३. बोज्झङ्गकथा
बोज्झङ्गकथावण्णना
१७. इदानि सच्चप्पटिवेधसिद्धं बोज्झङ्गविसेसं दस्सेन्तेन कथिताय सुत्तन्तपुब्बङ्गमाय बोज्झङ्गकथाय अपुब्बत्थानुवण्णना. तत्थ सुत्तन्ते ताव बोज्झङ्गाति बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. किं वुत्तं होति (सं. नि. अट्ठ. ३.५.१८२) – या हि अयं धम्मसामग्गी, याय लोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झतीति कत्वा बोधीति वुच्चति, बुज्झतीति किलेससन्ताननिद्दाय वुट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति वुत्तं होति. यथाह – ‘‘सत्त बोज्झङ्गे भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’’ति (सं. नि. ५.३७८; दी. नि. ३.१४३). तस्सा धम्मसामग्गीसङ्खाताय बोधिया अङ्गाति बोज्झङ्गा झानङ्गमग्गङ्गादयो विय. योपेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको बोधीति वुच्चति, तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा सेनङ्गरथङ्गादयो विय. तेनाहु अट्ठकथाचरिया ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति बोज्झङ्गा’’ति. सतिसम्बोज्झङ्गादीनं अत्थो अभिञ्ञेय्यनिद्देसे वुत्तो.
बोज्झङ्गत्थनिद्देसे बोधाय संवत्तन्तीति बुज्झनत्थाय संवत्तन्ति. कस्स बुज्झनत्थाय? मग्गफलेहि निब्बानस्स पच्चवेक्खणाय कतकिच्चस्स बुज्झनत्थाय, मग्गेन वा किलेसनिद्दातो पबुज्झनत्थाय फलेन पबुद्धभावत्थायापीति वुत्तं होति. बलवविपस्सनायपि बोज्झङ्गा बोधाय संवत्तन्ति. तस्मा अयं विपस्सनामग्गफलबोज्झङ्गानं साधारणत्थो. तीसुपि हि ठानेसु बोधाय निब्बानपटिवेधाय संवत्तन्ति. एतेन बोधिया अङ्गाति बोज्झङ्गाति वुत्तं होति. बुज्झन्तीति बोज्झङ्गातिआदीहि पञ्चहि चतुक्केहि वुत्तानं बोज्झङ्गानं उप्पत्तिट्ठानं अभिञ्ञेय्यनिद्देसे वुत्तं. अपि च बुज्झन्तीति बोज्झङ्गानं सकिच्चकरणे समत्थभावदस्सनत्थं कत्तुनिद्देसो. बुज्झनट्ठेनाति सकिच्चकरणसमत्थत्तेपि सति कत्तुनो अभावदस्सनत्थं भावनिद्देसो. बोधेन्तीति बोज्झङ्गभावनाय बुज्झन्तानं योगीनं पयोजकत्ता बोज्झङ्गानं हेतुकत्तुनिद्देसो. बोधनट्ठेनाति पठमं वुत्तनयेनेव पयोजकहेतुकत्तुना भावनिद्देसो. एतेहि बोधिया अङ्गा बोज्झङ्गाति वुत्तं होति. बोधिपक्खियट्ठेनाति बुज्झनट्ठेन बोधीति लद्धनामस्स योगिस्स पक्खे भवत्ता. अयमेतेसं योगिनो उपकारकत्तनिद्देसो. एतेहि बोधिस्स अङ्गाति बोज्झङ्गाति वुत्तं होति. बुद्धिलभनट्ठेनातिआदिके छक्के बुद्धिलभनट्ठेनाति योगावचरेन बुद्धिया पापुणनट्ठेन. रोपनट्ठेनाति सत्तानं पतिट्ठापनट्ठेन. पापनट्ठेनाति पतिट्ठापिताय निट्ठापनट्ठेन. इमे विपस्सनाबोज्झङ्गा पति-अभि-सं-इति तीहि उपसग्गेहि विसेसिता मग्गफलबोज्झङ्गाति वदन्ति. सब्बेसम्पि धम्मवोहारेन निद्दिट्ठानं बोज्झङ्गानं बोधिया अङ्गाति बोज्झङ्गाति वुत्तं होतीति वेदितब्बं.
