२. दुतियसुत्तन्तनिद्देसवण्णना
१८७. पुन अञ्ञं सुत्तन्तं निक्खिपित्वा इन्द्रियविधानं निद्दिसितुकामो पञ्चिमानि, भिक्खवेतिआदिकं सुत्तन्तं दस्सेति. तत्थ ये हि केचीति अनवसेसपरियादानं, हि-कारो पदपूरणमत्ते निपातो. समणा वा ब्राह्मणा वाति लोकवोहारवसेन वुत्तं. समुदयन्ति पच्चयं. अत्थङ्गमन्ति उप्पन्नानं अभावगमनं, अनुप्पन्नानं अनुप्पादं वा. अस्सादन्ति आनिसंसं. आदीनवन्ति दोसं. निस्सरणन्ति निग्गमनं. यथाभूतन्ति यथासभावं. समणेसूति समितपापेसु. समणसम्मताति न मया समणाति सम्मता. ‘‘सम्मता’’ति वत्तमानकालवसेन वुच्चमाने सद्दलक्खणवसेन ‘‘मे’’ति एत्थ सामिवचनमेव होति. ब्राह्मणेसूति बाहितपापेसु. सामञ्ञत्थन्ति समणभावस्स अत्थं. ब्रह्मञ्ञत्थन्ति ब्राह्मणभावस्स अत्थं. द्वयेनापि अरहत्तफलमेव वुत्तं. अथ वा सामञ्ञत्थन्ति हेट्ठा तीणि फलानि. ब्रह्मञ्ञत्थन्ति अरहत्तफलं. सामञ्ञब्रह्मञ्ञन्ति हि अरियमग्गोयेव. दिट्ठेव धम्मेति पच्चक्खेयेव अत्तभावे. सयं अभिञ्ञा सच्छिकत्वाति अत्तनायेव अधिकेन ञाणेन पच्चक्खं कत्वा. उपसम्पज्जाति पापुणित्वा, निप्फादेत्वा वा.
१८८. सुत्तन्तनिद्देसे पठमं इन्द्रियसमुदयादीनं पभेदगणनं पुच्छित्वा पुन पभेदगणना विस्सज्जिता. तत्थ असीतिसतन्ति असीतिउत्तरं सतं. पण्डितेहि ‘‘असीतिसत’’न्ति वुत्तेहि आकारेहीति योजना.
पुन पभेदगणनापुच्छापुब्बङ्गमे गणनानिद्देसे अधिमोक्खत्थायाति अधिमुच्चनत्थाय सद्दहनत्थाय. आवज्जनाय समुदयोति मनोद्वारावज्जनचित्तस्स समुदयो. सद्धिन्द्रियस्स समुदयोति सद्धिन्द्रियस्स पच्चयो, सद्धं उप्पादेस्सामीति पुब्बभागावज्जनं सद्धिन्द्रियस्स उपनिस्सयपच्चयो, सद्धिन्द्रियजवनस्स आवज्जनं पठमस्स जवनस्स अनन्तरपच्चयो, दुतियजवनादीनं उपनिस्सयपच्चयो. अधिमोक्खवसेनाति छन्दसम्पयुत्तअधिमोक्खवसेन. छन्दस्स समुदयोति पुब्बभागावज्जनपच्चया उप्पन्नस्स अधिमोक्खसम्पयुत्तस्स येवापनकभूतस्स धम्मच्छन्दस्स समुदयो. सो पन सद्धिन्द्रियस्स सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतवसेन पच्चयो होति, छन्दाधिपतिकाले अधिपतिपच्चयो च होति, सोयेव दुतियस्स अनन्तरसमनन्तरअनन्तरूपनिस्सयासेवननत्थिविगतवसेन पच्चयो होति. इमिनाव नयेन मनसिकारस्सपि योजना कातब्बा. केवलञ्हेत्थ मनसिकारोति सारणलक्खणो येवापनकमनसिकारो. अधिपतिपच्चयता पनस्स न होति. सम्पयुत्तेसु इमेसं द्विन्नंयेव गहणं बलवपच्चयत्ताति वेदितब्बं. सद्धिन्द्रियस्स वसेनाति भावनाभिवुद्धिया इन्द्रियभावं पत्तस्स सद्धिन्द्रियस्स वसेन. एकत्तुपट्ठानन्ति एकारम्मणे अचलभावेन भुसं ठानं उपरूपरि सद्धिन्द्रियस्स पच्चयो होति. सद्धिन्द्रिये वुत्तनयेनेव सेसिन्द्रियानिपि वेदितब्बानि. एवमेकेकस्स इन्द्रियस्स चत्तारो चत्तारो समुदयाति पञ्चन्नं इन्द्रियानं वीसति समुदया होन्ति. पुन चतुन्नं समुदयानं एकेकस्मिं समुदये पञ्च पञ्च इन्द्रियानि योजेत्वा वीसति समुदया वुत्ता. पठमवीसति नानामग्गवसेन दट्ठब्बा, दुतियवीसति एकमग्गवसेन दट्ठब्बाति वदन्ति. एवं चत्तालीस आकारा होन्ति. अत्थङ्गमवारोपि इमिनाव नयेन वेदितब्बो. सो पन अत्थङ्गमो इन्द्रियभावनं अननुयुत्तस्स अप्पटिलद्धा पटिलाभत्थङ्गमो, इन्द्रियभावनाय परिहीनस्स पटिलद्धपरिहानि अत्थङ्गमो, फलप्पत्तस्स पटिप्पस्सद्धिअत्थङ्गमो. एकत्तअनुपट्ठानन्ति एकत्ते अनुपट्ठानं.
