३. ततियवग्गो

१. उत्तरत्थेरगाथावण्णना

खन्धा मया परिञ्ञाताति आयस्मतो उत्तरत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सासने लद्धप्पसादो हुत्वा उपासकत्तं पटिवेदेसि. सो सत्थरि परिनिब्बुते अत्तनो ञातके सन्निपातेत्वा बहुं पूजासक्कारं सम्भरित्वा धातुपूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे साकेते ब्राह्मणकुले निब्बत्तित्वा उत्तरोति लद्धनामो वयप्पत्तो केनचिदेव करणीयेन सावत्थिं गतो कण्डम्बमूले कतं यमकपाटिहारियं दिस्वा पसीदित्वा पुन काळकारामसुत्तदेसनाय (अ. नि. ४.२४) अभिवड्ढमानसद्धो पब्बजित्वा सत्थारा सद्धिं राजगहं गन्त्वा उपसम्पज्जित्वा तत्थेव वसन्तो विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.४९.१०६-११०) –

‘‘निब्बुते लोकनाथम्हि, सिद्धत्थे लोकनायके;

मम ञाती समानेत्वा, धातुपूजं अकासहं.

‘‘चतुन्नवुतितो कप्पे, यं धातुमभिपूजयिं;

दुग्गतिं नाभिजानामि, धातुपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा सत्थरि सावत्थियं विहरन्ते बुद्धुपट्ठानत्थं राजगहतो सावत्थिं उपगतो भिक्खूहि ‘‘किं, आवुसो, पब्बज्जाकिच्चं तया मत्थकं पापित’’न्ति पुट्ठो अञ्ञं ब्याकरोन्तो –

१६१. ‘‘खन्धा मया परिञ्ञाता, तण्हा मे सुसमूहता;

भाविता मम बोज्झङ्गा, पत्तो मे आसवक्खयो.

१६२. ‘‘सोहं खन्धे परिञ्ञाय, अब्बहित्वान जालिनिं;

भावयित्वान बोज्झङ्गे, निब्बायिस्सं अनासवो’’ति. – गाथाद्वयं अभासि;

तत्थ खन्धाति पञ्चुपादानक्खन्धा. परिञ्ञाताति ‘‘इदं दुक्खं, न इतो भिय्यो’’ति परिच्छिज्ज ञाता भाविता. तेन दुक्खस्स अरियसच्चस्स परिञ्ञाभिसमयमाह. तण्हाति तसति परितसतीति तण्हा. सुसमूहताति समुग्घाटिता. एतेन समुदयसच्चस्स पहानाभिसमयं वदति. भाविता मम बोज्झङ्गाति बोधिसङ्खाताय सतिआदिधम्मसामग्गिया, तंसमङ्गिनो वा बोधिसङ्खातस्स अरियपुग्गलस्स अङ्गाति बोज्झङ्गा. सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाता मग्गपरियापन्ना धम्मा मया भाविता उप्पादिता वड्ढिता. बोज्झङ्गग्गहणेनेव चेत्थ तंसहचरितताय सब्बे मग्गधम्मा, सब्बे च बोधिपक्खियधम्मा गहिताति दट्ठब्बा. एतेनेव मग्गसच्चस्स भावनाभिसमयं दस्सेति. पत्तो मे आसवक्खयोति कामासवादयो आसवा खीयन्ति एत्थाति आसवक्खयोति लद्धनामो असङ्खतधम्मो मया पत्तो अधिगतो. एतेन निरोधसच्चस्स सच्छिकिरियाभिसमयं कथेति. एत्तावता अत्तनो सउपादिसेसनिब्बानसम्पत्तिं दस्सेति.

