७. नन्दकत्थेरगाथावण्णना

यथापि भद्दो आजञ्ञोति आयस्मतो नन्दकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो सिखिस्स भगवतो काले पच्चन्तदेसे उप्पज्जित्वा विञ्ञुतं पत्तो वनचारिको हुत्वा विचरन्तो एकदिवसं सत्थु चङ्कमनट्ठानं दिस्वा पसन्नचित्तो वालुका ओकिरि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे चम्पायं गहपतिकुले निब्बत्ति, तस्स नन्दकोति नामं अकंसु. जेट्ठकभाता पनस्स भरतो नाम. तस्स पुब्बयोगो अनन्तरवत्थुस्मिं आविभविस्सति. ते उभोपि विञ्ञुतं पत्वा आयस्मन्तं सोणं कोळिविसं पब्बजितं सुत्वा ‘‘सोणोपि नाम तथासुखुमालो पब्बजि, किमङ्गं पन मय’’न्ति पब्बजिंसु. तेसु भरतो नचिरस्सेव विपस्सनं वड्ढेत्वा छळभिञ्ञो अहोसि. नन्दको पन किलेसानं बलवभावेन ताव विपस्सनं उस्सुक्कापेतुं नासक्खि, विपस्सनाय कम्मं करोति एव. अथस्स भरतत्थेरो आसयं ञत्वा अवस्सयो भवितुकामो तं पच्छासमणं कत्वा विहारतो निक्खमित्वा मग्गसमीपे निसिन्नो विपस्सनाकथं कथेसि.

तेन च समयेन सकटसत्थे गच्छन्ते एको सकटे युत्तो गोणो चिक्खल्लट्ठाने सकटं उद्धरितुं असक्कोन्तो परिपति. ततो नं सत्थवाहो सकटा मोचेत्वा तिणञ्च पानीयञ्च दत्वा परिस्समं अपनेत्वा पुन धुरे योजेसि. ततो गोणो वूपसन्तपरिस्समो लद्धबलो तं सकटं चिक्खल्लट्ठानतो उद्धरित्वा थले पतिट्ठापेसि. अथ भरतत्थेरो नन्दकस्स ‘‘पस्ससि नो त्वं, आवुसो नन्दक, इमस्स कम्म’’न्ति तं निदस्सेत्वा तेन ‘‘पस्सामी’’ति वुत्ते ‘‘इममत्थं सुट्ठु उपधारेही’’ति आह. इतरो ‘‘यथायं गोणो वूपसन्तपरिस्समो पङ्कट्ठानतो भारं उब्बहति, एवं मयापि संसारपङ्कतो अत्ता उद्धरितब्बो’’ति तमेवारम्मणं कत्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४८.९०-९५) –

‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहं;

वातमिगं गवेसन्तो, चङ्कमं अद्दसं अहं.

‘‘उच्छङ्गेन पुलिनं गय्ह, चङ्कमे ओकिरिं अहं;

पसन्नचित्तो सुमनो, सुगतस्स सिरीमतो.

‘‘एकतिंसे इतो कप्पे, पुलिनं ओकिरिं अहं;

दुग्गतिं नाभिजानामि, पुलिनस्स इदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो जेट्ठभातिकस्स भरतत्थेरस्स सन्तिके अञ्ञं ब्याकरोन्तो –

१७३. ‘‘यथापि भद्दो आजञ्ञो, खलित्वा पतितिट्ठति;

भिय्यो लद्धान संवेगं, अदीनो वहते धुरं.

१७४. ‘‘एवं दस्सनसम्पन्नं, सम्मासम्बुद्धसावकं;

आजानीयं मं धारेथ, पुत्तं बुद्धस्स ओरस’’न्ति. – गाथाद्वयं अभासि;

तत्थ भिय्यो लद्धान संवेगं, अदीनो वहते धुरन्ति ‘‘मय्हं जातिबलवीरियानं अननुच्छविकमेतं यदिदं आगतस्स भारस्स अवहन’’न्ति संवेगं लभित्वा अदीनो अदीनमानसो अलीनचित्तो. ‘‘अलीनो’’ति वा पाठो, सो एव अत्थो. भिय्यो पुनप्पुनं भिय्योसोमत्ताय अत्तनो धुरं भारं वहते उब्बहति. सेसं हेट्ठा रमणीयविहारित्थेरस्स गाथावण्णनायं वुत्तनयमेव.

नन्दकत्थेरगाथावण्णना निट्ठिता.