५०. इद्धिविधञाणनिद्देसवण्णना

१०१. इद्धिविधञाणनिद्देसं इध भिक्खूति इमस्मिं सासने भिक्खु. छन्दसमाधिपधानसङ्खारसमन्नागतन्ति एत्थ छन्दहेतुको समाधि, छन्दाधिको वा समाधि छन्दसमाधि, कत्तुकम्यताछन्दं अधिपतिं करित्वा पटिलद्धसमाधिस्सेतं अधिवचनं. पधानभूता सङ्खारा पधानसङ्खारा, चतुकिच्चसाधकस्स सम्मप्पधानवीरियस्सेतं अधिवचनं. चतुकिच्चसाधनवसेन बहुवचनं कतं. समन्नागतन्ति छन्दसमाधिना च पधानसङ्खारेहि च उपेतं. इद्धिपादन्ति निप्फत्तिपरियायेन वा इज्झनट्ठेन, इज्झन्ति एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इमिना वा परियायेन इद्धीति सङ्खं गतानं उपचारज्झानादिकुसलचित्तसम्पयुत्तानं छन्दसमाधिपधानसङ्खारानं अधिट्ठानट्ठेन पादभूतं सेसचित्तचेतसिकरासिन्ति अत्थो. वुत्तञ्हि इद्धिपादविभङ्गे सुत्तन्तभाजनीये ‘‘इद्धिपादोति तथाभूतस्स वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति (विभ. ४३४). अभिधम्मभाजनीये च ‘‘इद्धिपादोति तथाभूतस्स फस्सो वेदना…पे… पग्गाहो अविक्खेपो’’ति (विभ. ४४७) वुत्तं. तस्मा ‘‘सेसचित्तचेतसिकरासि’’न्ति एत्थ? छन्दसमाधिपधानसङ्खारेसु एकेकं इद्धिं कत्वा द्वीहि द्वीहि सह सेसवचनं कतन्ति वेदितब्बं. एवञ्हि चत्तारो खन्धा सब्बे च फस्सादयो धम्मा सङ्गहिता होन्ति. इमिना नयेन सेसेसुपि अत्थो वेदितब्बो. यथेव हि छन्दं अधिपतिं करित्वा पटिलद्धसमाधि छन्दसमाधीति वुत्तो, एवं वीरियं चित्तं वीमंसं अधिपतिं करित्वा पटिलद्धसमाधि वीमंसासमाधीति वुच्चति. एवमेकेकस्मिं इद्धिपादे छन्दादयो वीरियादयो चित्तादयो वीमंसादयोति तयो तयो धम्मा इद्धीपि होन्ति इद्धिपादापि, सेसा पन सम्पयुत्तका चत्तारो खन्धा इद्धिपादायेव. यस्मा वा इमे तयो तयो धम्मा सम्पयुत्तकेहि चतूहि खन्धेहि सद्धिंयेव इज्झन्ति, न विना तेहि, तस्मा तेन परियायेन सब्बे चत्तारोपि खन्धा इज्झनट्ठेन इद्धि नाम होन्ति, पतिट्ठट्ठेन पादा नामातिपि वेदितब्बं.

वीरियसमाधिपधानसङ्खारसमन्नागतन्ति एत्थ पन वीरियन्ति च पधानसङ्खारोति च एकोयेव. कस्मा द्विधा वुत्तन्ति चे? वीरियस्स अधिपतिभावदस्सनवसेनेत्थ पठमं वीरियग्गहणं कतं, तस्सेव चतुकिच्चसाधकत्तदस्सनत्थं पधानसङ्खारवचनं कतं. एवं द्विधा वुत्तत्ता एव चेत्थापि तयो तयो धम्माति वुत्तं. केचि पन ‘‘विभङ्गे ‘इद्धीति या तेसं तेसं धम्मानं इद्धि समिद्धि इज्झना समिज्झना’ति (विभ. ४३४) वुत्तत्ता इद्धि नाम अनिप्फन्ना, इद्धिपादो निप्फन्नो’’ति वदन्ति. इध पन इद्धिपि इद्धिपादोपि निप्फन्नो लक्खणब्भाहतोति सन्निट्ठानं कतं. इद्धि समिद्धीतिआदीहि इज्झनाकारेन धम्मा एव वुत्ताति वेदितब्बं.

