५१. सोतधातुविसुद्धिञाणनिद्देसवण्णना

१०३. सोतधातुविसुद्धिञाणनिद्देसे दूरेपि सद्दानन्तिआदि दिब्बसोतं उप्पादेतुकामस्स आदिकम्मिकस्स भिक्खुनो उपायसन्दस्सनत्थं वुत्तं. तत्थ दूरेपि सद्दानं सद्दनिमित्तन्ति दूरे सद्दानं अन्तरे सद्दं. सद्दोयेव हि निमित्तकरणवसेन सद्दनिमित्तं. ‘‘दूरे’’ति वुत्तेपि पकतिसोतस्स आपाथट्ठानेयेव. ओळारिकानन्ति थूलानं. सुखुमानन्ति अणूनं. सण्हसण्हानन्ति सण्हतोपि सण्हानं, अतिसण्हानन्ति अत्थो. एतेन परमसुखुमा सद्दा वुत्ता होन्ति. इमं ञाणं उप्पादेतुकामेन आदिकम्मिकेन झायिना अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय परिकम्मसमाधिचित्तेन पठमतरं पकतिसोतपथे दूरे ओळारिको अरञ्ञे सीहादीनं सद्दो आवज्जितब्बो. विहारे घण्डिसद्दो भेरिसद्दो सङ्खसद्दो सामणेरदहरभिक्खूनं सब्बथामेन सज्झायन्तानं सज्झायनसद्दो पकतिकथं कथेन्तानं ‘‘किं, भन्ते, किं, आवुसो’’तिआदिसद्दो सकुणसद्दो वातसद्दो पदसद्दो पक्कुथितउदकस्स चिच्चिटायनसद्दो आतपे सुस्समानतालपण्णसद्दो कुन्थकिपिल्लिकादिसद्दोति एवं सब्बोळारिकतो पभुति यथाक्कमेन सुखुमसुखुमसद्दा आवज्जितब्बा.

एवं करोन्तेन च पुरत्थिमादीसु दससु दिसासु कमेन एकेकिस्सा दिसाय सद्दनिमित्तं वुत्तनयेन मनसि कातब्बं. मनसि करोन्तेन च ये सद्दा पकतिसोतस्स सुय्यन्ति, तेसु पकतिसोतमोधाय मनोद्वारिकेन चित्तेन मनसि कातब्बं. तस्स ते सद्दा पकतिचित्तस्सापि पाकटा होन्ति, परिकम्मसमाधिचित्तस्स पन अतिविय पाकटा होन्ति. तस्सेवं सद्दनिमित्तं मनसिकरोतो इदानि दिब्बसोतधातु उप्पज्जिस्सतीति तेसु सद्देसु अञ्ञतरं आरम्मणं कत्वा मनोद्वारावज्जनं उप्पज्जति, तस्मिं निरुद्धे चत्तारि पञ्च वा जवनानि जवन्ति. येसं पुरिमानि तीणि चत्तारि वा परिकम्मोपचारानुलोमगोत्रभुनामकानि कामावचरानि, चतुत्थं पञ्चमं वा अप्पनाचित्तं रूपावचरचतुत्थज्झानिकं. तत्थ यं तेन अप्पनाचित्तेन सद्धिं उप्पन्नं ञाणं, अयं दिब्बसोतधातु. तं थामगतं करोन्तेन ‘‘एत्थन्तरे सद्दं सुणामी’’ति एकङ्गुलमत्तं परिच्छिन्दित्वा वड्ढेतब्बं, ततो द्वङ्गुलचतुरङ्गुलअट्ठङ्गुलविदत्थिरतनअन्तोगब्भपमुख- पासादपरिवेणसङ्घारामगोचरगामजनपदादिवसेन याव चक्कवाळं, ततो वा भिय्योपि परिच्छिन्दित्वा परिच्छिन्दित्वा वड्ढेतब्बं. एवं अधिगताभिञ्ञो एस पादकज्झानारम्मणेन फुट्ठोकासब्भन्तरगते सद्दे पुन पादकज्झानं असमापज्जित्वापि अभिञ्ञाञाणेन सुणातियेव. एवं सुणन्तो च सचेपि यावब्रह्मलोका सङ्खभेरिपणवादिसद्देहि एककोलाहलं होति, पाटियेक्कं ववत्थापेतुकामताय सति ‘‘अयं सङ्खसद्दो, अयं भेरिसद्दो’’ति ववत्थापेतुं सक्कोतियेव. अभिञ्ञाञाणेन सुते सात्थके सद्दे पच्छा कामावचरचित्तेन अत्थं जानाति. दिब्बसोतं पकतिसोतवतोयेव उप्पज्जति, नो बधिरस्स. पच्छा पकतिसोते विनट्ठेपि दिब्बसोतं न विनस्सतीति वदन्ति.

सो दिब्बाय सोतधातुयाति एत्थ दिब्बसदिसत्ता दिब्बा. देवानञ्हि सुचरितकम्माभिनिब्बत्ता पित्तसेम्हरुधिरादीहि अपलिबुद्धा उपक्किलेसविमुत्तताय दूरेपि आरम्मणसम्पटिच्छनसमत्था दिब्बा पसादसोतधातु होति. अयञ्चापि इमस्स भिक्खुनो वीरियभावनाबलनिब्बत्ता ञाणसोतधातु तादिसायेवाति दिब्बसदिसत्ता दिब्बा. अपिच दिब्बविहारवसेन पटिलद्धत्ता, अत्तना च दिब्बविहारसन्निस्सितत्तापि दिब्बा, सवनट्ठेन निज्जीवट्ठेन च सोतधातु, सोतधातुकिच्चकरणेन च सोतधातु वियातिपि सोतधातु. ताय दिब्बाय सोतधातुया. विसुद्धायाति परिसुद्धाय निरुपक्किलेसाय. अतिक्कन्तमानुसिकायाति मनुस्सूपचारं अतिक्कमित्वा सद्दसवनेन मानुसिकं मंससोतधातुं अतिक्कन्ताय वीतिवत्तित्वा ठिताय. उभो सद्दे सुणातीति द्वे सद्दे सुणाति. कतमे द्वे? दिब्बे च मानुसे च, देवानञ्च मनुस्सानञ्च सद्देति वुत्तं होति. एतेन पदेसपरियादानं वेदितब्बं. ये दूरे सन्तिके चाति ये सद्दा दूरे परचक्कवाळेपि, ये च सन्तिके अन्तमसो सदेहसन्निस्सितपाणकसद्दापि, ते सुणातीति वुत्तं होति. एतेन निप्पदेसपरियादानं वेदितब्बन्ति.

सोतधातुविसुद्धिञाणनिद्देसवण्णना निट्ठिता.