५. पञ्चमवग्गो
१. कुमारकस्सपत्थेरगाथावण्णना
अहो बुद्धा अहो धम्माति आयस्मतो कुमारकस्सपत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पापुणि. ‘‘कुलगेहे’’ति पन अङ्गुत्तरट्ठकथायं (अ. नि. अट्ठ. १.१.२१७) वुत्तं. सो सत्थु सन्तिकं गन्त्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं चित्तकथिकानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं आकङ्खन्तो पणिधानं कत्वा तदनुरूपानि पुञ्ञानि करोन्तो कस्सपस्स भगवतो काले समणधम्मं कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे सेट्ठिधीताय कुच्छिम्हि पटिसन्धिं गण्हि. सा किर कुमारिकाकालेयेव पब्बजितुकामा हुत्वा मातापितरो याचित्वा पब्बज्जं अलभमाना कुलघरं गतापि गब्भसण्ठितम्पि अजानन्ती सामिकं आराधेत्वा तेन अनुञ्ञाता भिक्खुनीसु पब्बजिता. तस्सा गब्भिनिभावं दिस्वा भिक्खुनियो देवदत्तं पुच्छिंसु. सो ‘‘अस्समणी’’ति आह. पुन दसबलं पुच्छिंसु. सत्था उपालित्थेरं पटिच्छापेसि. थेरो सावत्थिनगरवासीनि कुलानि विसाखञ्च उपासिकं पक्कोसापेत्वा सराजिकाय परिसाय विनिच्छिनन्तो ‘‘पुरे लद्धो गब्भो, पब्बज्जा अरोगा’’ति आह. सत्था ‘‘सुविनिच्छितं अधिकरण’’न्ति थेरस्स साधुकारं अदासि.
सा भिक्खुनी सुवण्णबिम्बसदिसं पुत्तं विजायि. तं राजा पसेनदिकोसलो पोसेसि. ‘‘कस्सपो’’ति चस्स नामं अकंसु. अपरभागे अलङ्करित्वा सत्थु सन्तिकं नेत्वा पब्बाजेसि. कुमारकाले पब्बजितत्ता भगवता ‘‘कस्सपं पक्कोसथ, इदं फलं वा खादनीयं वा कस्सपस्स देथा’’ति वुत्ते ‘‘कतरकस्सपस्सा’’ति. ‘‘कुमारकस्सपस्सा’’ति. एवं गहितनामत्ता रञ्ञो पोसावनिकपुत्तत्ता च वुड्ढकालेपि कुमारकस्सपोत्वेव पञ्ञायित्थ.
सो पब्बजितकालतो पट्ठाय विपस्सनाय चेव कम्मं करोति, बुद्धवचनञ्च उग्गण्हाति. अथ तेन सद्धिं पब्बतमत्थके समणधम्मं कत्वा अनागामी हुत्वा सुद्धावासे निब्बत्तो महाब्रह्मा ‘‘विपस्सनाय मुखं दस्सेत्वा मग्गफलप्पत्तिया उपायं करिस्सामी’’ति पञ्चदस पञ्हे अभिसङ्खरित्वा अन्धवने वसन्तस्स थेरस्स ‘‘इमे पञ्हे सत्थारं पुच्छेय्यासी’’ति आचिक्खित्वा गतो. सो ते पञ्हे भगवन्तं पुच्छि. भगवापिस्स ब्याकासि. थेरो सत्थारा कथितनियामेनेव ते उग्गण्हित्वा विपस्सनं गब्भं गण्हापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५४.१५०-१७७) –
‘‘इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको;
सब्बलोकहितो वीरो, पदुमुत्तरनामको.
‘‘तदाहं ब्राह्मणो हुत्वा, विस्सुतो वेदपारगू;
दिवाविहारं विचरं, अद्दसं लोकनायकं.
‘‘चतुसच्चं पकासेन्तं, बोधयन्तं सदेवकं;
विचित्तकथिकानग्गं, वण्णयन्तं महाजने.
