४. मेत्ताकथा

मेत्ताकथावण्णना

२२. इदानि बोज्झङ्गकथानन्तरं कथिताय बोज्झङ्गकथागतिया सुत्तन्तपुब्बङ्गमाय मेत्ताकथाय अपुब्बत्थानुवण्णना. तत्थ सुत्तन्ते ताव आसेवितायाति आदरेन सेविताय. भावितायाति वड्ढिताय. बहुलीकतायाति पुनप्पुनं कताय. यानीकतायाति युत्तयानसदिसाय कताय. वत्थुकतायाति पतिट्ठानट्ठेन वत्थु विय कताय. अनुट्ठितायाति पच्चुपट्ठिताय. परिचितायाति समन्ततो चिताय उपचिताय. सुसमारद्धायाति सुट्ठु समारद्धाय सुकताय. आनिसंसाति गुणा. पाटिकङ्खाति पटिकङ्खितब्बा इच्छितब्बा. सुखं सुपतीति यथा सेसजना सम्परिवत्तमाना काकच्छमाना दुक्खं सुपन्ति, एवं असुपित्वा सुखं सुपति. निद्दं ओक्कन्तोपि समापत्तिं समापन्नो विय होति. सुखं पटिबुज्झतीति यथा अञ्ञे नित्थुनन्ता विजम्भन्ता सम्परिवत्तन्ता दुक्खं पटिबुज्झन्ति, एवं अपटिबुज्झित्वा विकसमानमिव पदुमं सुखं निब्बिकारं पटिबुज्झति. न पापकं सुपिनं पस्सतीति सुपिनं पस्सन्तोपि भद्दकमेव सुपिनं पस्सति. चेतियं वन्दन्तो विय पूजं करोन्तो विय धम्मं सुणन्तो विय च होति. यथा पनञ्ञे अत्तानं चोरेहि परिवारितं विय वाळेहि उपद्दुतं विय पपाते पतन्तं विय च पस्सन्ति, न एवं पापकं सुपिनं पस्सति. मनुस्सानं पियो होतीति उरे आमुत्तमुत्ताहारो विय सीसे पिळन्धमाला विय च मनुस्सानं पियो होति मनापो. अमनुस्सानं पियो होतीति यथेव च मनुस्सानं, एवं अमनुस्सानम्पि पियो होति. देवता रक्खन्तीति पुत्तमिव मातापितरो देवता रक्खन्ति. नास्स अग्गि वा विसं वा सत्थं वा कमतीति मेत्ताविहारिस्स काये अग्गि वा विसं वा सत्थं वा न कमति न पविसति, नास्स कायं विकोपेतीति वुत्तं होति. तुवटं चित्तं समाधियतीति मेत्ताविहारिनो खिप्पमेव चित्तं समाधियति, नत्थि तस्स दन्धायितत्तं. मुखवण्णो विप्पसीदतीति बन्धना पमुत्ततालपक्कं विय चस्स विप्पसन्नवण्णं मुखं होति. असम्मूळ्हो कालं करोतीति मेत्ताविहारिनो सम्मोहमरणं नाम नत्थि, असम्मूळ्हो निद्दं ओक्कमन्तो विय कालं करोति. उत्तरि अप्पटिविज्झन्तोति मेत्तासमापत्तितो उत्तरिं अरहत्तं अधिगन्तुं असक्कोन्तो इतो चवित्वा सुत्तप्पबुद्धो विय ब्रह्मलोकूपगो होतीति ब्रह्मलोकं उपपज्जतीति अत्थो.

मेत्तानिद्देसे अनोधिसो फरणाति ओधि मरियादा, न ओधि अनोधि. ततो अनोधिसो, अनोधितोति अत्थो, निप्पदेसतो फुसनाति वुत्तं होति. ओधिसोति पदेसवसेन. दिसाफरणाति दिसासु फरणा. सब्बेति अनवसेसपरियादानं. सत्तातिपदस्स अत्थो ञाणकथामातिकावण्णनायं वुत्तो, रुळ्हीसद्देन पन वीतरागेसुपि अयं वोहारो वत्तति विलीवमयेपि बीजनिविसेसे तालवण्टवोहारो विय. अवेराति वेररहिता. अब्यापज्जाति ब्यापादरहिता. अनीघाति निद्दुक्खा. अनिग्घातिपि पाठो. सुखी अत्तानंपरिहरन्तूति सुखिता हुत्वा अत्तभावं वत्तयन्तु. ‘‘अवेरा’’ति च सकसन्ताने च परे पटिच्च, परसन्ताने च इतरे पटिच्च वेराभावो दस्सितो, ‘‘अब्यापज्जा’’तिआदीसु वेराभावा तम्मूलकब्यापादाभावो, ‘‘अनीघा’’ति ब्यापादाभावा तम्मूलकदुक्खाभावो, ‘‘सुखी अत्तानं परिहरन्तू’’ति दुक्खाभावासुखेन अत्तभावपरिहरणं दस्सितन्ति एवमेत्थ वचनसम्बन्धो वेदितब्बोति. इमेसु च ‘‘अवेरा होन्तू’’तिआदीसु चतूसुपि वचनेसु यं यं पाकटं होति, तस्स तस्स वसेन मेत्ताय फरति.

