२. सोळसञाणनिद्देसवण्णना
१५३. सोळसहि आकारेहीति उभयपक्खवसेन वुत्तेहि सोळसहि ञाणकोट्ठासेहि. उदुचितं चित्तं समुदुचितन्ति उपचारभूमियं चित्तं उद्धं उचितं, सम्मा उद्धं उचितं, उपरूपरि कतपरिचयं सम्मा उपरूपरि कतपरिचयन्ति अत्थो. उदुजितं चित्तं समुदुजितन्तिपि पाठो. उपरिभावाय जितं, उपरिभावकरेहि वा ञाणेहि जितं उदुजितं. समुदुजितन्ति समा उपरिभावाय, उपरिभावकरेहि वा ञाणेहि जितं. समाति चेत्थ विसमभावपटिक्खेपो. इमस्मिं पाठे उ, दु-इति द्वे द्वे उपसग्गा होन्ति. उरूजितं चित्तं सम्मारूजितन्तिपि पाठो. एत्थापि जितत्थोयेव. उरू अरूति इदं पन निपातमत्तमेवाति वदन्ति. वीणोपमट्ठकथाय तज्जितं सुतज्जितन्ति च अत्थो वुत्तो, सो इध न युज्जति. एकत्ते सन्तिट्ठतीति उपचारभूमियं ताव नानारम्मणविक्खेपाभावेन एकत्ते पतिट्ठाति. निय्यानावरणट्ठेन नीवरणाति एत्थ अरतिपि सब्बेपि अकुसला आवरणट्ठेन नीवरणाति वुत्ता. निय्यानावरणट्ठेनाति निय्यानानं आगमनमग्गपिदहनट्ठेन. निय्यानवारणट्ठेनातिपि पाठो, निय्यानानं पटिक्खेपनट्ठेनाति अत्थो. नेक्खम्मं अरियानं निय्यानन्ति मग्गट्ठानं अरियानं निय्यानसङ्खातस्स अरियमग्गस्स हेतुत्ता फलूपचारेन अरियानं निय्यानं. तेन च हेतुभूतेन मग्गक्खणे अरिया निय्यन्ति निगच्छन्ति. केचि पन ‘‘निय्यानन्ति मग्गो’’ति वदन्ति. इध उपचारस्स अधिप्पेतत्ता मग्गक्खणे च आलोकसञ्ञाय सब्बकुसलधम्मानञ्च अभावा तं न युज्जति. निवुतत्ताति पटिच्छन्नत्ता. नप्पजानातीति पुग्गलवसेन वुत्तं.
विसुद्धचित्तस्साति उपचारभूमियंयेव. खणिकसमोधानाति चित्तक्खणे चित्तक्खणे उप्पज्जनतो खणो एतेसं अत्थीति खणिका, उपक्किलेसा, खणिकानं समोधानो समागमो पबन्धो खणिकसमोधानो. तस्मा खणिकसमोधाना, उप्पज्जमाना उपक्किलेसा खणिकप्पबन्धवसेन खणिकपरम्परावसेन उप्पज्जन्ति, न एकचित्तक्खणवसेनाति वुत्तं होति.
सोळसञाणनिद्देसवण्णना निट्ठिता.