‘‘तदा मुदितचित्तोहं, निमन्तेत्वा तथागतं;
नानारत्तेहि वत्थेहि, अलङ्करित्वान मण्डपं.
‘‘नानारतनपज्जोतं, ससङ्घं भोजयिं तहिं;
भोजयित्वान सत्ताहं, नानग्गरसभोजनं.
‘‘नानाचित्तेहि पुप्फेहि, पूजयित्वा ससावकं;
निपच्च पादमूलम्हि, तं ठान पत्थयिं अहं.
‘‘तदा मुनिवरो आह, करुणेकरसासयो;
पस्सथेतं दिजवरं, पदुमाननलोचनं.
‘‘पीतिपामोज्जबहुलं, समुग्गततनूरुहं;
हासम्हितविसालक्खं, मम सासनलालसं.
‘‘पतितं पादमूले मे, एकावत्थसुमानसं;
एस पत्थेति तं ठानं, विचित्तकथिकत्तनं.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
कुमारकस्सपो नाम, हेस्सति सत्थु सावको.
‘‘विचित्तपुप्फदुस्सानं, रतनानञ्च वाहसा;
विचित्तकथिकानं सो, अग्गतं पापुणिस्सति.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘परिब्भमं भवाभवे, रङ्गमज्झे यथा नटो;
साखमिगत्रजो हुत्वा, मिगिया कुच्छिमोक्कमिं.
‘‘तदा मयि कुच्छिगते, वज्झवारो उपट्ठितो;
साखेन चत्ता मे माता, निग्रोधं सरणं गता.
‘‘तेन सा मिगराजेन, मरणा परिमोचिता;
परिच्चजित्वा सपाणं, ममेवं ओवदी तदा.
‘‘निग्रोधमेव सेवेय्य, न साखमुपसंवसे;
निग्रोधस्मिं मतं सेय्यो, यञ्चे साखम्हि जीवितं.
‘‘तेनानुसिट्ठा मिगयूथपेन, अहञ्च माता च तथेतरे च;
आगम्म रम्मं तुसिताधिवासं, गता पवासं सघरं यथेव.
‘‘पुनो कस्सपवीरस्स, अत्थमेन्तम्हि सासने;
आरुय्ह सेलसिखरं, युञ्जित्वा जिनसासनं.
‘‘इदानाहं राजगहे, जातो सेट्ठिकुले अहुं;
आपन्नसत्ता मे माता, पब्बजि अनगारियं.
‘‘सगब्भं तं विदित्वान, देवदत्तमुपानयुं;
सो अवोच विनासेथ, पापिकं भिक्खुनिं इमं.
‘‘इदानिपि मुनिन्देन, जिनेन अनुकम्पिता;
सुखिनी अजनी मय्हं, माता भिक्खुनुपस्सये.
‘‘तं विदित्वा महीपालो, कोसलो मं अपोसयि;
कुमारपरिहानेन, नामेनाहञ्च कस्सपो.
‘‘महाकस्सपमागम्म, अहं कुमारकस्सपो;
वम्मिकसदिसं कायं, सुत्वा बुद्धेन देसितं.
‘‘ततो चित्तं विमुच्चि मे, अनुपादाय सब्बसो;
पायासिं दमयित्वाहं, एतदग्गमपापुणिं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा चित्तकथिकभावेन सत्थारा एतदग्गे ठपितो अत्तनो पटिपत्तिं पच्चवेक्खित्वा रतनत्तयगुणविभावनमुखेन अञ्ञं ब्याकरोन्तो –
२०१. ‘‘अहो बुद्धा अहो धम्मा, अहो नो सत्थु सम्पदा;
यत्थ एतादिसं धम्मं, सावको सच्छिकाहिति.
