखितं दिस्वा. को पुञ्ञं न करिस्सतीति को नाम अत्तनो हितसुखं इच्छन्तो पुञ्ञं न करिस्सतीति. सेसं वुत्तनयमेव.
अलोमविमानवण्णना निट्ठिता.