५. विरागकथा

विरागकथावण्णना

२८. इदानि मग्गपयोजनपरियोसानाय मेत्ताकथाय अनन्तरं कथिताय विरागसङ्खातमग्गपुब्बङ्गमाय विरागकथाय अपुब्बत्थानुवण्णना. तत्थ पठमं ताव ‘‘निब्बिन्दं विरज्जति विरागा विमुच्चती’’ति (महाव २३) वुत्तानं द्विन्नं सुत्तन्तपदानं अत्थं निद्दिसितुकामेन विरागो मग्गो, विमुत्ति फलन्ति उद्देसो ठपितो. तत्थ पठमं वचनत्थं ताव निद्दिसितुकामो कथं विरागो मग्गोतिआदिमाह. तत्थ विरज्जतीति विरत्ता होति. सेसानि मग्गञाणनिद्देसे वुत्तत्थानि. विरागोति यस्मा सम्मादिट्ठि विरज्जति, तस्मा विरागो नामाति अत्थो. सो च विरागो यस्मा विरागारम्मणो…पे… विरागे पतिट्ठितो, तस्मा च विरागोति एवं ‘‘विरागारम्मणो’’तिआदीनं पञ्चन्नं वचनानं सम्बन्धो वेदितब्बो. तत्थ विरागारम्मणोति निब्बानारम्मणो. विरागगोचरोति निब्बानविसयो. विरागे समुदागतोति निब्बाने समुप्पन्नो. विरागे ठितोति पवत्तिवसेन निब्बाने ठितो. विरागे पतिट्ठितोति अनिवत्तनवसेन निब्बाने पतिट्ठितो.

निब्बानञ्च विरागोति निब्बानं विरागहेतुत्ता विरागो. निब्बानारम्मणताजाताति निब्बानारम्मणे जाता, निब्बानारम्मणभावेन वा जाता. ते मग्गसम्पयुत्ता सब्बेव फस्सादयो धम्मा विरज्जनट्ठेन विरागा होन्तीति विरागा नाम होन्ति. सहजातानीति सम्मादिट्ठिसहजातानि सम्मासङ्कप्पादीनि सत्त मग्गङ्गानि. विरागं गच्छन्तीति विरागो मग्गोति विरागं निब्बानं आरम्मणं कत्वा गच्छन्तीति विरागारम्मणत्ता विरागो नाम, मग्गनट्ठेन मग्गो नाम होतीति अत्थो. एकेकम्पि मग्गङ्गं मग्गोति नामं लभति. इति एकेकस्स अङ्गस्स मग्गत्ते वुत्ते सम्मादिट्ठियापि मग्गत्तं वुत्तमेव होति. तस्मायेव च एतेन मग्गेनाति अट्ठ मग्गङ्गानि गहेत्वा वुत्तं. बुद्धा चाति पच्चेकबुद्धापि सङ्गहिता. तेपि हि ‘‘द्वेमे, भिक्खवे, बुद्धा तथागतो च अरहं सम्मासम्बुद्धो पच्चेकबुद्धो चा’’ति (अ. नि. २.५७) वुत्तत्ता बुद्धायेव. अगतन्ति अनमतग्गे संसारे अगतपुब्बं. दिसन्ति सकलायपटिपत्तिया दिस्सति अपदिस्सति अभिसन्दहीयतीति दिसा, सब्बबुद्धेहि वा परमं सुखन्ति दिस्सति अपदिस्सति कथीयतीति दिसा, सब्बदुक्खं वा दिस्सन्ति विस्सज्जेन्ति उज्झन्ति एतायाति दिसा. तं दिसं. अट्ठङ्गिको मग्गोति किं वुत्तं होति? यो सो अट्ठङ्गिको धम्मसमूहो, सो एतेन निब्बानं गच्छन्तीति गमनट्ठेन मग्गो नामाति वुत्तं होति. पुथुसमणब्राह्मणानं परप्पवादानन्ति विसुं विसुं समणानं ब्राह्मणानञ्च इतो अञ्ञलद्धिकानं. अग्गोति तेसं सेसमग्गानं विसिट्ठो. सेट्ठोति सेसमग्गतो अतिविय पसंसनीयो. मोक्खोति मुखे साधु, सेसमग्गानं अभिमुखे अयमेव साधूति अत्थो. उत्तमोति सेसमग्गे अतिविय उत्तिण्णो. पवरोति सेसमग्गतो नानप्पकारेहि संभजनीयो. इतीति कारणत्थे निपातो. तस्मा भगवता ‘‘मग्गानं अट्ठङ्गिको सेट्ठो’’ति वुत्तोति अधिप्पायो. वुत्तञ्हि भगवता –

‘‘मग्गानट्ठङ्गिको सेट्ठो, सच्चानं चतुरो पदा;

विरागो सेट्ठो धम्मानं, द्विपदानञ्च चक्खुमा’’ति. (ध. प. २७३);

तं इध विच्छिन्दित्वा ‘‘मग्गानं अट्ठङ्गिको सेट्ठो’’ति वुत्तं. सेसवारेसुपि इमिना च नयेन हेट्ठा वुत्तनयेन च अत्थो वेदितब्बो.

दस्सनविरागोतिआदीसु दस्सनसङ्खातो विरागो दस्सनविरागो. इन्द्रियट्ठतो बलस्स विसिट्ठत्ता इध इन्द्रियतो बलं पठमं वुत्तन्ति वेदितब्बं. आधिपतेय्यट्ठेन इन्द्रियानीतिआदि इन्द्रियादीनं अत्थविभावना, न विरागस्स. तथट्ठेन सच्चाति सच्चञाणं वेदितब्बं. सीलविसुद्धीति सम्मावाचाकम्मन्ताजीवा. चित्तविसुद्धीति सम्मासमाधि. दिट्ठिविसुद्धीति सम्मादिट्ठिसङ्कप्पा. विमुत्तट्ठेनाति तंतंमग्गवज्झकिलेसेहि मुत्तट्ठेन. विज्जाति सम्मादिट्ठि. विमुत्तीति समुच्छेदविमुत्ति. अमतोगधं निब्बानं परियोसानट्ठेन मग्गोति मग्गफलपच्चवेक्खणाहि मग्गीयतीति मग्गो.

इमस्मिं विरागनिद्देसे वुत्ता धम्मा सब्बेपि मग्गक्खणेयेव. विमुत्तिनिद्देसे फलक्खणे. तस्मा छन्दमनसिकारापि मग्गफलसम्पयुत्ता.

२९. विरागनिद्देसे वुत्तनयेनेव विमुत्तिनिद्देसेपि अत्थो वेदितब्बो. फलं पनेत्थ पटिप्पस्सद्धिविमुत्तत्ता विमुत्ति, निब्बानं निस्सरणविमुत्तत्ता विमुत्ति. ‘‘सहजातानि सत्तङ्गानी’’तिआदीनि वचनानि इध न लब्भन्तीति न वुत्तानि. सयं फलविमुत्तत्ता परिच्चागट्ठेन विमुत्तीति एत्तकमेव वुत्तं. सेसं वुत्तनयमेवाति.

विरागकथावण्णना निट्ठिता.