२०२. ‘‘असङ्खेय्येसु कप्पेसु, सक्कायाधिगता अहू;
तेसमयं पच्छिमको, चरिमोयं समुस्सयो;
जातिमरणसंसारो, नत्थि दानि पुनब्भवो’’ति. – गाथाद्वयं अभासि;
तत्थ अहोति अच्छरियत्थे निपातो. बुद्धाति सब्बञ्ञुबुद्धा, गारववसेन बहुवचनं, अहो अच्छरिया सम्बुद्धाति अत्थो. धम्माति परियत्तिधम्मेन सद्धिं नव लोकुत्तरधम्मा. अहो नो सत्थु सम्पदाति अम्हाकं सत्थु दसबलस्स अहो सम्पत्तियो. यत्थाति यस्मिं सत्थरि ब्रह्मचरियवासेन. एतादिसं धम्मं, सावको सच्छिकाहितीति एतादिसं एवरूपं सुविसुद्धज्झानाभिञ्ञापरिवारं अनवसेसकिलेसक्खयावहं सन्तं पणीतं अनुत्तरं धम्मं सावकोपि नाम सच्छिकरिस्सति, तस्मा एवंविधगुणविसेसाधिगमहेतुभूता अहो अच्छरिया बुद्धा भगवन्तो, अच्छरिया धम्मगुणा, अच्छरिया अम्हाकं सत्थु सम्पत्तियोति रतनत्तयस्स गुणाधिमुत्तिं पवेदेसीति. धम्मसम्पत्तिकित्तनेनेव हि सङ्घसुप्पटिपत्ति कित्तिता होतीति.
एवं साधारणवसेन दस्सितं धम्मस्स सच्छिकिरियं इदानि अत्तुपनायिकं कत्वा दस्सेन्तो ‘‘असङ्खेय्येसू’’ति गाथमाह. तत्थ असङ्खेय्येसूति गणनपथं वीतिवत्तेसु महाकप्पेसु. सक्कायाति पञ्चुपादानक्खन्धा. ते हि परमत्थतो विज्जमानधम्मसमूहताय ‘‘सक्काया’’ति वुच्चन्ति. अहूति निवत्तनूपायस्स अनधिगतत्ता अनपगता अहेसुं. तेसमयं पच्छिमको चरिमोयं समुस्सयोति यस्मा अयं सब्बपच्छिमको, ततो एव चरिमो, तस्मा जातिमरणसहितो खन्धादिपटिपाटिसञ्ञितो संसारो इदानि आयतिं पुनब्भवाभावतो पुनब्भवो नत्थि, अयमन्तिमा जातीति अत्थो.
कुमारकस्सपत्थेरगाथावण्णना निट्ठिता.
२. धम्मपालत्थेरगाथावण्णना
यो हवे दहरो भिक्खूति आयस्मतो धम्मपालत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो केनचिदेव करणीयेन वनन्तं उपगतो सत्थारं दिस्वा पसन्नमानसो पिलक्खफलमदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सत्थरि परिनिब्बुते अवन्तिरट्ठे ब्राह्मणकुले निब्बत्तित्वा धम्मपालोति लद्धनामो वयप्पत्तो तक्कसिलं गन्त्वा सिप्पं उग्गहेत्वा पटिनिवत्तेन्तो अन्तरामग्गे एकस्मिं विहारे अञ्ञतरं थेरं दिस्वा तस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.३९.२१-२५) –
‘‘वनन्तरे बुद्धं दिस्वा, अत्थदस्सिं महायसं;
पसन्नचित्तो सुमनो, पिलक्खस्साददिं फलं.
‘‘अट्ठारसे कप्पसते, यं फलमददिं तदा;
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
छळभिञ्ञो पन हुत्वा समापत्तिसुखेन वीतिनामेन्तो एकदिवसं तस्मिं विहारे द्वे सामणेरे रुक्खग्गे पुप्फानि ओचिनन्ते आरूळ्हसाखाय भग्गाय पतन्ते दिस्वा थेरो इद्धानुभावेन हत्थेन गहेत्वा अरोगेयेव भूमियं ठपेत्वा तेसं सामणेरानं धम्मं देसेन्तो –
२०३. ‘‘यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने;
जागरो स हि सुत्तेसु, अमोघं तस्स जीवितं.