इदानि पन अनुपादिसेसनिब्बानसम्पत्तिं दस्सेन्तो ‘‘सोह’’न्तिआदिना दुतियं गाथमाह. तस्सत्थो – सोहं एवं वुत्तनयेन खन्धे परिञ्ञाय परिजानित्वा, तथा परिजानन्तो एव सकअत्तभावपरअत्तभावेसु अज्झत्तिकबाहिरायतनेसु अतीतादिभेदभिन्नेसु संसिब्बनाकारं पुनप्पुनं पवत्तिसङ्खातं जालं एतस्स अत्थीति जालिनीति लद्धनामं तण्हं अब्बहित्वान मम चित्तसन्तानतो उद्धरित्वा, तथा नं उद्धरन्तोयेव वुत्तप्पभेदे बोज्झङ्गे भावयित्वान ते भावनापारिपूरिं पापेत्वा ततो एव अनासवो हुत्वा ठितो इदानि चरिमकचित्तनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सं परिनिब्बायिस्सामीति.

उत्तरत्थेरगाथावण्णना निट्ठिता.

२. भद्दजित्थेरगाथावण्णना

पनादो नाम सो राजाति आयस्मतो भद्दजित्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो ब्राह्मणानं विज्जासिप्पेसु पारं गन्त्वा कामे पहाय तापसपब्बज्जं पब्बजित्वा अरञ्ञायतने अस्समं कारेत्वा वसन्तो एकदिवसं सत्थारं आकासेन गच्छन्तं दिस्वा पसन्नमानसो अञ्जलिं पग्गय्ह अट्ठासि. सत्था तस्स अज्झासयं ञत्वा आकासतो ओतरि. ओतिण्णस्स पन भगवतो मधुञ्च भिसमुळालञ्च सप्पिञ्च खीरञ्च उपनामेसि, तस्स तं भगवा अनुकम्पं उपादाय पटिग्गहेत्वा अनुमोदनं वत्वा पक्कामि. सो तेन पुञ्ञकम्मेन तुसिते निब्बत्तो तत्थ यावतायुकं ठत्वा ततो अपरापरं सुगतीसुयेव संसरन्तो विपस्सिस्स भगवतो काले महद्धनो सेट्ठि हुत्वा अट्ठसट्ठिभिक्खुसहस्सं भोजेत्वा तिचीवरेन अच्छादेसि.

एवं बहुं कुसलं कत्वा देवलोके निब्बत्तित्वा तत्थ यावतायुकं ठत्वा ततो चवित्वा मनुस्सेसु उप्पन्नो बुद्धसुञ्ञे लोके पञ्च पच्चेकबुद्धसतानि चतूहि पच्चयेहि उपट्ठहित्वा ततो चुतो राजकुले निब्बत्तित्वा रज्जं अनुसासन्तो पुत्तं पच्चेकबोधिं अधिगन्त्वा ठितं उपट्ठहित्वा तस्स परिनिब्बुतस्स धातुयो गहेत्वा चेतियं कत्वा पूजेसि. एवं तत्थ तत्थ तानि पुञ्ञानि कत्वा इमस्मिं बुद्धुप्पादे भद्दियनगरे असीतिकोटिविभवस्स भद्दियसेट्ठिस्स एकपुत्तको हुत्वा निब्बत्ति, भद्दजीतिस्स नामं अहोसि. तस्स किर इस्सरियभोगपरिवारादिसम्पत्ति चरिमभवे बोधिसत्तस्स विय अहोसि.

तदा सत्था सावत्थियं वस्सं वसित्वा भद्दजिकुमारं सङ्गण्हितुं महता भिक्खुसङ्घेन सद्धिं भद्दियनगरं गन्त्वा जातियावने वसि तस्स ञाणपरिपाकं आगमयमानो. सोपि उपरि पासादे निसिन्नो सीहपञ्जरं विवरित्वा ओलोकेन्तो भगवतो सन्तिके धम्मं सोतुं गच्छन्तं महाजनं दिस्वा ‘‘कत्थायं महाजनो गच्छती’’ति पुच्छित्वा तं कारणं सुत्वा सयम्पि महता परिवारेन सत्थु सन्तिकं गन्त्वा धम्मं सुणन्तो सब्बाभरणपटिमण्डितोव सब्बकिलेसे खेपेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५६.९८-११६) –

‘‘ओग्गय्ह यं पोक्खरणिं, नानाकुञ्जरसेवितं;

उद्धरामि भिसं तत्थ, घासहेतु अहं तदा.

