९. नन्दत्थेरगाथावण्णना

अयोनिसो मनसिकाराति आयस्मतो नन्दत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो भगवतो सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं इन्द्रियेसु गुत्तद्वारानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो भगवतो भिक्खुसङ्घस्स च पूजासक्कारबहुलं महादानं पवत्तेत्वा, ‘‘अहम्पि अनागते तुम्हादिसस्स बुद्धस्स एवरूपो सावको भवेय्य’’न्ति पणिधानं कत्वा ततो पट्ठाय देवमनुस्सेसु संसरन्तो अत्थदस्सिस्स भगवतो काले विनताय नाम नदिया महन्तो कच्छपो हुत्वा निब्बत्तो एकदिवसं सत्थारं नदिया पारं गन्तुं तीरे ठितं दिस्वा सयं भगवन्तं तारेतुकामो सत्थु पादमूले निपज्जि. सत्था तस्स अज्झासयं ओलोकेत्वा पिट्ठिं अभिरुहि. सो हट्ठतुट्ठो वेगेन सोतं छिन्दन्तो सीघतरं परतीरमेव पापेसि. भगवा तस्स अनुमोदनं वदन्तो भाविनिं सम्पत्तिं कथेत्वा पक्कामि.

सो तेन पुञ्ञकम्मेन सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सुद्धोदनमहाराजस्स पुत्तो हुत्वा महापजापतिया गोतमिया कुच्छिम्हि निब्बत्ति. तस्स नामग्गहणदिवसे ञातिसङ्घं नन्देन्तो जातोति नन्दोत्वेव नामं अकंसु. तस्स वयप्पत्तकाले सत्था पवत्तवरधम्मचक्को लोकानुग्गहं करोन्तो कपिलवत्थुं गन्त्वा ञातिसमागमे पोक्खरवस्सं अट्ठुप्पत्तिं कत्वा वेस्सन्तरजातकं (जा. २.२२.१६५५ आदयो) कथेत्वा दुतियदिवसे पिण्डाय पविट्ठो ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ति (ध. प. १६८) गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा निवेसनं गन्त्वा ‘‘धम्मं चरे सुचरित’’न्ति (ध. प. १६९) गाथाय महापजापतिं सोतापत्तिफले राजानं सकदागामिफले पतिट्ठापेत्वा ततिये दिवसे नन्दकुमारस्स अभिसेकनिवेसनप्पवेसनविवाहमङ्गलेसु वत्तमानेसु पिण्डाय पविसित्वा नन्दकुमारस्स हत्थे पत्तं दत्वा मङ्गलं वत्वा तस्स हत्थतो पत्तं अगहेत्वाव विहारं गतो तं पत्तहत्थं विहारं आगतं अनिच्छमानंयेव पब्बाजेत्वा तथा पब्बजितत्तायेव अनभिरतिया पीळितं ञत्वा उपायेन तस्स तं अनभिरतिं विनोदेसि. सो योनिसो पटिसङ्खाय विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४९.१४८-१६३) –

‘‘अत्थदस्सी तु भगवा, सयम्भू लोकनायको;

विनतानदिया तीरं, उपागच्छि तथागतो.

‘‘उदका अभिनिक्खम्म, कच्छपो वारिगोचरो;

बुद्धं तारेतुकामोहं, उपेसिं लोकनायकं.

‘‘अभिरूहतु मं बुद्धो, अत्थदस्सी महामुनि;

अहं तं तारयिस्सामि, दुक्खस्सन्तकरो तुवं.

‘‘मम सङ्कप्पमञ्ञाय, अत्थदस्सी महायसो;

अभिरूहित्वा मे पिट्ठिं, अट्ठासि लोकनायको.

‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;

सुखं मे तादिसं नत्थि, फुट्ठे पादतले यथा.

‘‘उत्तरित्वान सम्बुद्धो, अत्थदस्सी महायसो;

नदितीरम्हि ठत्वान, इमा गाथा अभासथ.

‘‘यावता वत्तते चित्तं, गङ्गासोतं तरामहं;

अयञ्च कच्छपो राजा, तारेसि मम पञ्ञवा.

‘‘इमिना बुद्धतरणेन, मेत्तचित्तवताय च;

अट्ठारसे कप्पसते, देवलोके रमिस्सति.

‘‘देवलोका इधागन्त्वा, सुक्कमूलेन चोदितो;

एकासने निसीदित्वा, कङ्खासोतं तरिस्सति.

‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितं;

सम्माधारं पवेच्छन्ते, फलं तोसेति कस्सकं.

‘‘तथेविदं बुद्धखेत्तं, सम्मासम्बुद्धदेसितं;

सम्माधारं पवेच्छन्ते, फलं मं तोसयिस्सति.

