३. दुतियसुत्तन्तनिद्देसवण्णना
१४. सच्चप्पटिवेधञाणयोजनक्कमे च अयं रूपस्स अस्सादोति पहानप्पटिवेधोति पुब्बभागे ‘‘अयं तण्हासम्पयुत्तो रूपस्स अस्सादो’’ति ञत्वा मग्गक्खणे समुदयप्पहानसङ्खातो समुदयसच्चप्पटिवेधो. समुदयसच्चन्ति समुदयसच्चप्पटिवेधञाणं. अरियसच्चारम्मणञाणम्पि हि ‘‘ये केचि कुसला धम्मा, सब्बे ते चतूसु अरियसच्चेसु सङ्गहं गच्छन्ती’’तिआदीसु (म. नि. १.३००) विय ‘‘सच्च’’न्ति वुच्चति. अयं रूपस्स आदीनवोति परिञ्ञापटिवेधोति पुब्बभागे ‘‘अयं रूपस्स आदीनवो’’ति ञत्वा मग्गक्खणे दुक्खपरिञ्ञासङ्खातो दुक्खसच्चप्पटिवेधो. दुक्खसच्चन्ति दुक्खसच्चप्पटिवेधञाणं. इदं रूपस्स निस्सरणन्ति सच्छिकिरियापटिवेधोति पुब्बभागे ‘‘इदं रूपस्स निस्सरण’’न्ति ञत्वा मग्गक्खणे निरोधसच्छिकिरियासङ्खातो निरोधसच्चप्पटिवेधो. निरोधसच्चन्ति निरोधसच्चारम्मणं निरोधसच्चप्पटिवेधञाणं. या इमेसु तीसु ठानेसूति इमेसु यथावुत्तेसु तीसु समुदयदुक्खनिरोधेसु पटिवेधवसेन पवत्ता या दिट्ठि यो सङ्कप्पोति योजना. भावनापटिवेधोति अयं मग्गभावनासङ्खातो मग्गसच्चप्पटिवेधो. मग्गसच्चन्ति मग्गसच्चप्पटिवेधञाणं.
१५. पुन अपरेन परियायेन सच्चानि च सच्चप्पटिवेधञ्च दस्सेन्तो सच्चन्ति कतिहाकारेहि सच्चन्तिआदिमाह. तत्थ यस्मा सब्बेपि सब्बञ्ञुबोधिसत्ता बोधिपल्लङ्के निसिन्ना जरामरणादिकस्स दुक्खसच्चस्स जातिआदिकं समुदयसच्चं ‘‘किं नु खो’’ति एसन्ति, तथा एसन्ता च जरामरणादिकस्स दुक्खसच्चस्स जातिआदिकं समुदयसच्चं ‘‘पच्चयो’’ति ववत्थपेन्तो परिग्गण्हन्ति, तस्मा सा च एसना सो च परिग्गहो सच्चानं एसनत्ता परिग्गहत्ता च ‘‘सच्च’’न्ति कत्वा एसनट्ठेन परिग्गहट्ठेनाति वुत्तं. अयञ्च विधि पच्चेकबुद्धानम्पि पच्चयपरिग्गहे लब्भतियेव, सावकानं पन अनुस्सववसेन पच्चयपरिग्गहे लब्भति. पटिवेधट्ठेनाति पुब्बभागे तथा एसितानं परिग्गहितानञ्च मग्गक्खणे एकपटिवेधट्ठेन.
किंनिदानन्तिआदीसु निदानादीनि सब्बानि कारणवेवचनानि. कारणञ्हि यस्मा फलं निदेति ‘‘हन्द नं गण्हथा’’ति अप्पेति विय, तस्मा ‘‘निदान’’न्ति वुच्चति. यस्मा फलं ततो समुदेति, जायति, पभवति; तस्मा समुदयो, जाति, पभवोति वुच्चति. अयं पनेत्थ अत्थो – किं निदानं एतस्साति किंनिदानं. को समुदयो एतस्साति किंसमुदयं. का जाति एतस्साति किंजातिकं. को पभवो एतस्साति किंपभवं. यस्मा पन तस्स जाति यथावुत्तेन अत्थेन निदानञ्चेव समुदयो च जाति च पभवो च, तस्मा जातिनिदानन्तिआदिमाह. जरामरणन्ति दुक्खसच्चं. जरामरणसमुदयन्ति तस्स पच्चयं समुदयसच्चं. जरामरणनिरोधन्ति निरोधसच्चं. जरामरणनिरोधगामिनिं पटिपदन्ति मग्गसच्चं. इमिनाव नयेन सब्बपदेसु अत्थो वेदितब्बो.
१६. निरोधप्पजाननाति आरम्मणकरणेन निरोधस्स पजानना. जाति सिया दुक्खसच्चं, सिया समुदयसच्चन्ति भवपच्चया पञ्ञायनट्ठेन दुक्खसच्चं, जरामरणस्स पच्चयट्ठेन समुदयसच्चं. एस नयो सेसेसुपि. अविज्जा सिया दुक्खसच्चन्ति पन आसवसमुदया अविज्जासमुदयट्ठेनाति.
सच्चकथावण्णना निट्ठिता.