पाणातिआदीसु पाणनताय पाणा, अस्सासपस्सासायत्तवुत्तितायाति अत्थो. भूतत्ता भूता, अभिनिब्बत्ताति अत्थो. पुं वुच्चति निरयो, तं पुं गलन्ति गच्छन्तीति पुग्गला. अत्तभावो वुच्चति सरीरं, खन्धपञ्चकमेव वा, तं उपादाय पञ्ञत्तिमत्तसब्भावतो, तस्मिं अत्तभावे परियापन्ना परिच्छिन्ना अन्तोगधाति अत्तभावपरियापन्ना. यथा च सत्ताति वचनं, एवं सेसानिपि रुळ्हीवसेन आरोपेत्वा सब्बानेतानि सब्बसत्तवेवचनानीति वेदितब्बानि. कामञ्च अञ्ञानिपि ‘‘सब्बे जन्तू सब्बे जीवा’’तिआदीनि सब्बसत्तवेवचनानि अत्थि, पाकटवसेन पन इमानेव पञ्च गहेत्वा ‘‘पञ्चहाकारेहि अनोधिसो फरणा मेत्ताचेतोविमुत्ती’’ति वुच्चति. ये पन ‘‘सत्ता पाणा’’तिआदीनं न केवलं वचनमत्ततोव, अथ खो अत्थतोपि नानत्तमेव इच्छेय्युं, तेसं अनोधिसो फरणा विरुज्झति. तस्मा तथा अत्थं अग्गहेत्वा इमेसु पञ्चसु आकारेसु अञ्ञतरवसेन अनोधिसो मेत्ताय फरति.

ओधिसो फरणे पन इत्थियो पुरिसाति लिङ्गवसेन वुत्तं, अरिया अनरियाति अरियपुथुज्जनवसेन, देवामनुस्सा विनिपातिकाति उपपत्तिवसेन. दिसाफरणेपि दिसाविभागं अकत्वा सब्बदिसासु ‘‘सब्बे सत्ता’’तिआदिना नयेन फरणतो अनोधिसो फरणा होति, सब्बदिसासु ‘‘सब्बा इत्थियो’’तिआदिना नयेन फरणतो ओधिसो फरणा.

यस्मा पन अयं तिविधापि मेत्ताफरणा अप्पनापत्तचित्तस्स वसेन वुत्ता, तस्मा तीसु वारेसु अप्पना गहेतब्बा. अनोधिसो फरणे ताव ‘‘सब्बे सत्ता अवेरा होन्तू’’ति एका, ‘‘अब्यापज्जा होन्तू’’ति एका ‘‘अनीघा होन्तू’’ति एका, ‘‘सुखी अत्तानं परिहरन्तू’’ति एका. तानिपि हि चत्तारि हितोपसंहारवसेनेव वुत्तानि. हितोपसंहारलक्खणा हि मेत्ता. इति ‘‘सत्ता’’तिआदीसु पञ्चसु आकारेसु चतस्सन्नं चतस्सन्नं अप्पनानं वसेन वीसति अप्पना होन्ति, ओधिसो फरणे ‘‘सब्बा इत्थियो’’तिआदीसु सत्तसु आकारेसु चतस्सन्नं चतस्सन्नं वसेन अट्ठवीसति अप्पना. दिसाफरणे पन ‘‘सब्बे पुरत्थिमाय दिसाय सत्ता’’तिआदिना नयेन एकमेकिस्सा दिसाय वीसति वीसति कत्वा द्वे सतानि, ‘‘सब्बा पुरत्थिमाय दिसाय इत्थियो’’तिआदिना नयेन एकमेकिस्सा दिसाय अट्ठवीसति अट्ठवीसति कत्वा असीति द्वे सतानीति चत्तारि सतानि असीति च अप्पना. इति सब्बानिपि इध वुत्तानि अट्ठवीसाधिकानि पञ्च अप्पनासतानि होन्ति. यथा च मेत्ताय तिविधेन फरणा वुत्ता, तथा करुणामुदिताउपेक्खानम्पि वुत्ताव होतीति वेदितब्बं.