२०४. ‘‘तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनं;
अनुयुञ्जेथ मेधावी, सरं बुद्धान सासन’’न्ति. – इमा द्वे गाथा अभासि;
तत्थ योति अनियमवचनं. हवेति दळ्हत्थे निपातो. दहरोति तरुणो. भिक्खतीति भिक्खु. युञ्जतीति घटति वायमति. जागरोति जागरणधम्मसमन्नागतो. सुत्तेसूति सुपन्तेसु. इदं वुत्तं होति यो भिक्खु दहरोव समानो तरुणो ‘‘तथाहं पच्छा वुड्ढकाले जानिस्सामी’’ति अचिन्तेत्वा बुद्धानं सासने अप्पमादपटिपत्तियं युञ्जति समथविपस्सनाभावनाय योगं करोति, सो सुत्तेसु अविज्जानिद्दाय सुत्तेसु पमत्तेसु सद्धादिजागरधम्मसमन्नागमेन जागरो, ततो एव अत्तहितपरहितपारिपूरिया अमोघं अवञ्झं तस्स जीवितं, यस्मा च एतदेवं, तस्मा सद्धञ्च ‘‘अत्थि कम्मं अत्थि कम्मविपाको’’तिआदिनयप्पवत्तं कम्मफलसद्धञ्च, सद्धूपनिबन्धत्ता सीलस्स तदुपनिस्सयं चतुपारिसुद्धिसीलञ्च, ‘‘सम्मासम्बुद्धो भगवा, स्वाखातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति एवं पवत्तरतनत्तयप्पसादञ्च, विपस्सनापञ्ञासहिताय मग्गपञ्ञाय परिञ्ञादिवसेन चतुसच्चधम्मदस्सनञ्च मेधावी धम्मोजपञ्ञाय समन्नागतो भिक्खु बुद्धानं सासनं ओवादं अनुसिट्ठिं अनुस्सरन्तो आदित्तम्पि अत्तनो सीसं अज्झुपेक्खित्वा अनुयुञ्जेथ, तत्थ अनुयोगं आतप्पं करेय्याति अत्थो.
धम्मपालत्थेरगाथावण्णना निट्ठिता.
३. ब्रह्मालित्थेरगाथावण्णना
कस्सिन्द्रियानि समथङ्गतानीति आयस्मतो ब्रह्मालित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय चरन्तं दिस्वा पसन्नमानसो वन्दित्वा पादफलं अदासि. सत्था अनुमोदनं वत्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे ब्राह्मणकुले निब्बत्तित्वा ब्रह्मालीति लद्धनामो विञ्ञुतं पत्तो हेतुसम्पत्तिया चोदियमानो संसारे सञ्जातसंवेगो तादिसेन कल्याणमित्तसन्निस्सयेन बुद्धसासने पब्बजित्वा पतिरूपकम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो ञाणस्स परिपाकगतत्ता नचिरस्सेव विपस्सनं वड्ढेत्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.५१.६३-६७) –
‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं;
रथियं पटिपज्जन्तं, पादफलं अदासहं.
‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा;
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
छळभिञ्ञो पन हुत्वा मग्गसुखेन फलसुखेन वीतिनामेन्तो एकदिवसं पधानपरिग्गाहकेन थेरेन तस्मिं अरञ्ञायतने भिक्खू उद्दिस्स वुत्तं पधानानुयोगं परिग्गण्हन्तो –
२०५. ‘‘कस्सिन्द्रियानि समथङ्गतानि, अस्सा यथा सारथिना सुदन्ता;
पहीनमानस्स अनासवस्स, देवापि कस्स पिहयन्ति तादिनो.