‘‘भगवा तम्हि समये, पदुमुत्तरसव्हयो;

रत्तम्बरधरो बुद्धो, गच्छते अनिलञ्जसे.

‘‘धुनन्तो पंसुकूलानि, सद्दं अस्सोसहं तदा;

उद्धं निज्झायमानोहं, अद्दसं लोकनायकं.

‘‘तत्थेव ठितको सन्तो, आयाचिं लोकनायकं;

मधुं भिसेहि सहितं, खीरं सप्पिं मुळालिकं.

‘‘पटिग्गण्हातु मे बुद्धो, अनुकम्पाय चक्खुमा;

ततो कारुणिको सत्था, ओरोहित्वा महायसो.

‘‘पटिग्गण्हि ममं भिक्खं, अनुकम्पाय चक्खुमा;

पटिग्गहेत्वा सम्बुद्धो, अका मे अनुमोदनं.

‘‘सुखी होतु महापुञ्ञ, गति तुय्हं समिज्झतु;

इमिना भिसदानेन, लभस्सु विपुलं सुखं.

‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको;

भिक्खमादाय सम्बुद्धो, आकासेनागमा जिनो.

‘‘ततो भिसं गहेत्वान, आगच्छिं मम अस्समं;

भिसं रुक्खे लग्गेत्वान, मम दानं अनुस्सरिं.

‘‘महावातो उट्ठहित्वा, सञ्चालेसि वनं तदा;

आकासो अभिनादित्थ, असनी च फली तदा.

‘‘ततो मे असनीपातो, मत्थके निपती तदा;

सोहं निसिन्नको सन्तो, तत्थ कालङ्कतो अहं.

‘‘पुञ्ञकम्मेन सञ्ञुत्तो, तुसितं उपपज्जहं;

कळेवरं मे पतितं, देवलोके रमामहं.

‘‘छळसीतिसहस्सानि, नारियो समलङ्कता;

सायं पातं उपट्ठन्ति, भिसदानस्सिदं फलं.

‘‘मनुस्सयोनिमागन्त्वा, सुखितो होमहं तदा;

भोगे मे ऊनता नत्थि, भिसदानस्सिदं फलं.

‘‘अनुकम्पितको तेन, देवदेवेन तादिना;

सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.

‘‘सतसहस्सितो कप्पे, यं भिसं अददिं तदा;

