५२. चेतोपरियञाणनिद्देसवण्णना
१०४. चेतोपरियञाणनिद्देसे सो एवं पजानातीति इदानि वत्तब्बं विधानं उपदिसति. इदं रूपं सोमनस्सिन्द्रियसमुट्ठितन्तिआदि आदिकम्मिकेन झायिना पटिपज्जितब्बं विधानं. कथं? एतञ्हि ञाणं उप्पादेतुकामेन झायिना पठमं ताव दिब्बचक्खुञाणं उप्पादेतब्बं. एतञ्हि दिब्बचक्खुवसेन इज्झति, तं एतस्स परिकम्मं. तस्मा तेन भिक्खुना आलोकं वड्ढेत्वा दिब्बेन चक्खुना परस्स हदयरूपं निस्साय वत्तमानस्स लोहितस्स वण्णं पस्सित्वा पस्सित्वा चित्तं परियेसितब्बं. तञ्हि लोहितं कुसलसोमनस्से वत्तमाने रत्तं होति निग्रोधपक्कवण्णं, अकुसलसोमनस्से वत्तमाने तदेव लुळितं होति, दोमनस्से वत्तमाने काळकं होति जम्बुपक्कवण्णं लुळितं. कुसलूपेक्खाय वत्तमानाय पसन्नं होति तिलतेलवण्णं. अकुसलूपेक्खाय वत्तमानाय तदेव लुळितं होति. तस्मा तेन ‘‘इदं रूपं सोमनस्सिन्द्रियसमुट्ठितं, इदं रूपं दोमनस्सिन्द्रियसमुट्ठितं, इदं रूपं उपेक्खिन्द्रियसमुट्ठित’’न्ति परस्स हदयलोहितवण्णं पस्सित्वा पस्सित्वा चित्तं परियेसन्तेन चेतोपरियञाणं थामगतं कातब्बं. एवं थामगते हि तस्मिं अनुक्कमेन सब्बम्पि कामावचरादिभेदं चित्तं पजानाति चित्ता चित्तमेव सङ्कमन्तो विना हदयरूपदस्सनेन. वुत्तम्पि चेतं अट्ठकथायं –
‘‘आरुप्पे परस्स चित्तं जानितुकामो कस्स हदयरूपं पस्सति, कस्सिन्द्रियविकारं ओलोकेतीति? न कस्सचि. इद्धिमतो विसयो एस, यदिदं यत्थ कत्थचि चित्तं आवज्जन्तो सोळसप्पभेदं चित्तं जानाति. अकताभिनिवेसस्स पन वसेन अयं कथा’’ति (विसुद्धि. २.४०१).
परसत्तानन्ति अत्तानं ठपेत्वा सेससत्तानं. परपुग्गलानन्ति इदम्पि इमिना एकत्थमेव, वेनेय्यवसेन पन देसनाविलासेन च ब्यञ्जनेन नानत्तं कतं. चेतसा चेतो परिच्च पजानातीति अत्तनो चित्तेन तेसं चित्तं परिच्छिन्दित्वा सरागादिवसेन नानप्पकारतो जानाति. सरागं वातिआदीसु वा-सद्दो समुच्चयत्थो. तत्थ अट्ठविधं लोभसहगतचित्तं सरागं चित्तं नाम, अवसेसं चतुभूमककुसलाब्याकतचित्तं वीतरागं नाम. द्वे दोमनस्सचित्तानि, द्वे विचिकिच्छाउद्धच्चचित्तानीति इमानि पन चत्तारि चित्तानि इमस्मिं दुके सङ्गहं न गच्छन्ति. केचि पन थेरा तानिपि वीतरागपदेन सङ्गण्हन्ति. दुविधं पन दोमनस्ससहगतं चित्तं सदोसं चित्तं नाम, सब्बम्पि चतुभूमकं कुसलाब्याकतं वीतदोसं नाम. सेसानि दस अकुसलचित्तानि इमस्मिं दुके सङ्गहं न गच्छन्ति. केचि पन थेरा तानिपि वीतदोसपदेन सङ्गण्हन्ति. समोहं वीतमोहन्ति एत्थ पन मोहेकहेतुकवसेन विचिकिच्छाउद्धच्चसहगतद्वयमेव समोहं. मोहस्स पन सब्बाकुसलेसु सम्भवतो द्वादसविधम्पि अकुसलं चित्तं ‘‘समोह’’न्ति वेदितब्बं. अवसेसं कुसलाब्याकतं वीतमोहं. थिनमिद्धानुगतं पन संखित्तं, उद्धच्चानुगतं विक्खित्तं. रूपावचरारूपावचरं महग्गतं, अवसेसं अमहग्गतं. सब्बम्पि तेभूमकं सउत्तरं, लोकुत्तरं अनुत्तरं. उपचारप्पत्तं अप्पनाप्पत्तञ्च समाहितं, तदुभयमसम्पत्तं असमाहितं. तदङ्गविक्खम्भनसमुच्छेदपटिप्पस्सद्धिनिस्सरणविमुत्तिप्पत्तं विमुत्तं, पञ्चविधम्पि एतं विमुत्तिमप्पत्तं अविमुत्तन्ति वेदितब्बं. इति चेतोपरियञाणलाभी भिक्खु सोळसप्पभेदम्पि चित्तं पजानाति. पुथुज्जना पन अरियानं मग्गफलचित्तं न जानन्ति, अरियापि च हेट्ठिमा हेट्ठिमा उपरिमानं उपरिमानं मग्गफलचित्तं न जानन्ति, उपरिमा उपरिमा पन हेट्ठिमानं हेट्ठिमानं चित्तं जानन्तीति.
चेतोपरियञाणनिद्देसवण्णना निट्ठिता.