मूलमूलकादिदसकवण्णना
१८. मूलट्ठेनातिआदिके मूलमूलके दसके मूलट्ठेनाति विपस्सनादीसु पुरिमा पुरिमा बोज्झङ्गा पच्छिमानं पच्छिमानं बोज्झङ्गानञ्च सहजातधम्मानञ्च अञ्ञमञ्ञञ्च मूलट्ठेन. मूलचरियट्ठेनाति मूलं हुत्वा चरिया पवत्ति मूलचरिया. तेन मूलचरियट्ठेन, मूलं हुत्वा पवत्तनट्ठेनाति अत्थो. मूलपरिग्गहट्ठेनाति ते एव बोज्झङ्गा आदितो पभुति उप्पादनत्थाय परिगय्हमानत्ता परिग्गहा, मूलानियेव परिग्गहा मूलपरिग्गहा. तेन मूलपरिग्गहट्ठेन. ते एव अञ्ञमञ्ञं परिवारवसेन परिवारट्ठेन. भावनापारिपूरिवसेन परिपूरणट्ठेन. निट्ठं पापुणनवसेन परिपाकट्ठेन. ते एव मूलानि च छब्बिधा पभेदभिन्नत्ता पटिसम्भिदा चाति मूलपटिसम्भिदा. तेन मूलपटिसम्भिदट्ठेन. मूलपटिसम्भिदापापनट्ठेनाति बोज्झङ्गभावनानुयुत्तस्स योगिनो तं मूलपटिसम्भिदं पापनट्ठेन. तस्सेव योगिनो तस्सा मूलपटिसम्भिदाय वसीभावट्ठेन. सेसेसुपि ईदिसेसु पुग्गलवोहारेसु बोधिस्स अङ्गाति बोज्झङ्गाति वुत्तं होतीति वेदितब्बं. मूलपटिसम्भिदाय वसीभावप्पत्तानम्पीति ईदिसेसुपि निट्ठावचनेसु फलबोज्झङ्गाति वेदितब्बं. वसीभावं पत्तानन्तिपि पाठो.
मूलमूलकदसकं निट्ठितं.
सेसेसुपि हेतुमूलकादीसु नवसु दसकेसु इमिनाव नयेन साधारणवचनानं अत्थो वेदितब्बो. असाधारणेसु पन यथावुत्ता एव बोज्झङ्गा यथावुत्तानं धम्मानं जनकत्ता हेतू नाम होन्ति. उपत्थम्भकत्ता पच्चया नाम. ते एव तदङ्गसमुच्छेदपटिप्पस्सद्धिविसुद्धिभूतत्ता विसुद्धि नाम. वज्जविरहितत्ता अनवज्जा नाम. ‘‘सब्बेपि कुसला धम्मा नेक्खम्म’’न्ति वचनतो नेक्खम्मं नाम. किलेसेहि विमुत्तत्ता तदङ्गविमुत्तिआदिवसेन विमुत्ति नाम. मग्गफलबोज्झङ्गा विसयीभूतेहि आसवेहि विरहितत्ता अनासवा. तिविधापि बोज्झङ्गा किलेसेहि सुञ्ञत्ता तदङ्गविवेकादिवसेन विवेका. विपस्सनामग्गबोज्झङ्गा परिच्चागवोसग्गत्ता पक्खन्दनवोसग्गत्ता च वोसग्गा. फलबोज्झङ्गा पक्खन्दनवोसग्गत्ता वोसग्गा.
१९. मूलट्ठं बुज्झन्तीतिआदयो एकेकपदवसेन निद्दिट्ठा नव दसका वुत्तनयेनेव वेदितब्बा. वसीभावप्पत्तानन्ति पदं पन वत्तमानवचनाभावेन न योजितं. परिग्गहट्ठादयो अभिञ्ञेय्यनिद्देसे वुत्तत्था.
२०. पुन थेरो अत्तना देसितं सुत्तन्तं उद्दिसित्वा तस्स निद्देसवसेन बोज्झङ्गविधिं दस्सेतुकामो एकं समयन्तिआदिकं निदानं वत्वा सुत्तन्तं ताव उद्दिसि. अत्तना देसितसुत्तत्ता एव चेत्थ एवं मे सुतन्ति न वुत्तं. आयस्मा सारिपुत्तोति पनेत्थ देसकब्यत्तिभावत्थं अत्तानं परं विय कत्वा वुत्तं. ईदिसञ्हि वचनं लोके गन्थेसु पयुज्जन्ति. पुब्बण्हसमयन्ति सकलं पुब्बण्हसमयं. अच्चन्तसंयोगत्थे उपयोगवचनं. सेसद्वयेपि एसेव नयो. सतिसम्बोज्झङ्गो इति चे मे होतीति सतिसम्बोज्झङ्गोति एवञ्चे मय्हं होति. अप्पमाणोति मे होतीति अप्पमाणोति एवं मे होति. सुसमारद्धोति मे होतीति सुट्ठु परिपुण्णोति एवं मे होति. तिट्ठन्तन्ति निब्बानारम्मणे पवत्तिवसेन तिट्ठन्तं. चवतीति निब्बानारम्मणतो अपगच्छति. सेसबोज्झङ्गेसुपि एसेव नयो.