भावेतीति आसेवति. सुत्तन्तभाजनीये (विभ. ४३१ आदयो) विय इधापि इद्धिपादभावना लोकिया एव. तस्मा इद्धिविधं ताव सम्पादेतुकामो लोकियं इद्धिपादं भावेन्तो पथवीकसिणादीसु अट्ठसु कसिणेसु अधिकतवसिप्पत्तअट्ठसमापत्तिको कसिणानुलोमतो कसिणपटिलोमतो कसिणानुलोमपटिलोमतो झानानुलोमतो झानपटिलोमतो झानानुलोमपटिलोमतो झानुक्कन्तिकतो कसिणुक्कन्तिकतो झानकसिणुक्कन्तिकतो अङ्गसङ्कन्तिकतो आरम्मणसङ्कन्तिकतो अङ्गारम्मणसङ्कन्तिकतो अङ्गववत्थानतो आरम्मणववत्थानतोति इमेहि चुद्दसहि आकारेहि चित्तं परिदमेत्वा छन्दसीसवीरियसीसचित्तसीसवीमंसासीसवसेन पुनप्पुनं झानं समापज्जति. अङ्गारम्मणववत्थानम्पि केचि इच्छन्ति. पुब्बहेतुसम्पन्नेन पन कसिणेसु चतुक्कज्झानमत्ते चिण्णवसिनापि कातुं वट्टतीति तं तं इद्धिपादं समाधिं भावेन्तो ‘‘अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाया’’तिआदिकं (विभ. ४३२) चतुप्पकारं वीरियं अधिट्ठाति, तस्स च हानिवुद्धियो ञत्वा वीरियसमतं अधिट्ठाति. सो एवं चतूसु इद्धिपादेसु चित्तं परिभावेत्वा इद्धिविधं सम्पादेति.

सो इमेसु चतूसु इद्धिपादेसूतिआदीसु सोति सो भावितचतुरिद्धिपादो भिक्खु. चतूसु इद्धिपादेसु चित्तं परिभावेतीति पुनप्पुनं छन्दादीसु एकेकं अधिपतिं कत्वा झानसमापज्जनवसेन तेसु चित्तं परिभावेति नाम, छन्दादिवासनं गाहापेतीति अत्थो. परिदमेतीति निब्बिसेवनं करोति. पुरिमं पच्छिमस्स कारणवचनं. परिभावितञ्हि चित्तं परिदमितं होतीति. मुदुं करोतीति तथा दन्तं चित्तं वसिप्पत्तं करोति. वसे वत्तमानञ्हि चित्तं ‘‘मुदू’’ति वुच्चति. कम्मनियन्ति कम्मक्खमं कम्मयोग्गं करोति. मुदु हि चित्तं कम्मनियं होति सुधन्तमिव सुवण्णं, इध पन इद्धिविधकम्मक्खमं. सोति सो परिभावितचित्तो भिक्खु. कायम्पि चित्ते समोदहतीतिआदि इद्धिकरणकाले यथासुखं चित्तचारस्स इज्झनत्थं योगविधानं दस्सेतुं वुत्तं. तत्थ कायम्पि चित्ते समोदहतीति अत्तनो करजकायम्पि पादकज्झानचित्ते समोदहति पवेसेति आरोपेति, कायं चित्तानुगतिकं करोतीति