२०६. ‘‘मय्हिन्द्रियानि समथङ्गतानि, अस्सा यथा सारथिना सुदन्ता;
पहीनमानस्स अनासवस्स, देवापि मय्हं पिहयन्ति तादिनो’’ति. –
गाथाद्वयं अभासि.
तस्सत्थो – इमस्मिं अरञ्ञायतने वसन्तेसु भिक्खूसु कस्स भिक्खुनो थेरस्स वा नवस्स वा मज्झिमस्स वा छेकेन सारथिना सुदन्ता अस्सा विय मनच्छट्ठानि इन्द्रियानि समथं दन्तभावं निब्बिसेवनभावं गतानि. कस्स नवविधम्पि मानं पहाय ठितत्ता पहीनमानस्स चतुन्नम्पि आसवानं अभावेन अनासवस्स इट्ठादीसु तादिलक्खणप्पत्तिया तादिनो देवापि पिहयन्ति मनुस्सापि सम्मापटिपत्तिदस्सनादिना च आदरेन पत्थेन्तीति.
तत्थ च गाथायं पुरिमड्ढेन अनागामिमग्गाधिगमो पुट्ठो, अनागामिनोपि हि इन्द्रियानि पहीनकामरागब्यापादताय समथं निब्बिसेवनतं गतानि होन्ति. इतरेन अरहत्तमग्गपटिलाभो, अरहा हि ‘‘पहीनमानो अनासवो तादी’’ति च वुच्चति.
अथायस्मा ब्रह्मालि पधानपरिग्गाहकेन वुत्तं ‘‘कस्सिन्द्रियानी’’ति गाथं पच्चनुभासि. तदत्थं अत्तूपनायिकवसेन विस्सज्जेन्तो ‘‘मय्हिन्द्रियानी’’तिआदिकाय दुतियगाथाय अञ्ञं ब्याकासि, तत्थ मय्हिन्द्रियानीति मम चक्खादीनि इन्द्रियानि. सेसं वुत्तनयमेव.
ब्रह्मालित्थेरगाथावण्णना निट्ठिता.
४. मोघराजत्थेरगाथावण्णना
छविपापक चित्तभद्दकाति आयस्मतो मोघराजत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं लूखचीवरधरानं अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं आकङ्खन्तो पणिधानं कत्वा तत्थ तत्थ भवे पुञ्ञानि करोन्तो अत्थदस्सिस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो ब्राह्मणमाणवे विज्जासिप्पानि सिक्खापेन्तो एकदिवसं अत्थदस्सिं भगवन्तं भिक्खुसङ्घपरिवुतं गच्छन्तं दिस्वा पसन्नमानसो पञ्चपतिट्ठितेन वन्दित्वा सिरसि अञ्जलिं कत्वा ‘‘यावता रूपिनो सत्ता’’तिआदिना छहि गाथाहि अभित्थवित्वा भाजनं पूरेत्वा मधुं उपनामेसि. सत्था मधुं पटिग्गहेत्वा अनुमोदनं अकासि.
सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले कट्ठवाहनस्स नाम रञ्ञो अमच्चो हुत्वा तेन सत्थु आनयनत्थं पुरिससहस्सेन पेसितो सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा वीसतिवस्ससहस्सानि समणधम्मं कत्वा ततो चुतो एकं बुद्धन्तरं सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तित्वा मोघराजाति लद्धनामो बावरीब्राह्मणस्स सन्तिके उग्गहितसिप्पो संवेगजातो तापसपब्बज्जं पब्बजित्वा तापससहस्सपरिवारो अजितादीहि सद्धिं सत्थु सन्तिकं पेसितो तेसं पन्नरसमो हुत्वा पञ्हे पुच्छित्वा पञ्हविस्सज्जनपरियोसाने अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४.६४-८३) –
‘‘अत्थदस्सी तु भगवा, सयम्भू अपराजितो;
भिक्खुसङ्घपरिब्यूळ्हो, रथियं पटिपज्जथ.