दुग्गतिं नाभिजानामि, भिसदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्ते पन तेन अधिगते सत्था भद्दियसेट्ठिं आमन्तेसि – ‘‘तव पुत्तो अलङ्कतपटियत्तो धम्मं सुणन्तो अरहत्ते पतिट्ठासि, तेनस्स इदानेव पब्बजितुं युत्तं, नो चे पब्बजति, परिनिब्बायिस्सती’’ति. सेट्ठि ‘‘न मय्हं पुत्तस्स दहरस्सेव सतो परिनिब्बानेन किच्चं अत्थि, पब्बाजेथ न’’न्ति आह. तं सत्था पब्बाजेत्वा उपसम्पादेत्वा तत्थ सत्ताहं वसित्वा कोटिगामं पापुणि, सो च गामो गङ्गातीरे. कोटिगामवासिनो बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं पवत्तेसुं. भद्दजित्थेरो सत्थारा अनुमोदनाय आरद्धमत्ताय बहिगामं गन्त्वा ‘‘गङ्गातीरे मग्गसमीपे सत्थु आगतकाले वुट्ठहिस्सामी’’ति समापत्तिं समापज्जित्वा निसीदि. महाथेरेसु आगच्छन्तेसुपि अवुट्ठहित्वा सत्थु आगतकालेयेव वुट्ठहि. पुथुज्जनभिक्खू, ‘‘अयं अधुना पब्बजितो महाथेरेसु आगच्छन्तेसु मानत्थद्धो हुत्वा न वुट्ठासी’’ति उज्झायिंसु. कोटिगामवासिनो सत्थु भिक्खुसङ्घस्स च बहू नावासङ्घाटे बन्धिंसु, सत्था ‘‘हन्दस्स आनुभावं पकासेमी’’ति नावासङ्घाटे ठत्वा, ‘‘कहं, भद्दजी’’ति पुच्छि. भद्दजित्थेरो ‘‘एसोहं, भन्ते’’ति सत्थारं उपसङ्कमित्वा अञ्जलिं कत्वा अट्ठासि. सत्था, ‘‘एहि, भद्दजि, अम्हेहि सद्धिं एकनावं अभिरुहा’’ति. सो उप्पतित्वा सत्थु ठितनावायं अट्ठासि. सत्था गङ्गामज्झं गतकाले, ‘‘भद्दजि, तया महापनादराजकाले अज्झावुट्ठरतनपासादो कह’’न्ति आह. ‘‘इमस्मिं ठाने निमुग्गो’’ति. ‘‘तेन हि, भद्दजि, सब्रह्मचारीनं कङ्खं छिन्दा’’ति. तस्मिं खणे थेरो सत्थारं वन्दित्वा इद्धिबलेन गन्त्वा पासादथूपिकं पादङ्गुलन्तरेन सन्निरुम्भित्वा पञ्चवीसतियोजनं पासादं गहेत्वा आकासे उप्पति, उप्पतन्तो च पञ्ञास योजनानि पासादं उदकतो उक्खिपि. अथस्स पुरिमभवे ञातका पासादगतेन लोभेन मच्छकच्छपमण्डूका हुत्वा तस्मिं पासादे उट्ठहन्ते परिवत्तित्वा उदके पतिंसु. सत्था ते पतन्ते दिस्वा ‘‘ञातका ते, भद्दजि, किलमन्ती’’ति आह. थेरो सत्थु वचनेन पासादं विस्सज्जेसि. पासादो यथाठाने एव पतिट्ठहि. सत्था पारङ्गतो भिक्खूहि ‘‘कदा, भन्ते, भद्दजित्थेरेन अयं पासादो अज्झावुट्ठो’’ति पुट्ठो महापनादजातकं (जा. १.३.४०-४१) कथेत्वा महाजनं धम्मामतं पायेसि. थेरो पन अत्तनो अज्झावुट्ठपुब्बं सुवण्णपासादं दस्सेत्वा –

१६३. ‘‘पनादो नाम सो राजा, यस्स यूपो सुवण्णयो;

तिरियं सोळसुब्बेधो, उब्भमाहु सहस्सधा.

१६४. ‘‘सहस्सकण्डो सतगेण्डु, धजालु हरितामयो;

अनच्चुं तत्थ गन्धब्बा, छ सहस्सानि सत्तधा’’ति. –

द्वीहि गाथाहि वण्णेन्तो अञ्ञं ब्याकासि.

तत्थ पनादो नाम सो राजाति अतीते पनादो नाम सो राजा अहोसीति अत्तभावअन्तरहितताय अत्तानं परं विय निद्दिसति. सो एव हि रज्जे ठितकालतो पट्ठाय सदा उस्साहसम्पत्तिआदिना महता राजानुभावेन महता च कित्तिसद्देन समन्नागतत्ता ‘‘राजा महापनादो’’ति पञ्ञायित्थ. यस्स यूपो सुवण्णयोति यस्स रञ्ञो अयं यूपो पासादो सुवण्णमयो. तिरियं सोळसुब्बेधोति वित्थारतो सोळसकण्डपातप्पमाणो. सो पन अड्ढयोजनमत्तो होति. उब्भामाहु सहस्सधाति उब्भं उच्चं एवमस्स पासादस्स सहस्सधा सहस्सकण्डप्पमाणमाहु. सो पन योजनतो पञ्चवीसतियोजनप्पमाणो होति. केचि पनेत्थ गाथासुखत्थं ‘‘आहू’’ति दीघं कतं. आहु अहोसीति अत्थं वदन्ति.