अत्थो. एवं करणं अदिस्समानेन कायेन गमनस्स उपकाराय होति. चित्तम्पि काये समोदहतीति पादकज्झानचित्तं अत्तनो करजकाये समोदहति आरोपेति, चित्तम्पि कायानुगतिकं करोतीति अत्थो. एवं करणं दिस्समानेन कायेन गमनस्स उपकाराय होति. समादहतीतिपि पाठो, पतिट्ठापेतीति अत्थो. कायवसेन चित्तं परिणामेतीति पादकज्झानचित्तं गहेत्वा करजकाये आरोपेति कायानुगतिकं करोति, इदं चित्तं काये समोदहनस्स वेवचनं. चित्तवसेन कायं परिणामेतीति करजकायं गहेत्वा पादकज्झानचित्ते आरोपेति, चित्तानुगतिकं करोति, इदं कायं चित्ते समोदहनस्स वेवचनं. अधिट्ठातीति ‘‘एवं होतू’’ति अधिट्ठाति. समोदहनस्स अत्थविवरणत्थं परिणामो वुत्तो, परिणामस्स अत्थविवरणत्थं अधिट्ठानं वुत्तं. यस्मा समोदहतीति मूलपदं, परिणामेति अधिट्ठातीति तस्स अत्थनिद्देसपदानि, तस्मा तेसं द्विन्नंयेव पदानं वसेन परिणामेत्वाति अधिट्ठहित्वाति वुत्तं, न वुत्तं समोदहित्वाति.

सुखसञ्ञञ्च लहुसञ्ञञ्च काये ओक्कमित्वा विहरतीति चतुत्थज्झानेन सहजातसुखसञ्ञञ्च लहुसञ्ञञ्च समापज्जनवसेन करजकाये ओक्कमित्वा पवेसेत्वा विहरति. ताय सञ्ञाय ओक्कन्तकायस्स पनस्स करजकायोपि तूलपिचु विय लहुको होति. सोति सो कतयोगविधानो भिक्खु. तथाभावितेन चित्तेनाति इत्थम्भूतलक्खणे करणवचनं, हेतुअत्थे वा, तथाभावितेन चित्तेन हेतुभूतेनाति अत्थो. परिसुद्धेनाति उपेक्खासतिपारिसुद्धिभावतो परिसुद्धेन. परिसुद्धत्तायेव परियोदातेन, पभस्सरेनाति अत्थो. इद्धिविधञाणायाति इद्धिकोट्ठासे, इद्धिविकप्पे वा ञाणत्थाय. चित्तं अभिनीहरतीति सो भिक्खु वुत्तप्पकारवसेन तस्मिं चित्ते अभिञ्ञापादके जाते इद्धिविधञाणाधिगमत्थाय परिकम्मचित्तं अभिनीहरति, कसिणारम्मणतो अपनेत्वा इद्धिविधाभिमुखं पेसेति. अभिनिन्नामेतीति अधिगन्तब्बइद्धिपोणं इद्धिपब्भारं करोति. सोति सो एवं कतचित्ताभिनीहारो भिक्खु. अनेकविहितन्ति अनेकविधं नानप्पकारकं. इद्धिविधन्ति इद्धिकोट्ठासं, इद्धिविकप्पं वा. पच्चनुभोतीति पच्चनुभवति, फस्सेति सच्छिकरोति पापुणातीति अत्थो.