‘‘सिस्सेहि सम्परिवुतो, घरम्हा अभिनिक्खमिं;
निक्खमित्वानहं तत्थ, अद्दसं लोकनायकं.
‘‘अभिवादिय सम्बुद्धं, सिरे कत्वान अञ्जलिं;
सकं चित्तं पसादेत्वा, सन्थविं लोकनायकं.
‘‘यावता रूपिनो सत्ता, अरूपी वा असञ्ञिनो;
सब्बे ते तव ञाणम्हि, अन्तो होन्ति समोगधा.
‘‘सुखुमच्छिकजालेन, उदकं यो परिक्खिपे;
ये केचि उदके पाणा, अन्तोजाले भवन्ति ते.
‘‘येसञ्च चेतना अत्थि, रूपिनो च अरूपिनो;
सब्बे ते तव ञाणम्हि, अन्तो होन्ति समोगधा.
‘‘समुद्धरसिमं लोकं, अन्धकारसमाकुलं;
तव धम्मं सुणित्वान, कङ्खासोतं तरन्ति ते.
‘‘अविज्जानिवुते लोके, अन्धकारेन ओत्थटे;
तव ञाणम्हि जोतन्ते, अन्धकारा पधंसिता.
‘‘तुवं चक्खूसि सब्बेसं, महातमपनूदनो;
तव धम्मं सुणित्वान, निब्बायति बहुज्जनो.
‘‘पुटकं पूरयित्वान, मधुखुद्दमनेळकं;
उभो हत्थेहि पग्गय्ह, उपनेसिं महेसिनो.
‘‘पटिग्गण्हि महावीरो, सहत्थेन महा इसि;
भुञ्जित्वा तञ्च सब्बञ्ञू, वेहासं नभमुग्गमि.
‘‘अन्तलिक्खे ठितो सत्था, अत्थदस्सी नरासभो;
मम चित्तं पसादेन्तो, इमा गाथा अभासथ.
‘‘येनिदं थवितं ञाणं, बुद्धसेट्ठो च थोमितो;
तेन चित्तप्पसादेन, दुग्गतिं सो न गच्छति.
‘‘चतुद्दसञ्च खत्तुं सो, देवरज्जं करिस्सति;
पथब्या रज्जं अट्ठसतं, वसुधं आवसिस्सति.
‘‘पञ्चेव सतक्खत्तुञ्च, चक्कवत्ती भविस्सति;
पदेसरज्जं असङ्खेय्यं, महिया कारयिस्सति.
‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;
गोतमस्स भगवतो, सासने पब्बजिस्सति.
‘‘गम्भीरं निपुणं अत्थं, ञाणेन विचिनिस्सति;
मोघराजाति नामेन, हेस्सति सत्थु सावको.
‘‘तीहि विज्जाहि सम्पन्नं, कतकिच्चमनासवं;
गोतमो सत्थवाहग्गो, एतदग्गे ठपेस्सति.
‘‘हित्वा मानुसकं योगं, छेत्वान भवबन्धनं;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा सत्थलूखं सुत्तलूखं रजनलूखन्ति विसेसेन तिविधेनपि लूखेन समन्नागतं पंसुकूलं धारेसि. तेन नं सत्था लूखचीवरधरानं अग्गट्ठाने ठपेसि. अपरभागे पुरिमकम्मप्पच्चया परिहारस्स अकरणतो थेरस्स सरीरे दद्दुपीळकादीनि उप्पज्जित्वा वड्ढिंसु. सो ‘‘सेनासनं दुस्सती’’ति हेमन्तेपि मगधक्खेत्तेसु पलालसन्थारानि अत्थरित्वा सेति. तं एकदिवसं उपट्ठानं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नं सत्था पटिसन्थारवसेन ‘‘छविपापका’’तिआदिना पठमगाथाय पुच्छि.
