५. भद्दित्थिविमानवण्णना
नीला पीता च काळा चाति भद्दित्थिविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन च समयेन किमिलनगरे रोहको नाम गहपतिपुत्तो अहोसि सद्धो पसन्नो सीलाचारसम्पन्नो. तस्मिंयेव च नगरे तेन समानमहाभोगे कुले एका दारिका अहोसि सद्धा पसन्ना पकतियापि भद्दताय भद्दाति नामेन. अथ रोहकस्स मातापितरो तं कुमारिं वारेत्वा तादिसे काले तं आनेत्वा आवाहविवाहं अकंसु. ते उभोपि समग्गवासं वसन्ति. सा अत्तनो आचारसम्पत्तिया ‘‘भद्दित्थी’’ति तस्मिं नगरे पाकटा पञ्ञाता अहोसि.
तेन च समयेन द्वे अग्गसावका पञ्चसतपञ्चसतभिक्खुपरिवारा जनपदचारिकं चरन्ता किमिलनगरं पापुणिंसु. रोहको तेसं तत्थ गतभावं ञत्वा सोमनस्सजातो थेरे उपसङ्कमित्वा वन्दित्वा स्वातनाय निमन्तेत्वा दुतियदिवसे पणीतेन खादनीयेन भोजनीयेन सपरिवारे ते सन्तप्पेत्वा सपुत्तदारो तेहि देसितं धम्मदेसनं सुत्वा तेसं ओवादे पतिट्ठहन्तो सरणानि गण्हि, पञ्च सीलानि समादियि. भरिया पनस्स अट्ठमीचातुद्दसीपन्नरसीपाटिहारियपक्खेसु उपोसथं उपवसि, विसेसतो सीलाचारसम्पन्ना अहोसि देवताहि च अनुकम्पिता. ताय एव च देवतानुकम्पाय अत्तनो उपरि पतितं मिच्छापवादं निरंकत्वा सुविसुद्धसीलाचारताय अतिविय लोके पत्थटयसा अहोसि.
सा हि सयं किमिलनगरे ठिता अत्तनो सामिकस्स वणिज्जावसेन तक्कसिलायं वसन्तस्स, उस्सवदिवसे सहायेहि उस्साहितस्स नक्खत्तकीळाचित्ते उप्पन्ने घरदेवताय अत्तनो दिब्बानुभावेन तं तत्थ नेत्वा सामिकेन सह योजिता तेनेव समागमेन पतिट्ठितगब्भा हुत्वा देवताय किमिलनगरं पटिनीता, अनुक्कमेन गब्भिनिभावे पाकटे जाते सस्सुआदीहि ‘‘अतिचारिनी’’ति आसङ्किता, ताय एव देवताय अत्तनो आनुभावेन गङ्गामहोघे किमिलनगरं ओत्थरन्ते विय उपट्ठापिते अत्तनो पतिब्बताभावसंसूचकेन सच्चाधिट्ठानपुब्बकेन सपथेन वातवेगसमुट्ठितवीचिजालं गङ्गामहोघं अत्तनो उपरि आपतितं आयस्सञ्च निवत्तेत्वा, सामिकेन समागतापि तेन पुब्बे सस्सुआदीहि विय आसङ्किता तक्कसिलायं तेन दिन्नं नाममुद्दितं सञ्ञाणञ्च अप्पेन्ती, तं आसङ्कं निरंकत्वा भत्तुनो ञातिजनस्स च महाजनस्स च सम्भावनीया जाता. तेन वुत्तं ‘‘सुविसुद्धसीलाचारताय अतिविय लोके पत्थटयसा अहोसी’’ति.
सा अपरेन समयेन कालं कत्वा तावतिंसभवने उप्पन्ना. अथ भगवति सावत्थितो तावतिंसभवनं गन्त्वा पारिच्छत्तकमूले पण्डुकम्बलसिलायं निसिन्ने, देवपरिसाय च भगवन्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नाय भद्दित्थीपि उपसङ्कमित्वा वन्दित्वा एकमन्तं अट्ठासि. अथ भगवा दससहस्सिलोकधातूसु सन्निपतिताय देवब्रह्मपरिसाय मज्झे ताय देवताय कतपुञ्ञकम्मं पुच्छन्तो –
२०६. ‘‘नीला पीता च काळा च, मञ्जिट्ठा अथ लोहिता;
उच्चावचानं वण्णानं, किञ्जक्खपरिवारिता.
२०७. ‘‘मन्दारवानं पुप्फानं, मालं धारेसि मुद्धनि;
नयिमे अञ्ञेसु कायेस, रुक्खा सन्ति सुमेधसे.