सहस्सकण्डोति सहस्सभूमिको. सतगेण्डूति अनेकसतनिय्यूहको. धजालूति तत्थ तत्थ निय्यूहसिखरादीसु पतिट्ठापितेहि यट्ठिधजपटाकधजादिधजेहि सम्पन्नो. हरितामयोति चामीकरसुवण्णमयो. केचि पन ‘‘हरितजातिमणिसरिक्खको’’ति वदन्ति. गन्धब्बाति नटा. छ सहस्सानि सत्तधाति छमत्तानि गन्धब्बसहस्सानि सत्तधा तस्स पासादस्स सत्तसु ठानेसु रञ्ञो अभिरमापनत्थं नच्चिंसूति अत्थो. ते एवं नच्चन्तापि राजानं हासेतुं नासक्खिंसु. अथ सक्को देवराजा देवनटे पेसेत्वा समज्जं कारेसि, तदा राजा हसीति.

भद्दजित्थेरगाथावण्णना निट्ठिता.

३. सोभितत्थेरगाथावण्णना

सतिमा पञ्ञवाति आयस्मतो सोभितत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा वयप्पत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं पुब्बेनिवासञाणलाभीनं भिक्खूनं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं उद्दिस्स पत्थनं कत्वा पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो सुमेधस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गन्त्वा नेक्खम्माधिमुत्तो घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तस्स समीपे अरञ्ञायतने अस्समं कारेत्वा वनमूलफलाफलेन यापेन्तो बुद्धुप्पादं सुत्वा सब्बत्थ एकरत्तिवासेनेव भद्दवतीनगरे सत्थारं उपसङ्कमित्वा पसन्नमानसो ‘‘तुवं सत्था च केतु चा’’तिआदीहि छहि गाथाहि अभित्थवि, सत्था चस्स भाविनिं सम्पत्तिं पकासेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति. सोभितोतिस्स नामं अकंसु. सो अपरेन समयेन सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा छळभिञ्ञो अहोसि. पुब्बेनिवासञाणे चिण्णवसी च अहोसि. तेन वुत्तं अपदाने (अप. थेर २.४९.४६-७४) –

‘‘दक्खिणे हिमवन्तस्स, सुकतो अस्समो मम;

उत्तमत्थं गवेसन्तो, वसामि विपिने तदा.

‘‘लाभालाभेन सन्तुट्ठो, मूलेन च फलेन च;

अन्वेसन्तो आचरियं, वसामि एकको अहं.

‘‘सुमेधो नाम सम्बुद्धो, लोके उप्पज्जि तावदे;

चतुसच्चं पकासेति, उद्धरन्तो महाजनं.

‘‘नाहं सुणोमि सम्बुद्धं, नपि मे कोचि संसति;

अट्ठवस्से अतिक्कन्ते, अस्सोसिं लोकनायकं.

‘‘अग्गिदारुं नीहरित्वा, सम्मज्जित्वान अस्समं;

खारिभारं गहेत्वान, निक्खमिं विपिना अहं.

‘‘एकरत्तिं वसन्तोहं, गामेसु निगमेसु च;

अनुपुब्बेन चन्दवतिं, तदाहं उपसङ्कमिं.

‘‘भगवा तम्हि समये, सुमेधो लोकनायको;

उद्धरन्तो बहू सत्ते, देसेति अमतं पदं.

‘‘जनकायमतिक्कम्म, वन्दित्वा जिनसागरं;

एकंसं अजिनं कत्वा, सन्थविं लोकनायकं.

‘‘तुवं सत्था च केतु च, धजो यूपो च पाणिनं;

परायनो पतिट्ठा च, दीपो च द्विपदुत्तमो.

‘‘नेपुञ्ञो दस्सने वीरो, तारेसि जनतं तुवं;

नत्थञ्ञो तारको लोके, तवुत्तरितरो मुने.

‘‘सक्का थेवे कुसग्गेन, पमेतुं सागरुत्तमे;

न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे.

‘‘तुलदण्डे ठपेत्वान, महिं सक्का धरेतवे;

नत्वेव तव पञ्ञाय, पमाणमत्थि चक्खुम.

‘‘आकासो मिनितुं सक्का, रज्जुया अङ्गुलेन वा;

नत्वेव तव सब्बञ्ञु, सीलं सक्का पमेतवे.