१०२. इदानिस्स अनेकविहितभावं दस्सेन्तो एकोपि हुत्वातिआदिमाह. तत्थ एकोपि हुत्वाति इद्धिकरणतो पुब्बे पकतिया एकोपि हुत्वा. बहुधा होतीति बहुन्नं सन्तिके चङ्कमितुकामो वा, सज्झायं वा कत्तुकामो, पञ्हं वा पुच्छितुकामो हुत्वा सतम्पि सहस्सम्पि होति. कथं पनायमेवं होति? इद्धिया भूमिपादपदमूलभूते धम्मे सम्पादेत्वा अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय सचे सतं इच्छति, ‘‘सतं होमि सतं होमी’’ति परिकम्मं कत्वा पुन पादकज्झानं समापज्जित्वा वुट्ठाय अधिट्ठाति. अधिट्ठानचित्तेन सहेव सतं होति. सहस्सादीसुपि एसेव नयो. सचे एवं न इज्झति, पुन परिकम्मं कत्वा दुतियम्पि समापज्जित्वा वुट्ठाय अधिट्ठातब्बं. संयुत्तट्ठकथायञ्हि ‘‘एकवारं द्वेवारं समापज्जितुं वट्टती’’ति वुत्तं. तत्थ पादकज्झानचित्तं निमित्तारम्मणं, परिकम्मचित्तानि सतारम्मणानि वा सहस्सारम्मणानि वा. तानि च खो वण्णवसेनेव, नो पण्णत्तिवसेन. अधिट्ठानचित्तम्पि तथेव सतारम्मणं वा सहस्सारम्मणं वा, तं पठमप्पनाचित्तमिव गोत्रभुअनन्तरं एकमेव उप्पज्जति रूपावचरचतुत्थज्झानिकं. तत्थ ये ते बहू निम्मिता, ते अनियमेत्वा निम्मितत्ता इद्धिमता सदिसाव होन्ति. ठाननिसज्जादीसु वा भासिततुण्हीभावादीसु वा यं यं इद्धिमा करोति, तंतदेव करोन्ति. सचे पन नानावण्णे कातुकामो होति, केचि पठमवये केचि मज्झिमवये केचि पच्छिमवये, तथा दीघकेसे उपड्ढमुण्डमुण्डे मिस्सककेसे उपड्ढरत्तचीवरे पण्डुकचीवरे पदभाणधम्मकथासरभञ्ञपञ्हपुच्छनपञ्हविस्सज्जनरजनपचनचीवरसिब्बनधोवनादीनि करोन्ते, अपरेपि वा नानप्पकारके कातुकामो होति, तेन पादकज्झानतो वुट्ठाय ‘‘एत्तका भिक्खू पठमवया होन्तू’’तिआदिना नयेन परिकम्मं कत्वा पुन समापज्जित्वा वुट्ठाय अधिट्ठातब्बं. अधिट्ठानचित्तेन सद्धिं इच्छितप्पकारायेव होन्तीति. एस नयो ‘‘बहुधापि हुत्वा एको होती’’तिआदीसु. अयं पन विसेसो – इमिना हि भिक्खुना एवं बहुभावं निम्मिनित्वा पुन ‘‘एकोव हुत्वा चङ्कमिस्सामि, सज्झायं करिस्सामि, पञ्हं पुच्छिस्सामी’’ति चिन्तेत्वा वा ‘‘अयं विहारो अप्पभिक्खुको, सचे केचि आगमिस्सन्ति, कुतो इमे एत्तका एकसदिसा भिक्खू अद्धा थेरस्स एसानुभावोति मं जानिस्सन्ती’’ति अप्पिच्छताय वा अन्तराव ‘‘एको होमी’’ति इच्छन्तेन पादकज्झानं समापज्जित्वा वुट्ठाय ‘‘एको होमी’’ति परिकम्मं कत्वा पुन समापज्जित्वा वुट्ठाय ‘‘एको होमी’’ति अधिट्ठातब्बं. अधिट्ठानचित्तेन सद्धिंयेव एको होति. एवं अकरोन्तो पन यथापरिच्छिन्नकालवसेन सयमेव एको होति.