२०८. ‘‘केन कायं उपपन्ना, तावतिंसं यसस्सिनी;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति. – आह;
२०६-७. तत्थ नीला पीता च काळा च, मञ्जिट्ठा अथ लोहिताति एत्थ च-सद्दो वुत्तत्थसमुच्चयो, सो नीला च पीता चातिआदिना पच्चेकं योजेतब्बो. अथाति अञ्ञत्थे निपातो. तेन ओदातादिके अवुत्तवण्णे सङ्गण्हाति. इति-सद्दो लुत्तनिद्दिट्ठो वेदितब्बो. च-सद्दो वा अवुत्तत्थसमुच्चयो. अथाति इति-सद्दत्थे निपातो. उच्चावचानं वण्णानन्ति एत्थ उच्चावचानन्ति विभत्तिया अलोपो दट्ठब्बो, उच्चावचवण्णानं नानाविधवण्णानन्ति अत्थो. वण्णानन्ति वा वण्णवन्तानं. किञ्जक्खपरिवारिताति किञ्जक्खेहि परिवारितानं. सामिअत्थे हि एतं पच्चत्तवचनं. इदं वुत्तं होति – नीला च पीता च काळा च मञ्जिट्ठा च लोहिता च अथ अञ्ञे ओदातादयो चाति इमेसं वसेन उच्चावचवण्णानं तथाभूतेहियेव किञ्जक्खेहि केसरेहि परिवारितानं विचित्तसण्ठानादिताय वा उच्चावचानं यथावुत्तवण्णवन्तानं मन्दारवरुक्खसम्भूतताय मन्दारवानं पुप्फानं मालं तेहि कतं मालागुणं त्वं देवते अत्तनो सीसे धारेसि पिळन्धसीति.
यतो रुक्खतो तानि पुप्फानि, तेसं विसेसवण्णताय अनञ्ञसाधारणतं दस्सेतुं ‘‘नयिमे अञ्ञेसु कायेसु, रुक्खा सन्ति सुमेधसे’’ति वुत्तं. तत्थ इमेति यथावुत्तवण्णसण्ठानादियुत्ता पुप्फवन्तो रुक्खा न सन्तीति योजना. कायेसूति देवनिकायेसु. सुमेधसेति सुन्दरपञ्ञे.
तत्थ नीलाति इन्दनीलमहानीलादिमणिरतनानं वसेन नीलोभासा. पीताति पुप्फरागकक्केतनपुलकादिमणिरतनानञ्चेव सिङ्गीसुवण्णस्स च वसेन पीतोभासा. काळाति अस्मकउपलकादिमणिरतनानं वसेन कण्होभासा. मञ्जिट्ठाति जोतिरसगोमुत्तकगोमेदकादिमणिरतनानं वसेन मञ्जिट्ठोभासा. लोहिताति पदुमरागलोहितङ्कपवाळरतनादीनं वसेन लोहितोभासा. केचि पन नीलादिपदानि ‘‘रुक्खा’’ति इमिना ‘‘नीला रुक्खा’’तिआदिना योजेत्वा वदन्ति. रुक्खापि हि नीलादिवण्णेहि पुप्फेहि सञ्छन्नत्ता नीलादियोगतो नीलादिवोहारं लभन्तीति तेहि ‘‘नीला…पे… लोहिता…पे… नयिमे अञ्ञेसु कायेसु रुक्खा सन्ति सुमेधसेति, यतो त्वं उच्चावचानं वण्णानं किञ्जक्खपरिवारितानं मन्दारवानं पुप्फानं मालं धारेसी’’ति योजना कातब्बा. तत्थ यथादिट्ठे वण्णविसेसयुत्ते पुप्फे कित्तेत्वा तेसं असाधारणभावदस्सनेन रुक्खानं आवेनिकभावदस्सनं पठमनयो, रुक्खानं असाधारणभावदस्सनेन पुप्फानं आवेनिकभावदस्सनं दुतियनयो. पठमनये वण्णादयो सरूपेन गहिता, दुतियनये निस्सयमुखेनाति अयमेतेसं विसेसो.
२०८. केनाति केन पुञ्ञकम्मेन, कायं तावतिंसन्ति योजना. पुच्छिताचिक्खाति पुच्छिता त्वं आचिक्ख कथेहि.
एवं भगवता पुच्छिता सा देवता इमाहि गाथाहि ब्याकासि –
२०९. ‘‘भद्दित्थिकाति मं अञ्ञंसु, किमिलायं उपासिका;
सद्धा सीलेन सम्पन्ना, संविभागरता सदा.
२१०. ‘‘अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं;
अदासिं उजुभूतेसु, विप्पसन्नेन चेतसा.
२११. ‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
२१२. ‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;
सञ्ञमा संविभागा च, विमानं आवसामहं.
