४. चतुत्थवग्गो
१. मिगसिरत्थेरगाथावण्णना
यतो अहं पब्बजितोति आयस्मतो मिगसिरत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो कस्सपस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नचित्तो कुसट्ठकं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे ब्राह्मणकुले पटिसन्धिं गहेत्वा मिगसिरनक्खत्तेन जातत्ता मिगसिरोति लद्धनामो वयप्पत्तो ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो छवसीसमन्तं नाम सिक्खि, यं परिजप्पेत्वा तिवस्समत्थके मतानम्पि सीसं नखेन आकोटेत्वा ‘‘अयं सत्तो असुकट्ठाने निब्बत्तो’’ति जानाति.
सो घरावासं अनिच्छन्तो परिब्बाजकपब्बज्जं पब्बजित्वा तं विज्जं निस्साय लोकेन सक्कतो गरुकतो लाभी हुत्वा विचरन्तो सावत्थिं उपगतो सत्थु सन्तिकं गन्त्वा अत्तनो आनुभावं पकासेन्तो – ‘‘अहं, भो गोतम, मतानं निब्बत्तट्ठानं जानामी’’ति वत्वा, ‘‘कथं पन त्वं जानासी’’ति वुत्ते, ‘‘छवसीसानि आहरापेत्वा मन्तं परिजप्पेत्वा नखेन सीसं आकोटेन्तो निरयादिकं तेहि तेहि निब्बत्तट्ठानं जानामी’’ति कथेसि. अथस्स भगवा परिनिब्बुतस्स भिक्खुनो सीसकपालं आहरापेत्वा, ‘‘कथेहि ताव तस्स गतिं, यस्सिदं सीसकपाल’’न्ति आह. सो तं कपालं मन्तं परिजप्पेत्वा नखेन आकोटेत्वा नेव अन्तं न कोटिं पस्सति. अथ सत्थारा, ‘‘न सक्कोसि परिब्बाजका’’ति वुत्ते, ‘‘उपपरिक्खिस्सामि तावा’’ति वत्वा पुनप्पुनं परिवत्तेन्तोपि न पस्सतेव. बाहिरकमन्तेन हि खीणासवस्स गतिं कथं जानिस्सति, अथस्स मत्थकतो कच्छेहि च सेदो मुच्चि. सो लज्जित्वा तुण्हीभूतो अट्ठासि. सत्था ‘‘किलमसि परिब्बाजका’’ति आह. सो ‘‘आम, किलमामि, न इमस्स गतिं जानामि, तुम्हे पन जानाथा’’ति. ‘‘अहं एतं जानामि, इतो उत्तरितरम्पि जानामी’’ति वत्वा ‘‘निब्बानं गतो सो’’ति आह. परिब्बाजको ‘‘इमं विज्जं मय्हं देथा’’ति आह. ‘‘तेन हि पब्बजा’’ति वत्वा तं पब्बाजेत्वा पठमं समथकम्मट्ठाने नियोजेत्वा झानाभिञ्ञासु पतिट्ठितस्स विपस्सनाय कम्मं उपदिसि. सो विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४८.५६-६०) –
‘‘कस्सपस्स भगवतो, ब्राह्मणस्स वुसीमतो;
पसन्नचित्तो सुमनो, कुसट्ठकमदासहं.
‘‘इमस्मिंयेव कप्पस्मिं, कुसट्ठकमदासहं;
दुग्गतिं नाभिजानामि, कुसट्ठकस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तो –
१८१. ‘‘यतो अहं पब्बजितो, सम्मासम्बुद्धसासने;
विमुच्चमानो उग्गच्छिं, कामधातुं उपच्चगं.
१८२. ‘‘ब्रह्मुनो पेक्खमानस्स, ततो चित्तं विमुच्चि मे;
अकुप्पा मे विमुत्तीति, सब्बसंयोजनक्खया’’ति. – गाथाद्वयं अभासि;
तत्थ यतो अहं पब्बजितो, सम्मासम्बुद्धसासनेति यतो पभुति अहं पब्बजितो बुद्धस्स भगवतो सासने, पब्बजितकालतो पट्ठाय. विमुच्चमानो उग्गच्छिन्ति संकिलेसपक्खतो पठमं ताव समथविपस्सनाहि विमुच्चमानो वोदानधम्मसवनेन उट्ठहिं. एवं उग्गच्छन्तो कामधातुं उपच्चगं अनागामिमग्गेन अच्चन्तमेव कामधातुं अतिक्कमिं.