आविभावन्ति पाकटभावं करोतीति अत्थो. तिरोभावन्ति पटिच्छन्नभावं करोतीति अत्थो. आविभावं पच्चनुभोति, तिरोभावं पच्चनुभोतीति पुरिमेन वा सम्बन्धो. तत्रायं इद्धिमा आविभावं कत्तुकामो अन्धकारं वा आलोकं करोति, पटिच्छन्नं वा विवटं करोति, अनापाथं वा आपाथं करोति. कथं? अयञ्हि यथा पटिच्छन्नोपि दूरे ठितोपि वा दिस्सति, एवं अत्तानं वा परं वा कत्तुकामो पादकज्झानतो वुट्ठाय ‘‘इदं अन्धकारं आलोकजातं होतू’’ति वा, ‘‘इदं पटिच्छन्नं विवटं होतू’’ति वा, ‘‘इदं अनापाथं आपाथं होतू’’ति वा आवज्जित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठाति. सह अधिट्ठाना यथाधिट्ठितमेव होति. परे दूरे ठितापि पस्सन्ति, सयम्पि पस्सितुकामो पस्सति. तिरोभावं कत्तुकामो पन आलोकं वा अन्धकारं करोति, अप्पटिच्छन्नं वा पटिच्छन्नं, आपाथं वा अनापाथं करोति. कथं? अयञ्हि यथा अप्पटिच्छन्नोपि समीपे ठितोपि वा न दिस्सति, एवं अत्तानं वा परं वा कत्तुकामो पादकज्झाना वुट्ठहित्वा ‘‘इदं आलोकट्ठानं अन्धकारं होतू’’ति वा, ‘‘इदं अप्पटिच्छन्नं पटिच्छन्नं होतू’’ति वा, ‘‘इदं आपाथं अनापाथं होतू’’ति वा आवज्जित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठाति. सह अधिट्ठाना यथाधिट्ठितमेव होति. परे समीपे ठितापि न पस्सन्ति, सयम्पि अपस्सितुकामो न पस्सति. अपिच सब्बम्पि पाकटपाटिहारियं आविभावो नाम, अपाकटपाटिहारियं तिरोभावो नाम. तत्थ पाकटपाटिहारिये इद्धिपि पञ्ञायति इद्धिमापि. तं यमकपाटिहारियेन दीपेतब्बं. अपाकटपाटिहारिये इद्धियेव पञ्ञायति, न इद्धिमा. तं महकसुत्तेन (सं. नि. ४.३४६) च ब्रह्मनिमन्तनिकसुत्तेन (म. नि. १.५०१ आदयो) च दीपेतब्बं.

तिरोकुट्टन्ति परकुट्टं, कुट्टस्स परभागन्ति वुत्तं होति. एस नयो तिरोपाकारतिरोपब्बतेसु. कुट्टोति च गेहभित्ति. पाकारोति गेहविहारगामादीनं परिक्खेपपाकारो. पब्बतोति पंसुपब्बतो वा पासाणपब्बतो वा. असज्जमानोति अलग्गमानो. सेय्यथापि आकासेति आकासे विय. एवं गन्तुकामेन पन आकासकसिणं समापज्जित्वा वुट्ठाय कुट्टं वा पाकारं वा पब्बतं वा आवज्जित्वा कतपरिकम्मेन ‘‘आकासो होतू’’ति अधिट्ठातब्बो, आकासोव होति. अधो ओतरितुकामस्स, उद्धं वा आरोहितुकामस्स सुसिरो होति, विनिविज्झित्वा गन्तुकामस्स छिद्दो. सो तत्थ असज्जमानो गच्छति. सचे पनस्स भिक्खुनो अधिट्ठहित्वा गच्छन्तस्स अन्तरा पब्बतो वा रुक्खो वा उट्ठेति, किं पुन समापज्जित्वा अधिट्ठातब्बन्ति? दोसो नत्थि. पुन समापज्जित्वा अधिट्ठानञ्हि उपज्झायस्स सन्तिके निस्सयग्गहणसदिसं होति. इमिना पन भिक्खुना ‘‘आकासो होतू’’ति अधिट्ठितत्ता आकासो होतियेव. पुरिमाधिट्ठानबलेनेव चस्स अन्तरा अञ्ञो पब्बतो वा रुक्खो वा उतुमयो उट्ठहिस्सतीति अट्ठानमेतं. अञ्ञेन इद्धिमता निम्मिते पन पठमं निम्मानं बलवं होति. इतरेन तस्स उद्धं वा अधो वा गन्तब्बं.