२०७. तत्थ छविपापकाति दद्दुकच्छुपीळकाहि भिन्नच्छविभावतो हीनच्छविक दुट्ठच्छविक. चित्तभद्दकाति अनवसेसकिलेसप्पहानेन ब्रह्मविहारसेवनाय च भद्दचित्त सुन्दरचित्त. मोघराजाति तस्स आलपनं. सततं समाहितोति अग्गफलसमाधिना निच्चकालं अभिण्हं समाहितमानसो. हेमन्तिकसीतकालरत्तियोति हेमन्तसमये सीतकालरत्तियो. अच्चन्तसंयोगे चेतं उपयोगवचनं. ‘‘हेमन्तिका सीतकालरत्तियो’’तिपि पाळि. तत्थ हेमन्तिकाति हेमन्तोगधा हेमन्तपरियापन्नाति अत्थो. भिक्खु त्वं सीति भिक्खु को त्वं असि, एवंभूतो परेसु तव सेनासनं कत्वा अदेन्तेसु सङ्घिकञ्च सेनासनं अपविसन्तो. कथं करिस्ससीति यथावुत्ते सीतकाले कथं अत्तभावं पवत्तेसीति सत्था पुच्छि. एवं पन पुट्ठो थेरो सत्थु तमत्थं कथेन्तो –
२०८. ‘‘सम्पन्नसस्सा मगधा, केवला इति मे सुतं;
पलालच्छन्नको सेय्यं, यथञ्ञे सुखजीविनो’’ति. – गाथमाह;
तत्थ सम्पन्नसस्साति निप्फन्नसस्सा. मगधाति मगधरट्ठं वदति. मगधा नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीवसेन ‘‘मगधा’’त्वेव बहुवचनेन वुच्चति. केवलाति अनवसेसा. इति मे सुतन्ति एवं मया सुतं. तत्थ यो अदिट्ठो पदेसो, तस्स वसेन सुतन्ति वुत्तं. तेन एदिसे काले मगधेसु यत्थ कत्थचि मया वसितुं सक्काति दस्सेति. पलालच्छन्नको सेय्यं, यथञ्ञे सुखजीविनोति यथा अञ्ञे सुखजीविनो भिक्खू सेनासनसप्पायं लद्धा सुन्दरेहि अत्थरणपावुरणेहि सुखेन सयन्ति, एवं अहम्पि पलालसन्थारमेव हेट्ठा सन्थरित्वा उपरि तिरियञ्च पलालच्छदनेनेव छादितसरीरताय पलालच्छन्नको सेय्यं सयिं, सेय्यं कप्पेसिन्ति अत्तनो यथालाभसन्तोसं विभावेति.
मोघराजत्थेरगाथावण्णना निट्ठिता.
५. विसाखपञ्चालपुत्तत्थेरगाथावण्णना
न उक्खिपे नो च परिक्खिपे परेति आयस्मतो विसाखस्स पञ्चालपुत्तस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो चुद्दसे कप्पे पच्चन्तगामे दलिद्दकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं फलपरियेसनं चरन्तेहि तस्मिं गामे मनुस्सेहि सद्धिं अरञ्ञं गतो तत्थ एकं पच्चेकबुद्धं दिस्वा पसन्नमानसो वल्लिफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे मण्डलिकराजकुले निब्बत्तित्वा विसाखोति लद्धनामो पञ्चालराजधीतुया पुत्तभावतो पच्छा पञ्चालपुत्तोति पञ्ञायित्थ. सो पितरि मते रज्जं कारेन्तो सत्थरि अत्तनो गामसमीपगते सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा सत्थारा सद्धिं सावत्थिं गतो विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.३९.३१-३६) –
‘‘सब्बे जना समागम्म, अगमिंसु वनं तदा;
फलमन्वेसमाना ते, अलभिंसु फलं तदा.
‘‘तत्थद्दसासिं सम्बुद्धं, सयम्भुं अपराजितं;
पसन्नचित्तो सुमनो, वल्लिफलमदासहं.