ब्रह्मुनो पेक्खमानस्स, ततो चित्तं विमुच्चि मेति सदेवकस्स लोकस्स अग्गभूतत्ता सेट्ठट्ठेन ब्रह्मुनो बुद्धस्स भगवतो महाकरुणायोगेन ‘‘अयं कुलपुत्तो मम सासने पब्बजित्वा कथं नु खो पटिपज्जती’’ति पेक्खन्तस्स ततो अनागामिमग्गाधिगमतो पच्छा अग्गमग्गाधिगमेन मम चित्तं सब्बसंकिलेसतो अच्चन्तमेव मुच्चि. अकुप्पा मे विमुत्तीति, सब्बसंयोजनक्खयाति तथाविमुत्तचित्तत्ता एव सब्बेसं संयोजनानं खया परिक्खया इति एवं अकुप्पा मे विमुत्तीति अञ्ञं ब्याकासि.
मिगसिरत्थेरगाथावण्णना निट्ठिता.
२. सिवकत्थेरगाथावण्णना
अनिच्चानि गहकानीति आयस्मतो सिवकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं भगवन्तं पिण्डाय चरन्तं पस्सित्वा पसन्नमानसो पत्तं आदाय कुम्मासस्स पूरेत्वा अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्ति, सिवकोतिस्स नामं अहोसि. सो वयप्पत्तो विज्जासिप्पेसु निप्फत्तिं गतो नेक्खम्मज्झासयताय कामे पहाय परिब्बाजकपब्बज्जं पब्बजित्वा विचरन्तो सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५६.११७-१२१) –
‘‘एसनाय चरन्तस्स, विपस्सिस्स महेसिनो;
रित्तकं पत्तं दिस्वान, कुम्मासं पूरयिं अहं.
‘‘एकनवुतितो कप्पे, यं भिक्खमददिं तदा;
दुग्गतिं नाभिजानामि, कुम्मासस्स इदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तो –
१८३. ‘‘अनिच्चानि गहकानि, तत्थ तत्थ पुनप्पुनं;
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.
१८४. ‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, थूणिका च विदालिता;
विमरियादिकतं चित्तं, इधेव विधमिस्सती’’ति. – गाथाद्वयं अभासि;
तत्थ अनिच्चानि गहकानि, तत्थ तत्थ पुनप्पुनन्ति तस्मिं तस्मिं भवे पुनप्पुनं निब्बत्तमानानि गहकानि अत्तभावगेहानि न निब्बानि अनवट्ठितानि इत्तरानि परित्तकालानि. गहकारं गवेसन्तोति इमस्स अत्तभावगेहस्स कारकं तण्हावड्ढकिं परियेसन्तो एत्तकं कालं अनुविचरिन्ति अधिप्पायो. दुक्खा जाति पुनप्पुनन्ति इदं गहकारकगवेसनस्स कारणवचनं. यस्मा जराब्याधिमरणमिस्सताय जाति नामेसा पुनप्पुनं उपगन्तुं दुक्खा, न च सा तस्मिं अदिट्ठे निवत्तति, तस्मा तं गवेसन्तो विचरिन्ति अत्थो.
गहकारक दिट्ठोसीति इदानि पन येन सो सक्का दट्ठुं, तेन अरियमग्गञाणचक्खुना गहकारक दिट्ठो असि. पुन गेहन्ति पुन इमस्मिं संसारवट्टे अत्तभावसङ्खातं मम गेहं न काहसि न करिस्ससि. सब्बा ते फासुका भग्गाति तव सब्बा अनवसेसकिलेसफासुका मया भग्गा. थूणिका च विदालिताति इदानि तया कातब्बस्स अत्तभावगेहस्स अविज्जासङ्खाता कण्णिका च भिन्ना. विमरियादिकतं चित्तन्ति मम चित्तं विगतन्तं कतं, आयतिं अनुप्पत्तिधम्मतं आपादितं. ततो एव इधेव विधमिस्सति इमस्मिंयेव भवे विद्धंसिस्सति, चरिमकचित्तनिरोधेन निरुज्झिस्सतीति अत्थो.
सिवकत्थेरगाथावण्णना निट्ठिता.
३. उपवाणत्थेरगाथावण्णना
अरहं सुगतोति आयस्मतो उपवाणत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले दलिद्दकुले निब्बत्तित्वा विञ्ञुतं पत्तो भगवति परिनिब्बुते तस्स धातुं गहेत्वा मनुस्सदेवनागगरुळकुम्भण्डयक्खगन्धब्बेहि सत्तरतनमये सत्तयोजनिके थूपे कते तत्थ सुधोतं अत्तनो उत्तरासङ्गं वेळग्गे आबन्धित्वा धजं कत्वा पूजं अकासि. तं गहेत्वा अभिसम्मतको नाम यक्खसेनापति देवेहि चेतियपूजारक्खणत्थं ठपितो अदिस्समानकायो आकासे धारेन्तो चेतियं तिक्खत्तुं पदक्खिणं अकासि. सो तं दिस्वा भिय्योसोमत्ताय पसन्नमानसो अहोसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा उपवाणोति लद्धनामो वयप्पत्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पत्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.५६.१२२-१७८) –
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
जलित्वा अग्गिक्खन्धोव, सम्बुद्धो परिनिब्बुतो.