पथवियापि उम्मुज्जनिमुज्जन्ति एत्थ उम्मुज्जन्ति उट्ठानं, निमुज्जन्ति संसीदनं, उम्मुज्जञ्च निमुज्जञ्च उम्मुज्जनिमुज्जं. एवं कत्तुकामेन पन आपोकसिणं समापज्जित्वा उट्ठाय ‘‘एत्तके ठाने पथवी उदकं होतू’’ति परिच्छिन्दित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठातब्बं. सह अधिट्ठाना यथापरिच्छिन्ने ठाने पथवी उदकमेव होति. सो तत्थ उम्मुज्जनिमुज्जं करोति सेय्यथापि उदके. न केवलञ्च उम्मुज्जनिमुज्जमेव, न्हानपानमुखधोवनभण्डकधोवनादीसु यं यं इच्छति, तं तं करोति. न केवलञ्च उदकमेव करोति, सप्पितेलमधुफाणितादीसुपि यं यं इच्छति, तं तं ‘‘इदञ्चिदञ्च एत्तकं होतू’’ति आवज्जित्वा परिकम्मं कत्वा अधिट्ठहन्तस्स यथाधिट्ठितमेव होति. उद्धरित्वा भाजनगतं करोन्तस्स सप्पि सप्पियेव होति, तेलादीनि तेलादीनियेव, उदकं उदकमेव. सो तत्थ तेमितुकामोव तेमेति, न तेमितुकामो न तेमेति. तस्सेव च सा पथवी उदकं होति, सेसजनस्स पथवीयेव. तत्थ मनुस्सा पत्तिकापि गच्छन्ति, यानादीहिपि गच्छन्ति, कसिकम्मादीनिपि करोन्तियेव. सचे पनायं ‘‘तेसम्पि उदकं होतू’’ति इच्छति, होतियेव. परिच्छिन्नकालं पन अतिक्कमित्वा यं पकतिया घटतळाकादीसु उदकं, तं ठपेत्वा अवसेसं परिच्छिन्नट्ठानं पथवीयेव होति.

उदकेपि अभिज्जमाने गच्छतीति एत्थ यं उदकं अक्कमित्वा संसीदति, तं भिज्जमानन्ति वुच्चति, विपरीतं अभिज्जमानं. एवं गन्तुकामेन पन पथवीकसिणं समापज्जित्वा वुट्ठाय ‘‘एत्तके ठाने उदकं पथवी होतू’’ति परिच्छिन्दित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठातब्बं. सह अधिट्ठाना यथापरिच्छिन्नट्ठाने उदकं पथवीयेव होति. सो तत्थ गच्छति सेय्यथापि पथवियं. न केवलञ्च गच्छति, यं यं इरियापथं इच्छति, तं तं कप्पेति. न केवलञ्च पथविमेव करोति, मणिसुवण्णपब्बतरुक्खादीसुपि यं यं इच्छति, तं तं वुत्तनयेनेव आवज्जित्वा अधिट्ठाति, यथाधिट्ठितमेव होति. तस्सेव च तं उदकं पथवी होति, सेसजनस्स उदकमेव. मच्छकच्छपा च उदककाकादयो च यथारुचि विचरन्ति. सचे पनायं अञ्ञेसम्पि मनुस्सानं तं पथविं कातुं इच्छति, करोतियेव. यथापरिच्छिन्नकालातिक्कमेन पन उदकमेव होति.