‘‘पधानपहितत्तोम्हि, उपसन्तो निरूपधि;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, तरणाय इदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विमुत्तिसुखं अनुभवन्तो ‘‘अहो सत्थु उपायकोसल्लं, येनाहं भवपङ्कतो उद्धरित्वा निब्बानथले पतिट्ठापितो’’ति अत्तनो पहीनसंकिलेसं पटिलद्धञ्च सुखं पच्चवेक्खित्वा सञ्जातसोमनस्सो उदानवसेन –

१५७. ‘‘अयोनिसो मनसिकारा, मण्डनं अनुयुञ्जिसं;

उद्धतो चपलो चासिं, कामरागेन अट्टितो.

१५८. ‘‘उपायकुसलेनाहं, बुद्धेनादिच्चबन्धुना;

योनिसो पटिपज्जित्वा, भवे चित्तं उदब्बहि’’न्ति. – गाथाद्वयं अभासि;

तत्थ अयोनिसो मनसिकाराति अनुपायमनसिकारतो असुभं कायं सुभतो मनसि करित्वा सुभतो मनसिकारहेतु, असुभं कायं सुभसञ्ञायाति अत्थो. मण्डनन्ति हत्थूपगादिआभरणेहि चेव मालागन्धादीहि च अत्तभावस्स अलङ्करणं. अनुयुञ्जिसन्ति अनुयुञ्जिं, सरीरस्स विभूसनप्पसुतो अहोसिन्ति अत्थो. उद्धतोति जातिगोत्तरूपयोब्बनमदादीहि उद्धतो अवूपसन्तचित्तो. चपलोति वनमक्कटो विय अनवट्ठितचित्तताय लोलो, कायमण्डनवत्थमण्डनादिचापल्ये युत्तताय वा चपलो च. आसिन्ति अहोसिं. कामरागेनाति वत्थुकामेसु छन्दरागेन अट्टितो पीळितो विबाधितो आसिन्ति योजना.

उपायकुसलेनाति विनेय्यानं दमनूपायच्छेकेन कोविदेन बुद्धेन भगवता हेतुभूतेन. हेतुअत्थे हि एतं करणवचनं. पलुट्ठमक्कटीदेवच्छरादस्सनेन हि उपक्कितवादचोदनाय अत्तनो कामरागापनयनं सन्धाय वदति. भगवा हि आयस्मन्तं नन्दत्थेरं पठमं जनपदकल्याणिं उपादाय ‘‘यथायं मक्कटी, एवं ककुटपादिनियो उपादाय जनपदकल्याणी’’ति महतिया आणिया खुद्दकं आणिं नीहरन्तो छड्डको विय, सिनेहपानेन सरीरं किलेदेत्वा वमनविरेचनेहि दोसं नीहरन्तो भिसक्को विय च ककुटपादिनिदस्सनेन जनपदकल्याणियं विरत्तचित्तं कारेत्वा पुन उपक्कितवादेन ककुटपादिनीसुपि चित्तं विराजेत्वा सम्मदेव समथविपस्सनानुयोगेन अरियमग्गे पतिट्ठापेसि. तेन वुत्तं ‘‘योनिसो पटिपज्जित्वा, भवे चित्तं उदब्बहि’’न्ति. उपायेन ञायेन सम्मदेव समथविपस्सनाय विसुद्धिपटिपदं पटिपज्जित्वा भवे संसारपङ्के निमुग्गञ्च मे चित्तं अरियमग्गेन हत्थेन उत्तारिं, निब्बानथले पतिट्ठापेसिन्ति अत्थो.

इमं उदानं उदानेत्वा थेरो पुनदिवसे भगवन्तं उपसङ्कमित्वा एवमाह – ‘‘यं मे, भन्ते, भगवा पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादानं, मुञ्चामहं, भन्ते, भगवन्तं एतस्मा पटिस्सवा’’ति (उदा. २२). भगवापि, ‘‘यदेव खो ते, नन्द, अनुपादाय आसवेहि चित्तं विमुत्तं, अथाहं मुत्तो एतस्मा पटिस्सवा’’ति (उदा. २२) आह. अथस्स भगवा सविसेसं इन्द्रियेसु गुत्तद्वारतं ञत्वा तं गुणं विभावेन्तो, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इन्द्रियेसु गुत्तद्वारानं यदिदं नन्दो’’ति (अ. नि. १.२१९, २३०) इन्द्रियेसु गुत्तद्वारभावेन अग्गट्ठाने ठपेसि. थेरो हि ‘‘यमेवाहं इन्द्रियानं असंवरं निस्साय इमं विप्पकारं पत्तो, तमेवाहं सुट्ठु निग्गहेस्सामी’’ति उस्साहजातो बलवहिरोत्तप्पो तत्थ च कताधिकारत्ता इन्द्रियसंवरे उक्कंसपारमिं अगमासीति.

नन्दत्थेरगाथावण्णना निट्ठिता.