राजमहामत्तस्साति रञ्ञो महाअमच्चस्स, महतिया वा भोगमत्ताय भोगप्पमाणेन समन्नागतस्स. नानारत्तानन्ति नानारङ्गरत्तानं, पूरणत्थे सामिवचनं, नानारत्तेहीति अत्थो. दुस्सकरण्डकोति दुस्सपेळा. दुस्सयुगन्ति वत्थयुगलं. पारुपितुन्ति अच्छादेतुं. इमस्मिं सुत्तन्ते थेरस्स फलबोज्झङ्गा कथिता. यदा हि थेरो सतिसम्बोज्झङ्गं सीसं कत्वा फलसमापत्तिं समापज्जति, तदा इतरे तदन्वया होन्ति. यदा धम्मविचयादीसु अञ्ञतरं, तदा सेसापि तदन्वया होन्तीति एवं फलसमापत्तिया अत्तनो चिण्णवसीभावं दस्सेन्तो थेरो इमं सुत्तन्तं कथेसीति.
सुत्तन्तनिद्देसवण्णना
२१. कथं सतिसम्बोज्झङ्गो इति चे होतीति बोज्झङ्गोति सतिसम्बोज्झङ्गं सीसं कत्वा फलसमापत्तिं समापज्जन्तस्स अञ्ञेसु बोज्झङ्गेसु विज्जमानेसु एवं अयं सतिसम्बोज्झङ्गो होतीति इति चे पवत्तस्स कथं सो सतिसम्बोज्झङ्गो होतीति अत्थो. यावता निरोधूपट्ठातीति यत्तकेन कालेन निरोधो उपट्ठाति, यत्तके काले आरम्मणतो निब्बानं उपट्ठातीति अत्थो. यावता अच्चीति यत्तकेन परिमाणेन जाला. कथं अप्पमाणो इति चे होतीति बोज्झङ्गोति न अप्पमाणेपि सतिसम्बोज्झङ्गे विज्जमाने एवं अयं अप्पमाणो होतीति इति चे पवत्तस्स सो अप्पमाणो सतिसम्बोज्झङ्गो कथं होतीति अत्थो. पमाणबद्धाति किलेसा च परियुट्ठाना च पोनोभविकसङ्खारा च पमाणबद्धा नाम होन्ति. ‘‘रागोपमाणकरणो, दोसो पमाणकरणो, मोहो पमाणकरणो’’ति (म. नि. १.४५९) वचनतो रागादयो यस्स उप्पज्जन्ति, ‘‘अयं एत्तको’’ति तस्स पमाणकरणतो पमाणं नाम. तस्मिं पमाणे बद्धा पटिबद्धा आयत्ताति किलेसादयो पमाणबद्धा नाम होन्ति. किलेसाति अनुसयभूता, परियुट्ठानाति समुदाचारप्पत्तकिलेसा. सङ्खारा पोनोभविकाति पुनप्पुनं भवकरणं पुनभवो, पुनभवो सीलमेतेसन्ति पोनभविका, पोनभविका एव पोनोभविका. कुसलाकुसलकम्मसङ्खाता सङ्खारा. अप्पमाणोति वुत्तप्पकारस्स पमाणस्स अभावेन अप्पमाणो. मग्गफलानम्पि अप्पमाणत्ता ततो विसेसनत्थं अचलट्ठेन असङ्खतट्ठेनाति वुत्तं. भङ्गाभावतो अचलो, पच्चयाभावतो असङ्खतो. यो हि अचलो असङ्खतो च, सो अतिविय पमाणविरहितो होति.
कथं सुसमारद्धो इति चे होतीति बोज्झङ्गोति अनन्तरं वुत्तनयेन योजेतब्बं. विसमाति सयञ्च विसमत्ता, विसमस्स च भावस्स हेतुत्ता विसमा. समधम्मोति सन्तट्ठेन पणीतट्ठेन समो धम्मो. पमाणाभावतो सन्तो. ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं धम्मानं अग्गमक्खायती’’ति (अ. नि. ४.३४; इतिवु. ९०) वचनतो सब्बधम्मुत्तमट्ठेन पणीतो. तस्मिं समधम्मोति वुत्ते सुसमे आरद्धो सुसमारद्धो. आवज्जितत्ताति फलसमापत्तिया पवत्तकालं सन्धाय वुत्तं. अनुप्पादादिसङ्खाते निब्बाने मनोद्वारावज्जनस्स उप्पन्नत्ताति वुत्तं होति. तिट्ठतीति पवत्तति. उप्पादादीनि हेट्ठा वुत्तत्थानि. सेसबोज्झङ्गमूलकेसुपि वारेसु एसेव नयो.
बोज्झङ्गकथावण्णना निट्ठिता.