‘‘महासमुद्दे उदकं, आकासो च वसुन्धरा;

परिमेय्यानि एतानि, अप्पमेय्योसि चक्खुम.

‘‘छहि गाथाहि सब्बञ्ञुं, कित्तयित्वा महायसं;

अञ्जलिं पग्गहेत्वान, तुण्ही अट्ठासहं तदा.

‘‘यं वदन्ति सुमेधोति, भूरिपञ्ञं सुमेधसं;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

‘‘यो मे ञाणं पकित्तेसि, विप्पसन्नेन चेतसा;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘सत्तसत्तति कप्पानि, देवलोके रमिस्सति;

सहस्सक्खत्तुं देविन्दो, देवरज्जं करिस्सति.

‘‘अनेकसतक्खत्तुञ्च, चक्कवत्ती भविस्सति;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

‘‘देवभूतो मनुस्सो वा, पुञ्ञकम्मसमाहितो;

अनूनमनसङ्कप्पो, तिक्खपञ्ञो भविस्सति.

‘‘तिंसकप्पसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘अगारा अभिनिक्खम्म, पब्बजिस्सतिकिञ्चनो;

जातिया सत्तवस्सेन, अरहत्तं फुसिस्सति.

‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि सासनं;

एत्थन्तरे न जानामि, चेतनं अमनोरमं.

‘‘संसरित्वा भवे सब्बे, सम्पत्तानुभविं अहं;

भोगे मे ऊनता नत्थि, फलं ञाणस्स थोमने.

‘‘तियग्गी निब्बुता मय्हं, भवा सब्बे समूहता;

सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.

‘‘तिंसकप्पसहस्सम्हि, यं ञाणमथविं अहं;

दुग्गतिं नाभिजानामि, फलं ञाणस्स थोमने.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

सो अरहत्तं पन पत्वा अत्तनो पुब्बेनिवासं अनुपटिपाटिया अनुस्सरन्तो याव असञ्ञभवे अचित्तकपटिसन्धि, ताव अद्दस. ततो पञ्च कप्पसतानि चित्तप्पवत्तिं अदिस्वा अवसानेव दिस्वा ‘‘किमेत’’न्ति आवज्जेन्तो नयवसेन ‘‘असञ्ञभवो भविस्सती’’ति निट्ठं अगमासि. तेनाह भगवा – ‘‘अत्थि, भिक्खवे, असञ्ञसत्ता नाम दीघायुका देवा, ततो चुतो सोभितो इधूपपन्नो, सो एतं भवं जानाति, सोभितो अनुस्सरती’’ति (पारा. २३२ अत्थतो समानं). एवं नयवसेन अनुस्सरन्तस्स अनुस्सरणकोसल्लं दिस्वा सत्था थेरं पुब्बेनिवासं अनुस्सरन्तानं अग्गट्ठाने ठपेसि. ततो एव चायं आयस्मा सविसेसं अत्तनो पुब्बेनिवासानुस्सतिञाणं तस्स च पच्चयभूतं पटिपत्तिं पच्चवेक्खित्वा सोमनस्सजातो तदत्थदीपनं उदानं उदानेन्तो –

१६५. ‘‘सतिमा पञ्ञवा भिक्खु, आरद्धबलवीरियो;

पञ्च कप्पसतानाहं, एकरत्तिं अनुस्सरिं.

१६६. ‘‘चत्तारो सतिपट्ठाने, सत्त अट्ठ च भावयं;

पञ्च कप्पसतानाहं, एकरत्तिं अनुस्सरि’’न्ति. – गाथाद्वयं अभासि;

तत्थ सतिमाति सयं समुदागमनसम्पन्नाय सतिपट्ठानभावनापारिपूरिया सतिवेपुल्लप्पत्तिया च सतिमा. पञ्ञवाति छळभिञ्ञापारिपूरिया पञ्ञावेपुल्लप्पत्तिया च पञ्ञवा. भिन्नकिलेसताय भिक्खु. सद्धादिबलानञ्चेव चतुब्बिधसम्मप्पधानवीरियस्स च संसिद्धिपारिपूरिया आरद्धबलवीरियो. सद्धादीनञ्हेत्थ बलग्गहणेन गहणं सतिपि सतिआदीनं बलभावे, यथा ‘‘गोबलिबद्धा पुञ्ञञाणसम्भारा’’ति. पञ्च कप्पसतानाहं, एकरत्तिं अनुस्सरिन्ति एकरत्तिं विय अनुस्सरिं. विय-सद्दो हि इध लुत्तनिद्दिट्ठो, एतेन पुब्बेनिवासानुस्सतिञाणे अत्तनो ञाणवसीभावं दीपेति.

