८. किमिलत्थेरगाथावण्णना
पाचीनवंसदायम्हीतिआदिका आयस्मतो किमिलत्थेरस्स गाथा. का उप्पत्ति? तस्स पुब्बयोगो संवेगुप्पत्ति पब्बज्जा च एककनिपाते ‘‘अभिसत्तो’’ति गाथाय संवण्णनायं वुत्तायेव. ताय च गाथाय थेरेन अत्तनो विसेसाधिगमस्स कारणं दस्सितं. इध पन अधिगतविसेसस्स अत्तनो आयस्मता च अनुरुद्धेन आयस्मता च नन्दियेन सह समग्गवासो दस्सितोति वेदितब्बं. समग्गवासं पन वसन्ता ते यथा च वसिंसु, तं दस्सेन्तो –
१५५. ‘‘पाचीनवंसदायम्हि, सक्यपुत्ता सहायका;
पहायानप्पके भोगे, उञ्छे पत्तागते रता.
१५६. ‘‘आरद्धवीरिया पहितत्ता, निच्चं दळ्हपरक्कमा;
रमन्ति धम्मरतिया, हित्वान लोकियं रति’’न्ति. – गाथाद्वयं अभासि;
तत्थ पाचीनवंसदायम्हीति पाचीनवंसनामके रक्खितगोपिते सहपरिच्छेदे वने. तञ्हि वनं गामस्स पाचीनदिसायं ठितत्ता वंसगुम्बपरिक्खित्तत्ता च ‘‘पाचीनवंसदायो’’ति वुत्तो, वंसवनभावेन वाति. सक्यपुत्ताति अनुरुद्धत्थेरादयो सक्यराजकुमारा. सहायकाति संवेगुप्पत्तिपब्बज्जासमणधम्मकरणसंवासेहि सह अयनतो पवत्तनतो सहायका. पहायानप्पके भोगेति उळारेन पुञ्ञानुभावेन अधिगते कुलपरम्परागते च महन्ते भोगक्खन्धे छड्डेत्वा. ‘‘सहायानप्पके’’तिपि पाळि. उञ्छे पत्तागते रताति उञ्छाचरियाय आभतत्ता उञ्छे पत्ते आगतत्ता पत्तागते पत्तपरियापन्ने रता अभिरता, सङ्घभत्तादिअतिरेकलाभं पटिक्खिपित्वा जङ्घबलं निस्साय भिक्खाचरियाय लद्धेन मिस्सकभत्तेनेव सन्तुट्ठाति अत्थो.
आरद्धवीरियाति उत्तमत्थस्स अधिगमाय आदितोव पगेव सम्पादितवीरिया. पहितत्ताति निन्नपोणपब्भारभावेन कालेन कालं समापज्जनेन च निब्बानं पतिपेसितचित्ता. निच्चं दळ्हपरक्कमाति वत्तपटिपत्तीसु दिट्ठधम्मसुखविहारानुयोगेन सब्बकालं असिथिलपरक्कमा. रमन्ति धम्मरतिया, हित्वान लोकियं रतिन्ति लोके विदितताय लोकपरियापन्नताय च लोकियं रूपारम्मणादिरतिं पहाय मग्गपञ्ञाय पजहित्वा लोकुत्तरधम्मरतिया अग्गफलनिब्बानाभिरतिया च रमन्ति अभिरमन्तीति.
किमिलत्थेरगाथावण्णना निट्ठिता.