क. अस्सादनिद्देसवण्णना
१८९. अस्सादनिद्देसे अस्सद्धियस्स अनुपट्ठानन्ति अस्सद्धे पुग्गले परिवज्जयतो सद्धे पुग्गले सेवतो पसादनीयसुत्तन्ते पच्चवेक्खतो तत्थ योनिसोमनसिकारं बहुलीकरोतो च अस्सद्धियस्स अनुपट्ठानं होति. अस्सद्धियपरिळाहस्स अनुपट्ठानन्ति एत्थ अस्सद्धस्स सद्धाकथाय पवत्तमानाय दुक्खं दोमनस्सं उप्पज्जति. अयं अस्सद्धियपरिळाहो. अधिमोक्खचरियाय वेसारज्जन्ति सद्धावत्थुवसेन वा भावनाय वा वसिप्पत्तस्स सद्धापवत्तिया विसारदभावो होति. सन्तो च विहाराधिगमोति समथस्स वा विपस्सनाय वा पटिलाभो. सुखं सोमनस्सन्ति एत्थ चेतसिकसुखभावदस्सनत्थं सोमनस्सवचनं. सद्धिन्द्रियसमुट्ठितपणीतरूपफुट्ठकायस्स कायिकसुखम्पि लब्भतियेव. सुखसोमनस्सस्स पधानस्सादत्ता ‘‘अयं सद्धिन्द्रियस्स अस्सादो’’ति विसेसेत्वा वुत्तं. इमिनाव नयेन सेसिन्द्रियस्सादापि योजेत्वा वेदितब्बा.
ख. आदीनवनिद्देसवण्णना
१९०. आदीनवनिद्देसे अनिच्चट्ठेनाति सद्धिन्द्रियस्स अनिच्चट्ठेन. सो अनिच्चट्ठो सद्धिन्द्रियस्स आदीनवोति वुत्तं होति. इतरद्वयेपि एसेव नयो. इमे समुदयत्थङ्गमस्सादादीनवा लोकियइन्द्रियानमेवाति वेदितब्बा.
ग. निस्सरणनिद्देसवण्णना
१९१. निस्सरणनिद्देसे अधिमोक्खट्ठेनातिआदीसु एकेकस्मिं इन्द्रिये पञ्च पञ्च कत्वा पञ्चन्नं इन्द्रियानं पञ्चवीसति निस्सरणानि मग्गफलवसेन निद्दिट्ठानि. तत्थ ततो पणीततरसद्धिन्द्रियस्स पटिलाभाति ततो विपस्सनाक्खणे पवत्तसद्धिन्द्रियतो मग्गक्खणे पणीततरस्स सद्धिन्द्रियस्स पटिलाभवसेन. पुरिमतरसद्धिन्द्रिया निस्सटं होतीति तस्मिं मग्गक्खणे सद्धिन्द्रियं पुरिमतरतो विपस्सनाक्खणे पवत्तसद्धिन्द्रियतो निक्खन्तं होति. इमिनाव नयेन फलक्खणे सद्धिन्द्रियम्पि उभयत्थ सेसिन्द्रियानिपि योजेतब्बानि.
