१. गणनवारवण्णना

१५२. इदानि दिट्ठिकथानन्तरं कथिताय आनापानस्सतिकथाय अपुब्बत्थानुवण्णना अनुप्पत्ता. अयञ्हि आनापानस्सतिकथा दिट्ठिकथाय सुविदितदिट्ठादीनवस्स मिच्छादिट्ठिमलविसोधनेन सुविसुद्धचित्तस्स यथाभूतावबोधाय समाधिभावना सुकरा होति, सब्बसमाधिभावनासु च सब्बसब्बञ्ञुबोधिसत्तानं बोधिमूले इमिनाव समाधिना समाहितचित्तानं यथाभूतावबोधतो अयमेव समाधिभावना पधानाति च दिट्ठिकथानन्तरं कथिता. तत्थ सोळसवत्थुकं आनापानस्सतिसमाधिं भावयतो समधिकानि द्वे ञाणसतानि उप्पज्जन्तीति ञाणगणनुद्देसो, अट्ठ परिपन्थे ञाणानीतिआदि ञाणगणननिद्देसो, कतमानि अट्ठ परिपन्थे ञाणानीतिआदि. इमानि एकवीसति विमुत्तिसुखे ञाणानीतिपरियन्तं सब्बञाणानं वित्थारनिद्देसो, अन्ते सोळसवत्थुकं आनापानस्सतिसमाधिं भावयतोतिआदि निगमनन्ति एवं ताव पाळिववत्थानं वेदितब्बं.

तत्थ गणनुद्देसे गणनवारे ताव सोळसवत्थुकन्ति दीघं रस्सं सब्बकायपटिसंवेदी पस्सम्भयं कायसङ्खारन्ति कायानुपस्सनाचतुक्कं, पीतिपटिसंवेदी सुखपटिसंवेदी चित्तसङ्खारपटिसंवेदी पस्सम्भयं चित्तसङ्खारन्ति वेदनानुपस्सनाचतुक्कं, चित्तपटिसंवेदी अभिप्पमोदयं चित्तं समादहं चित्तं विमोचयं चित्तन्ति चित्तानुपस्सनाचतुक्कं, अनिच्चानुपस्सी विरागानुपस्सी निरोधानुपस्सी पटिनिस्सग्गानुपस्सीति धम्मानुपस्सनाचतुक्कन्ति इमेसं चतुन्नं चतुक्कानं वसेन सोळस वत्थूनि पतिट्ठा आरम्मणानि अस्साति सोळसवत्थुको. तं सोळसवत्थुकं. समासवसेन पनेत्थ विभत्तिलोपो कतो. आनन्ति अब्भन्तरं पविसनवातो. अपानन्ति बहिनिक्खमनवातो. केचि पन विपरियायेन वदन्ति. अपानञ्हि अपेतं आनतोति अपानन्ति वुच्चति, निद्देसे (पटि. म. १.१६०) पन ना-कारस्स दीघत्तमज्झुपेक्खित्वा आपानन्ति. तस्मिं आनापाने सति आनापानस्सति, अस्सासपस्सासपरिग्गाहिकाय सतिया एतं अधिवचनं. आनापानस्सतिया युत्तो समाधि, आनापानस्सतियं वा समाधि आनापानस्सतिसमाधि. भावयतोति निब्बेधभागियं भावेन्तस्स. समधिकानीति सह अधिकेन वत्तन्तीति समधिकानि, सातिरेकानीति अत्थो. म-कारो पनेत्थ पदसन्धिकरो. केचि पन ‘‘संअधिकानी’’ति वदन्ति. एवं सति द्वे ञाणसतानियेव अधिकानीति आपज्जति, तं न युज्जति. इमानि हि वीसतिअधिकानि द्वे ञाणसतानि होन्तीति.

परिपन्थे ञाणानीति परिपन्थं आरम्मणं कत्वा पवत्तञाणानि. तथा उपकारे उपक्किलेसे ञाणानि. वोदाने ञाणानीति वोदायति, तेन चित्तं परिसुद्धं होतीति वोदानं. किं तं? ञाणं. ‘‘वोदानञाणानी’’ति वत्तब्बे ‘‘सुतमये ञाण’’न्तिआदीसु (पटि. म. मातिका १.१; पटि. म. १.१) विय ‘‘वोदाने ञाणानी’’ति वुत्तं. सतो सम्पजानो हुत्वा करोतीति सतोकारी, तस्स सतोकारिस्स ञाणानि. निब्बिदाञाणानीति निब्बिदाभूतानि ञाणानि. निब्बिदानुलोमञाणानीति निब्बिदाय अनुकूलानि ञाणानि. निब्बिदानुलोमिञाणानीतिपि पाठो, निब्बिदानुलोमो एतेसं अत्थीति निब्बिदानुलोमीति अत्थो. निब्बिदापटिप्पस्सद्धिञाणानीति निब्बिदाय पटिप्पस्सद्धियं ञाणानि. विमुत्तिसुखे ञाणानीति विमुत्तिसुखेन सम्पयुत्तानि ञाणानि.

कतमानि अट्ठातिआदीहि परिपन्थउपकारानं पटिपक्खविपक्खयुगलत्ता तेसु ञाणानि सहेव निद्दिट्ठानि. कामच्छन्दनेक्खम्मादीनि हेट्ठा वुत्तत्थानि. उपकारन्ति च लिङ्गविपल्लासवसेन नपुंसकवचनं कतं. सब्बेपि अकुसला धम्माति वुत्तावसेसा ये केचि अकुसला धम्मा. तथा सब्बेपि निब्बेधभागिया कुसला धम्मा. ‘‘परिपन्थो उपकार’’न्ति च तं तदेव अपेक्खित्वा एकवचनं कतं. एत्थ च परिपन्थे ञाणानि च उपकारे ञाणानि च पुच्छित्वा तेसं आरम्मणानेव विस्सज्जित्वा तेहेव तानि विस्सज्जितानि होन्तीति तदारम्मणानि ञाणानि निगमेत्वा दस्सेसि. उपक्किलेसे ञाणादीसुपि एसेव नयो.

गणनवारवण्णना निट्ठिता.