२१३. ‘‘पाणातिपाता विरता, मुसावादा च सञ्ञता;
थेय्या च अतिचारा च, मज्जपाना च आरका.
२१४. ‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;
उपासिका चक्खुमतो, अप्पमादविहारिनी;
कतावासा कतकुसला ततो चुता, सयंपभा अनुविचरामि नन्दनं.
२१५. ‘‘भिक्खू चाहं परमहितानुकम्पके, अभोजयिं तपस्सियुगं महामुनिं;
कतावासा कतकुसला ततो चुता, सयंपभा अनुविचरामि नन्दनं.
२१६. ‘‘अट्ठङ्गिकं अपरिमितं सुखावहं, उपोसथं सततमुपावसिं अहं;
कतावासा कतकुसला ततो चुता, सयंपभा अनुविचरामि नन्दन’’न्ति.
२०९-२१४. तत्थ भद्दित्थिकाति मं अञ्ञंसु, किमिलायं उपासिकाति आचारसम्पत्तिया सच्चकिरियाय उब्बत्तमानमहोघनिवत्तनेन अखण्डसीलाति सञ्जातनिच्छया भद्दा सुन्दरा अयं इत्थी, तस्मा ‘‘भद्दित्थिका उपासिका’’ति च मं किमिलनगरवासिनो जानिंसु. सद्धा सीलेन सम्पन्नातिआदि हेट्ठा वुत्तनयत्ता उत्तानत्थमेव.
अपिच ‘‘सद्धा’’ति इमिना सद्धाधनं, ‘‘संविभागरता, अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं. अदासिं उजुभूतेसु, विप्पसन्नेन चेतसा’’ति इमिना चागधनं, ‘‘सीलेन सम्पन्ना, चतुद्दसिं पञ्चदसिं…पे… पञ्चसिक्खापदे रता’’ति इमिना सीलधनं हिरिधनं ओत्तप्पधनञ्च, ‘‘अरियसच्चान कोविदा’’ति इमिना सुतधनं पञ्ञाधनञ्च दस्सितन्ति सा अत्तनो सत्तविधअरियधनपटिलाभं. ‘‘उपासिका चक्खुमतो…पे… अनुविचरामि नन्दन’’न्ति इमिना तस्स दिट्ठधम्मिकं सम्परायिकञ्च आनिसंसं विभावेति. तत्थ कतावासाति निप्फादितसुचरितावासा. सुचरितकम्मञ्हि तदत्ते आयतिञ्च सुखावासहेतुताय ‘‘सुखविहारस्स आवासो’’ति वुच्चति. तेनाह ‘‘कतकुसला’’ति.
२१५. पुब्बे अनामसितखेत्तविसेसं अत्तनो दानमयं पुञ्ञं वत्वा इदानि तस्स आयतनगततं दस्सेतुं ‘‘भिक्खू चा’’तिआदि वुत्तं. तत्थ भिक्खूति अनवसेसभिन्नकिलेसताय भिक्खू. परमहितानुकम्पकेति परमं अतिविय दिट्ठधम्मिकादिना हितेन अनुग्गाहके. अभोजयिन्ति पणीतेन भोजनेन भोजेसिं. तपस्सियुगन्ति उत्तमेन तपसा सब्बकिलेसमलं तापेत्वा समुच्छिन्दित्वा ठितत्ता तपस्सिभूतं युगं. महामुनिन्ति ततो एव महाइसिभूतं, महतो वा अत्तनो विसयस्स महन्तेनेव ञाणेन मुननतो परिच्छिन्दनतो महामुनिं. सब्बमेतं द्वे अग्गसावके सन्धाय वदति.
२१६. अपरिमितं सुखावहन्ति अनुनासिकलोपं अकत्वा वुत्तं. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव सुखा सग्गा’’ति (म. नि. ३.२५५) वचनतो भगवतोपि वचनपथातीतपरिमाणरहितसुखनिब्बत्तकं अत्तनो वा आनुभावेन अपरिमितसुखावहं सुखस्स आवहनकं. सततन्ति सब्बकालं. तं तं उपोसथरक्खणदिवसं अहापेत्वा, तं तं वा उपोसथरक्खणदिवसं अखण्डं कत्वा परिपुण्णं कत्वा सततं वा सब्बकालं सुखावहन्ति योजना. सेसं हेट्ठा वुत्तनयमेव.
अथ भगवा मातुदेवपुत्तप्पमुखानं दससहस्सिलोकधातुवासीनं देवब्रह्मसङ्घानं तयो मासे अभिधम्मपिटकं देसेत्वा मनुस्सलोकं आगन्त्वा भद्दित्थिविमानं भिक्खूनं देसेसि. सा देसना सम्पत्तपरिसाय सात्थिका अहोसीति.
भद्दित्थिविमानवण्णना निट्ठिता.