६४-६७. सुद्धिकपटिसम्भिदाञाणनिद्देसवण्णना
११०. सुद्धिकपटिसम्भिदाञाणनिद्देसे इमेसं ञाणानं पभेदाभावतोयेव हेट्ठा विय पभेदं अदस्सेत्वायेव अत्थेसु ञाणं अत्थपटिसम्भिदातिआदि वुत्तं. पञ्ञापभेदाभावेपि अत्तना पटिविद्धचतुसच्चधम्ममत्तवसेन नानत्तसब्भावतो अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणन्तिआदि वुत्तं. तत्थ नानत्तेति अत्थादीनं अनेकभावे. ववत्थानेति अत्थादीनं निच्छयने. सल्लक्खणेति अत्थादीनं सम्मादस्सने. उपलक्खणेति अत्थादीनं भुसंदस्सने. पभेदेति अत्थादीनं नानाभेदे. पभावनेति अत्थादीनं पाकटीकरणेन उप्पादने. जोतनेति अत्थादीनं दीपने. विरोचनेति अत्थादीनं विविधा दीपने. पकासनेति अत्थादीनं पभासने. ‘‘नानत्ते’’ति मूलपदं कत्वा सब्बसाधारणवसेन वुत्तं. ‘‘ववत्थाने’’ति सोतापन्नस्स वसेन, ‘‘सल्लक्खणे उपलक्खणे’’ति सकदागामिस्स वसेन, ‘‘पभेदे पभावने’’ति अनागामिस्स वसेन, ‘‘जोतने विरोचने पकासने’’ति अरहतो वसेन वुत्तन्ति एवम्पेत्थ योजना कातब्बाति.
सुद्धिकपटिसम्भिदाञाणनिद्देसवण्णना निट्ठिता.
इति सद्धम्मप्पकासिनिया पटिसम्भिदामग्ग-अट्ठकथाय
पठमो भागो निट्ठितो.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स