१. इन्द्रियवारवण्णना

२३. अथ मेत्तूपसंहाराकारं इन्द्रियादिपरिभावनञ्च दस्सेतुं सब्बेसं सत्तानं पीळनं वज्जेत्वातिआदिमाह. तत्थ पीळनन्ति अब्भन्तरतो सरीरपीळनं. उपघातन्ति बाहिरतो सरीरोपघातं. सन्तापन्ति यथा तथा वा चित्तसन्तापनं. परियादानन्ति पकतिया जीवितादिपरिक्खयं. विहेसन्ति परतो जीवितविहेठनं. वज्जेत्वाति पीळनादीसु एकेकं अत्तनो चित्तेनेव अपनेत्वा. इमानि पीळनादीनि पञ्च पदानि मेत्तोपसंहारस्स पटिपक्खविवज्जनवसेन वुत्तानि, अपीळनायातिआदीनि मेत्तोपसंहारवसेन. अपीळनायाति अपीळनाकारेन, सब्बे सत्ते मेत्तायतीति सम्बन्धो. एवं सेसेसुपि. मा वेरिनो मा दुक्खिनो मा दुक्खितत्ताति इमानिपि तीणि मेत्तोपसंहारस्स पटिपक्खपटिक्खेपवचनानि. मा-वचनस्स मा होन्तूति अत्थो. अवेरिनो सुखिनो सुखितत्ताति इमानि तीणि मेत्तोपसंहारवचनानि. ‘‘अब्यापज्जा अनीघा’’ति इदं द्वयं ‘‘सुखिनो’’ति वचनेन सङ्गहितन्ति वेदितब्बं. सुखितत्ताति तस्सेव सुखस्स निच्चप्पवत्तिदस्सनं. ‘‘सुखितत्ता’’ति च ‘‘सुखी अत्तानं परिहरन्तू’’ति च अत्थतो एकं. ‘‘अपीळनाया’’तिआदीहि वा अब्यापज्जानीघवचनानि सङ्गहितानि. अट्ठहाकारेहीति ‘‘अपीळनाया’’तिआदयो पञ्च मेत्तोपसंहाराकारा ‘‘अवेरिनो होन्तू’’तिआदयो तयो मेत्तोपसंहाराकाराति इमेहि अट्ठहाकारेहि. मेत्तायतीति सिनिय्हति. तं धम्मं चेतयतीति तं हितोपसंहारं चेतयति अभिसन्दहति, पवत्तेतीति अत्थो. सब्बब्यापादपरियुट्ठानेहि विमुच्चतीति मेत्ताय पटिपक्खभूतेहि सब्बेहि ब्यापादसमुदाचारेहि विक्खम्भनतो विमुच्चति. मेत्ता च चेतो च विमुत्ति चाति एकायेव मेत्ता तिधा वण्णिता.

अवेरिनो खेमिनो सुखिनोति इमानि तीणि पदानि पुब्बे वुत्ते आकारे सङ्खेपेन सङ्गहेत्वा वुत्तानि. सद्धाय अधिमुच्चतीतिआदिना नयेन वुत्तानि पञ्चिन्द्रियानि मेत्ताय सम्पयुत्तानियेव. आसेवनातिआदीसु छसु वारेसु आसेवीयति एतेहि मेत्ताति आसेवना. तथा भावना बहुलीकम्मं. अलङ्काराति विभूसना. स्वालङ्कताति सुट्ठु अलङ्कता भूसिता. परिक्खाराति सम्भारा. सुपरिक्खताति सुट्ठु सम्भता. परिवाराति रक्खनट्ठेन. पुन आसेवनादीनि अट्ठवीसति पदानि मेत्ताय वण्णभणनत्थं वुत्तानि. तत्थ पारिपूरीति परिपुण्णभावा. सहगताति मेत्ताय सहगता. तथा सहजातादयो. पक्खन्दनाति मेत्ताय पविसना, पक्खन्दति एतेहि मेत्ताति वा पक्खन्दना. तथा संसीदनादयो. एतं सन्तन्ति फस्सनाति एसा मेत्ता सन्ताति एतेहि फस्सना होतीति एतं सन्तन्ति फस्सना ‘‘एतदग्ग’’न्तिआदीसु (अ. नि. १.१८८ आदयो) विय नपुंसकवचनं. स्वाधिट्ठिताति सुट्ठु पतिट्ठिता. सुसमुग्गताति सुट्ठु समुस्सिता. सुविमुत्ताति अत्तनो अत्तनो पच्चनीकेहि सुट्ठु विमुत्ता. निब्बत्तेन्तीति मेत्तासम्पयुत्ता हुत्वा मेत्तं निब्बत्तेन्ति. जोतेन्तीति पाकटं करोन्ति. पतापेन्तीति विरोचेन्ति.

२-४. बलादिवारत्तयवण्णना

२४-२७. इन्द्रियवारे वुत्तनयेनेव बलवारोपि वेदितब्बो. बोज्झङ्गमग्गङ्गवारा परियायेन वुत्ता, न यथालक्खणवसेन. मग्गङ्गवारे सम्मावाचाकम्मन्ताजीवा मेत्ताय पुब्बभागवसेन वुत्ता, न अप्पनावसेन. न हि एते मेत्ताय सह भवन्ति. सब्बेसं पाणानन्तिआदीनं सेसवारानम्पि सत्तवारे वुत्तनयेनेव अत्थो वेदितब्बो. मेत्ताभावनाविधानं पन विसुद्धिमग्गतो (विसुद्धि. १.२४० आदयो) गहेतब्बन्ति.

मेत्ताकथावण्णना निट्ठिता.