इदानि याय पटिपत्तिया अत्तनो सतिमन्तादिभावो सातिसयं पुब्बेनिवासञाणञ्च सिद्धं, तं दस्सेतुं ‘‘चत्तारो’’तिआदिना दुतियं गाथमाह. तत्थ चत्तारो सतिपट्ठानेति कायानुपस्सनादिके अत्तनो विसयभेदेन चतुब्बिधे लोकियलोकुत्तरमिस्सके सतिसङ्खाते सतिपट्ठाने. सत्ताति सत्त बोज्झङ्गे. अट्ठाति अट्ठ मग्गङ्गानि. सतिपट्ठानेसु हि सुप्पतिट्ठितचित्तस्स सत्त बोज्झङ्गा भावनापारिपूरिं गता एव होन्ति, तथा अरियो अट्ठङ्गिको मग्गो. तेनाह धम्मसेनापति – ‘‘चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता सत्त बोज्झङ्गे यथाभूतं भावेत्वा’’तिआदीहि (दी. नि. ३.१४३) सत्तकोट्ठासिकेसु सत्ततिंसाय बोधिपक्खियधम्मेसु एकस्मिं कोट्ठासे भावनापारिपूरिं गच्छन्ते इतरे अगच्छन्ता नाम नत्थीति. भावयन्ति भावनाहेतु. सेसं वुत्तनयमेव.

सोभितत्थेरगाथावण्णना निट्ठिता.

४. वल्लियत्थेरगाथावण्णना

यं किच्चं दळ्हवीरियेनातिआदिका आयस्मतो वल्लियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो विज्जासिप्पेसु निप्फत्तिं गतो असीतिकोटिविभवं पहाय तापसपब्बज्जं पब्बजित्वा पब्बतपादे अरञ्ञायतने एकिस्सा नदिया तीरे अस्समं कारेत्वा विहरन्तो अत्तनो अनुग्गण्हनत्थं उपगतं सत्थारं दिस्वा पसन्नमानसो अजिनचम्मं पत्थरित्वा अदासि. तत्थ निसिन्नं भगवन्तं पुप्फेहि च चन्दनेन च पूजेत्वा अम्बफलानि दत्वा पञ्चपतिट्ठितेन वन्दि. तस्स भगवा निसिन्नासनसम्पत्तिं पकासेन्तो अनुमोदनं वत्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं ब्राह्मणकुले निब्बत्तित्वा ‘‘कण्हमित्तो’’ति लद्धनामो वयप्पत्तो सत्थु वेसालिगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो महाकच्चानत्थेरस्स सन्तिके पब्बजि. सो मन्दपञ्ञो दन्धपरक्कमो च हुत्वा चिरं कालं विञ्ञुं सब्रह्मचारिं निस्सायेव वसति. भिक्खू ‘‘यथा नाम वल्लि रुक्खादीसु किञ्चि अनिस्साय वड्ढितुं न सक्कोति, एवमयम्पि कञ्चि पण्डितं अनिस्साय वड्ढितुं न सक्कोती’’ति वल्लियोत्वेव समुदाचरिंसु. अपरभागे पन वेणुदत्तत्थेरं उपसङ्कमित्वा तस्स ओवादे ठत्वा सतो सम्पजानो हुत्वा विहरन्तो ञाणस्स परिपाकं गतत्ता पटिपत्तिक्कमं थेरं पुच्छन्तो –

१६७. ‘‘यं किच्चं दळ्हवीरियेन, यं किच्चं बोद्धुमिच्छता;

करिस्सं नावरज्झिस्सं, पस्स वीरियं परक्कमं.