१९२. पुब्बभागे पञ्चहि इन्द्रियेहीति पठमज्झानूपचारे पञ्चहि इन्द्रियेहि पठमज्झानादिअट्ठसमापत्तिवसेन अट्ठ निस्सरणानि, अनिच्चानुपस्सनादिअट्ठारसमहाविपस्सनावसेन अट्ठारस निस्सरणानि, सोतापत्तिमग्गादिवसेन अट्ठ लोकुत्तरनिस्सरणानि. एवं झानसमापत्तिमहाविपस्सनामग्गफलवसेन चतुत्तिंस निस्सरणानि पुरिमपुरिमसमतिक्कमतो निद्दिट्ठानि. नेक्खम्मे पञ्चिन्द्रियानीतिआदीनि पन सत्ततिंस निस्सरणानि पटिपक्खपहानवसेन पटिपक्खतो निद्दिट्ठानि. तत्थ नेक्खम्मादीसु सत्तसु सत्त निस्सरणानि उपचारभूमिवसेन वुत्तानि, फलानि पन पटिपक्खपहानाभावतो न वुत्तानि.
१९३. दिट्ठेकट्ठेहीति याव सोतापत्तिमग्गा दिट्ठिया सह एकस्मिं पुग्गले ठिताति दिट्ठेकट्ठा. तेहि दिट्ठेकट्ठेहि. ओळारिकेहीति थूलेहि कामरागब्यापादेहि. अणुसहगतेहीति सुखुमभूतेहि कामरागब्यापादेहियेव. सब्बकिलेसेहीति रूपरागादीहि. तेसु हि पहीनेसु सब्बकिलेसा पहीना होन्ति, तस्मा ‘‘सब्बकिलेसेही’’ति वुत्तं. अवुत्तत्थानि पनेत्थ पदानि हेट्ठा वुत्तत्थानेवाति. सब्बेसञ्ञेव खीणासवानं तत्थ तत्थ पञ्चिन्द्रियानीति ‘‘अधिमोक्खट्ठेना’’तिआदीसु पुब्बे वुत्तेसु ठानेसु तस्मिं तस्मिं ठाने पञ्चिन्द्रियानि बुद्धपच्चेकबुद्धसावकानं खीणासवानं यथायोगं ततो ततो निस्सटानि होन्ति. इमस्मिं वारे पठमं वुत्तनया एव यथायोगं खीणासववसेन वुत्ता.
कथं पनेतानि निस्सरणानि असीतिसतं होन्तीति? वुच्चते – मग्गफलवसेन वुत्तानि पञ्चवीसति, समतिक्कमवसेन वुत्तानि चतुत्तिंस, पटिपक्खवसेन वुत्तानि सत्ततिंसाति पठमवारे सब्बानि छन्नवुति निस्सरणानि होन्ति, एतानियेव दुतियवारे खीणासवानं वसेन द्वादससु अपनीतेसु चतुरासीति होन्ति. इति पुरिमानि छन्नवुति, इमानि च चतुरासीतीति असीतिसतं होन्ति. कतमानि पन द्वादस खीणासवानं अपनेतब्बानि? समतिक्कमतो वुत्तेसु मग्गफलवसेन वुत्तानि अट्ठ निस्सरणानि, पटिपक्खतो वुत्तेसु मग्गवसेन वुत्तानि चत्तारीति इमानि द्वादस अपनेतब्बानि. अरहत्तफलवसेन वुत्तानि कस्मा अपनेतब्बानीति चे? सब्बपठमं वुत्तानं पञ्चवीसतिया निस्सरणानं मग्गफलवसेनेव लब्भनतो. अरहत्तफलवसेन निस्सरणानि वुत्तानेव होन्ति. हेट्ठिमं हेट्ठिमं पन फलसमापत्तिं उपरिमा उपरिमा न समापज्जन्तियेवाति हेट्ठा तीणिपि फलानि न लब्भन्तियेव. झानसमापत्तिविपस्सनानेक्खम्मादीनि च किरियावसेन लब्भन्ति. पञ्चपि चेतानि इन्द्रियानि पुब्बमेव पटिपक्खानं पटिप्पस्सद्धत्ता पटिपक्खतो निस्सटानेव होन्तीति.
दुतियसुत्तन्तनिद्देसवण्णना निट्ठिता.