२. दुतियसुत्तन्तपाळिवण्णना

१३. पुन अञ्ञस्स सुत्तन्तस्स अत्थवसेन सच्चप्पटिवेधं निद्दिसितुकामो पुब्बे मे, भिक्खवेतिआदिकं सुत्तन्तं आहरित्वा दस्सेसि. तत्थ पुब्बे मे, भिक्खवे, सम्बोधाति भिक्खवे, मम सम्बोधितो सब्बञ्ञुतञ्ञाणतो पुब्बे. अनभिसम्बुद्धस्साति सब्बधम्मे अप्पटिविद्धस्स. बोधिसत्तस्सेव सतोति बोधिसत्तभूतस्सेव. एतदहोसीति बोधिपल्लङ्के निसिन्नस्स एतं परिवितक्कितं अहोसि. अस्सादोति अस्सादीयतीति अस्सादो. आदीनवोति दोसो. निस्सरणन्ति अपगमनं. सुखन्ति सुखयतीति सुखं, यस्सुप्पज्जति, तं सुखितं करोतीति अत्थो. सोमनस्सन्ति पीतिसोमनस्सयोगतो सोभनं मनो अस्साति सुमनो, सुमनस्स भावो सोमनस्सं, सुखमेव पीतियोगतो विसेसितं. अनिच्चन्ति अद्धुवं. दुक्खन्ति दुक्खवत्थुत्ता सङ्खारदुक्खत्ता च दुक्खं. विपरिणामधम्मन्ति अवसी हुत्वा जराभङ्गवसेन परिवत्तनपकतिकं. एतेन अनत्तभावो वुत्तो होति. छन्दरागविनयोति छन्दसङ्खातस्स रागस्स संवरणं, न वण्णरागस्स. छन्दरागप्पहानन्ति तस्सेव छन्दरागस्स पजहनं.

यावकीवञ्चातिआदीसु याव इमेसं पञ्चन्नं उपादानक्खन्धानं…पे… यथाभूतं नाब्भञ्ञासिं न अधिकेन ञाणेन पटिविज्झिं, ताव अनुत्तरं सम्मासम्बोधिं अनुत्तरं सब्बञ्ञुभावं अभिसम्बुद्धो अभिसमेतावी अरहन्ति नेवाहं पच्चञ्ञासिं नेव पटिञ्ञं अकासिन्ति सम्बन्धतो अत्थो. कीवञ्चाति निपातमत्तं. यतोति यस्मा, यदा वा. अथाति अनन्तरं. ञाणञ्च पन मे दस्सनं उदपादीति दस्सनकिच्चकरणेन दस्सनसङ्खातं पच्चवेक्खणञाणञ्च मे उप्पज्जि. अकुप्पाति कोपेतुं चालेतुं असक्कुणेय्या. विमुत्तीति अरहत्तफलविमुत्ति. एताय एव फलपच्चवेक्खणाय मग्गनिब्बानपच्चवेक्खणापि वुत्ताव होन्ति. अयमन्तिमा जातीति अयं पच्छिमा खन्धप्पवत्ति. नत्थिदानि पुनब्भवोति इदानि पुन उप्पत्ति नत्थि. एतेन पहीनकिलेसपच्चवेक्खणा वुत्ता. अरहतो हि अवसिट्ठकिलेसपच्चवेक्खणा न होति.