१६८. ‘‘त्वञ्च मे मग्गमक्खाहि, अञ्जसं अमतोगधं;

अहं मोनेन मोनिस्सं, गङ्गासोतोव सागर’’न्ति. – गाथाद्वयं अभासि;

तत्थ यं किच्चं दळ्हवीरियेनाति दळ्हेन वीरियेन थिरेन परक्कमेन, दळ्हवीरियेन वा पुरिसधोरय्हेन यं किच्चं कातब्बं पटिपज्जितब्बं. यं किच्चं बोद्धुमिच्छताति चत्तारि अरियसच्चानि निब्बानमेव वा बोद्धुं बुज्झितुं इच्छन्तेन पटिविज्झितुकामेन यं किच्चं करणीयं. करिस्सं नावरज्झिस्सन्ति तमहं दानि करिस्सं न विराधेस्सं, यथानुसिट्ठं पटिपज्जिस्सामि. पस्स वीरियं परक्कमन्ति यथा पटिपज्जमाने धम्मे विधिना ईरणतो ‘‘वीरियं’’, परं परं ठानं अक्कमनतो ‘‘परक्कमो’’ति च लद्धनामं सम्मावायामं पस्स न सद्धमेवाति अत्तनो कत्तुकामतं दस्सेति.

त्वञ्चाति कम्मट्ठानदायकं कल्याणमित्तं आलपति. मेति मय्हं. मग्गमक्खाहीति अरियमग्गं कथेहि, लोकुत्तरमग्गसम्पापकं चतुसच्चकम्मट्ठानं कथेहीति अत्थो. अञ्जसन्ति उजुकं मज्झिमपटिपदाभावेन अन्तद्वयस्स अनुपगमनतो. अमते निब्बाने सम्पापकभावेन पतिट्ठितत्ता अमतोगधं. मोनेनाति ञाणेन मग्गपञ्ञाय. मोनिस्सन्ति जानिस्सं निब्बानं पटिविज्झिस्सं पापुणिस्सं. गङ्गासोतोव सागरन्ति यथा गङ्गाय सोतो सागरं समुद्दं अविरज्झन्तो एकंसतो ओगाहति, एवं ‘‘अहं कम्मट्ठानं अनुयुञ्जन्तो मग्गञाणेन निब्बानं अधिगमिस्सामि, तस्मा तं कम्मट्ठानं मे आचिक्खथा’’ति थेरं कम्मट्ठानं याचि.

तं सुत्वा वेणुदत्तत्थेरो तस्स कम्मट्ठानं अदासि. सोपि कम्मट्ठानं अनुयुञ्जन्तो नचिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४९.७५-१०५) –

‘‘पञ्च कामगुणे हित्वा, पियरूपे मनोरमे;

असीति कोटियो हित्वा, पब्बजिं अनगारियं.

‘‘पब्बजित्वान कायेन, पापकम्मं विवज्जयिं;

वचीदुच्चरितं हित्वा, नदीकूले वसामहं.

‘‘एककं मं विहरन्तं, बुद्धसेट्ठो उपागमि;

नाहं जानामि बुद्धोति, अकासिं पटिसन्थारं.

‘‘करित्वा पटिसन्थारं, नामगोत्तमपुच्छहं;

देवतानुसि गन्धब्बो, अदु सक्को पुरिन्ददो.

‘‘को वा त्वं कस्स वा पुत्तो, महाब्रह्मा इधागतो;

विरोचेसि दिसा सब्बा, उदयं सूरियो यथा.

‘‘सहस्सारानि चक्कानि, पादे दिस्सन्ति मारिस;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं.

‘‘नामगोत्तं पवेदेहि, संसयं अपनेहि मे;

नम्हि देवा न गन्धब्बो, नम्हि सक्को पुरिन्ददो.

‘‘ब्रह्मभावो च मे नत्थि, एतेसं उत्तमो अहं;

अतीतो विसयं तेसं, दालयिं कामबन्धनं.