‘‘महाजना समागम्म, पूजयित्वा तथागतं;
चित्तं कत्वान सुगतं, सरीरं अभिरोपयुं.
‘‘सरीरकिच्चं कत्वान, धातुं तत्थ समानयुं;
सदेवमनुस्सा सब्बे, बुद्धथूपं अकंसु ते.
‘‘पठमा कञ्चनमया, दुतिया च मणिमया;
ततिया रूपियमया, चतुत्थी फलिकामया.
‘‘तत्थ पञ्चमिका चेव, लोहितङ्कमया अहु;
छट्ठा मसारगल्लस्स, सब्बं रतनमयूपरि.
‘‘जङ्घा मणिमया आसि, वेदिका रतनामया;
सब्बसोण्णमयो थूपो, उद्धं योजनमुग्गतो.
‘‘देवा तत्थ समागन्त्वा, एकतो मन्तयुं तदा;
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो.
‘‘धातु आवेणिका नत्थि, सरीरं एकपिण्डितं;
इमम्हि बुद्धथूपम्हि, कस्साम कञ्चुकं मयं.
‘‘देवा सत्तहि रत्नेहि, अञ्ञं वड्ढेसुं योजनं;
थूपो द्वियोजनुब्बेधो, तिमिरं ब्यपहन्ति सो.
‘‘नागा तत्थ समागन्त्वा, एकतो मन्तयुं तदा;
मनुस्सा चेव देवा च, बुद्धथूपं अकंसु ते.
‘‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका;
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो.
‘‘इन्दनीलं महानीलं, अथो जोतिरसं मणिं;
एकतो सन्निपातेत्वा, बुद्धथूपं अछादयुं.
‘‘सब्बं मणिमयं आसि, यावता बुद्धचेतियं;
तियोजनसमुब्बेधं, आलोककरणं तदा.
‘‘गरुळा च समागन्त्वा, एकतो मन्तयुं तदा;
मनुस्सा देवनागा च, बुद्धपूजं अकंसु ते.
‘‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका;
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो.
‘‘सब्बं मणिमयं थूपं, अकरुं ते च कञ्चुकं;
योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं.
‘‘चतुयोजनमुब्बेधो, बुद्धथूपो विरोचति;
ओभासेति दिसा सब्बा, सतरंसीव उग्गतो.
‘‘कुम्भण्डा च समागन्त्वा, एकतो मन्तयुं तदा;
मनुस्सा चेव देवा च, नागा च गरुळा तथा.
‘‘पच्चेकं बुद्धसेट्ठस्स, अकंसु थूपमुत्तमं;
मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका.
‘‘मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो;
रतनेहि छादेस्साम, आयतं बुद्धचेतियं.
‘‘योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं;
पञ्चयोजनमुब्बेधो, थूपो ओभासते तदा.
‘‘यक्खा तत्थ समागन्त्वा, एकतो मन्तयुं तदा;
मनुस्सा देवनागा च, गरुळा च कुम्भण्डका.
‘‘पच्चेकं बुद्धसेट्ठस्स, अकंसु थूपमुत्तमं;
मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका.
‘‘मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो;
फलिका छादयिस्साम, आयतं बुद्धचेतियं.
‘‘योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं;
छयोजनिकमुब्बेधो, थूपो ओभासते तदा.
‘‘गन्धब्बा च समागन्त्वा, एकतो मन्तयुं तदा;
मनुजा देवता नागा, कुम्भण्डा गरुळा तथा.
‘‘सब्बे अकंसु बुद्धथूपं, मयमेत्थ अकारका;
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो.
‘‘वेदियो सत्त कत्वान, धजं छत्तं अकंसु ते;
सब्बसोण्णमयं थूपं, गन्धब्बा कारयुं तदा.
‘‘सत्तयोजनमुब्बेधो, थूपो ओभासते तदा;
रत्तिन्दिवा न ञायन्ति, आलोको होति सब्बदा.
‘‘अभिभोन्ति न तस्साभा, चन्दसूरा सतारका;
समन्ता योजनसते, पदीपोपि न पज्जलि.
‘‘तेन कालेन ये केचि, थूपं पूजेन्ति मानुसा;
न ते थूपं आरुहन्ति, अम्बरे उक्खिपन्ति ते.
‘‘देवेहि ठपितो यक्खो, अभिसम्मतनामको;
धजं वा पुप्फदामं वा, अभिरोपेति उत्तरिं.
‘‘न ते पस्सन्ति तं यक्खं, दामं पस्सन्ति गच्छतो;
एवं पस्सित्वा गच्छन्ता, सब्बे गच्छन्ति सुग्गतिं.
‘‘विरुद्धा ये पावचने, पसन्ना ये च सासने;
पाटिहीरं दट्ठुकामा, थूपं पूजेन्ति मानुसा.
‘‘नगरे हंसवतिया, अहोसिं भतको तदा;
आमोदितं जनं दिस्वा, एवं चिन्तेसहं तदा.
‘‘उळारो भगवा नेसो, यस्स धातुघरे दिसं;
इमा च जनता तुट्ठा, कारं कुब्बं न तप्परे.
‘‘अहम्पि कारं कस्सामि, लोकनाथस्स तादिनो;
तस्स धम्मेसु दायादो, भविस्सामि अनागते.
‘‘सुधोतं रजकेनाहं, उत्तरेय्यं पटं मम;
वेळग्गे आलग्गेत्वान, धजं उक्खिपिमम्बरे.
‘‘अभिसम्मतको गय्ह, अम्बरे हासि मे धजं;
वातेरितं धजं दिस्वा, भिय्यो हासं जनेसहं.
‘‘तत्थ चित्तं पसादेत्वा, समणं उपसङ्कमिं;
तं भिक्खुं अभिवादेत्वा, विपाकं पुच्छहं धजे.
‘‘सो मे कथेसि आनन्दी, पीतिसञ्जननं मम;
तस्स धजस्स विपाकं, अनुभोस्ससि सब्बदा.
‘‘हत्थिअस्सरथापत्ती, सेना च चतुरङ्गिनी;
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं.
‘‘सट्ठितूरियसहस्सानि, भेरियो समलङ्कता;
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं.
‘‘छळसीति सहस्सानि, नारियो समलङ्कता;
विचित्तवत्थाभरणा, आमुक्कमणिकुण्डला.
‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं.
‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्ससि;
असीतिक्खत्तुं देविन्दो, देवरज्जं करिस्ससि.
‘‘सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;
पुञ्ञकम्मेन सञ्ञुत्तो, ब्रह्मबन्धु भविस्ससि.
‘‘असीतिकोटिं छड्डेत्वा, दासे कम्मकरे बहू;
गोतमस्स भगवतो, सासने पब्बजिस्ससि.
‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवं;
उपवाणोति नामेन, हेस्ससि सत्थु सावको.
‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;
सुमुत्तो सरवेगोव, किलेसे झापयिं मम.
‘‘चक्कवत्तिस्स सन्तस्स, चातुद्दीपिस्सरस्स मे;
तीणि योजनानि सामन्ता, उस्सीयन्ति धजा सदा.
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अथायस्मा उपवाणो भगवतो उपट्ठाको अहोसि. तेन च समयेन भगवतो वाताबाधो उप्पज्जि. थेरस्स च गिहिसहायो देवहितो नाम ब्राह्मणो सावत्थियं पटिवसति. सो थेरं चतूहि पच्चयेहि पवेदेसि. अथायस्मा उपवाणो निवासेत्वा पत्तचीवरमादाय तस्स ब्राह्मणस्स निवेसनं उपगच्छि. ब्राह्मणो ‘‘केनचि अञ्ञेन पयोजनेन थेरो आगतो’’ति ञत्वा, ‘‘वदेय्याथ, भन्ते, केनत्थो’’ति आह. थेरो तस्स ब्राह्मणस्स पयोजनं आचिक्खन्तो –
१८५. ‘‘अरहं सुगतो लोके, वातेहाबाधिको मुनि;
सचे उण्होदकं अत्थि, मुनिनो देहि ब्राह्मण.
१८६. ‘‘पूजितो पूजनेय्यानं, सक्करेय्यान सक्कतो;
अपचितोपचेय्यानं, तस्स इच्छामि हातवे’’ति. – गाथाद्वयं अभासि;
तस्सत्थो – यो इमस्मिं लोके पूजनेय्यानं पूजेतब्बेहि सक्कादीहि देवेहि महाब्रह्मादीहि च ब्रह्मेहि पूजितो, सक्करेय्यानं सक्कातब्बेहि बिम्बिसारकोसलराजादीहि सक्कतो, अपचेय्यानं अपचायितब्बेहि महेसीहि खीणासवेहि अपचितो, किलेसेहि आरकत्तादिना अरहं, सोभनगमनादिना सुगतो सब्बञ्ञू मुनि मय्हं सत्था देवदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा, सो दानि वातेहि वातहेतु वातक्खोभनिमित्तं आबाधिको जातो. सचे, ब्राह्मण, उण्होदकं अत्थि, तस्स वाताबाधवूपसमनत्थं तं हातवे उपनेतुं इच्छामीति. तं सुत्वा ब्राह्मणो उण्होदकं तदनुरूपं वातारहञ्च भेसज्जं भगवतो उपनामेसि. तेन च सत्थु रोगो वूपसमि. तस्स भगवा अनुमोदनं अकासीति.