आकासेपि पल्लङ्केन कमतीति अन्तलिक्खे समन्ततो ऊरुबद्धासनेन गच्छति. पक्खी सकुणोति पक्खेहि युत्तो सकुणो, न अपरिपुण्णपक्खो लूनपक्खो वा. तादिसो हि आकासे गन्तुं न सक्कोति. एवमाकासे गन्तुकामेन पन पथवीकसिणं समापज्जित्वा वुट्ठाय सचे निसिन्नो गन्तुमिच्छति, पल्लङ्कप्पमाणं ठानं परिच्छिन्दित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठातब्बं. सचे निपन्नो गन्तुकामो होति, मञ्चप्पमाणं, सचे पदसा गन्तुकामो होति, मग्गप्पमाणन्ति एवं यथानुरूपं ठानं परिच्छिन्दित्वा वुत्तनयेनेव ‘‘पथवी होतू’’ति अधिट्ठातब्बं. सह अधिट्ठाना पथवीयेव होति. आकासे गन्तुकामेन च भिक्खुना दिब्बचक्खुलाभिनापि भवितब्बं. कस्मा? यस्मा अन्तरा उतुसमुट्ठाना वा पब्बतरुक्खादयो होन्ति, नागसुपण्णादयो वा उसूयन्ता मापेन्ति, तेसं दस्सनत्थं. ते पन दिस्वा किं कातब्बन्ति? पादकज्झानं समापज्जित्वा वुट्ठाय ‘‘आकासो होतू’’ति परिकम्मं कत्वा अधिट्ठातब्बं. अपिच ओकासे ओरोहणत्थम्पि इमिना दिब्बचक्खुलाभिना भवितब्बं. अयञ्हि सचे अनोकासे न्हानतित्थे वा गामद्वारे वा ओरोहति, महाजनस्स पाकटो होति, तस्मा दिब्बचक्खुना पस्सित्वा अनोकासं वज्जेत्वा ओकासे ओतरतीति.

इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावेति एत्थ चन्दिमसूरियानं द्वाचत्तालीसयोजनसहस्सोपरिचरणेन महिद्धिकता, तीसु दीपेसु एकक्खणे आलोककरणेन महानुभावता वेदितब्बा, एवं उपरिचरणआलोकफरणेहि वा महिद्धिके, तेनेव महिद्धिकत्तेन महानुभावे. परामसतीति परिग्गण्हाति, एकदेसे वा फुसति. परिमज्जतीति समन्ततो आदासतलं विय परिमज्जति. अयं पनस्स इद्धि अभिञ्ञापादकज्झानवसेनेव इज्झति, नत्थेत्थ कसिणसमापत्तिनियमो. स्वायं यदि इच्छति गन्त्वा परामसितुं, गन्त्वा परामसति. सचे पन इधेव निसिन्नको वा निपन्नको वा परामसितुकामो होति, ‘‘हत्थपासे होतू’’ति अधिट्ठाति. अधिट्ठानबलेन वण्टा मुत्ततालफलं विय आगन्त्वा हत्थपासे ठिते वा परामसति, हत्थं वा वड्ढेत्वा परामसति. हत्थं वड्ढेन्तस्स पन किं उपादिन्नकं वड्ढति अनुपादिन्नकं वाति? उपादिन्नकं निस्साय अनुपादिन्नकं वड्ढति. यो एवं कत्वा न केवलं चन्दिमसूरिये परामसति, सचे इच्छति, पादकथलिकं कत्वा पादे ठपेति, पीठं कत्वा निसीदति, मञ्चं कत्वा निपज्जति, अपस्सेनफलकं कत्वा अपस्सयति. यथा एको, एवं अपरोपि. अनेकेसुपि हि भिक्खुसतसहस्सेसु एवं करोन्तेसु तेसञ्च एकमेकस्स तथेव इज्झति. चन्दिमसूरियानञ्च गमनम्पि आलोककरणम्पि तथेव होति. यथा हि पातिसहस्सेसु उदकपूरेसु सब्बपातीसु चन्दमण्डलानि दिस्सन्ति, पाकतिकमेव चन्दस्स गमनं आलोककरणञ्च होति, तथूपममेतं पाटिहारियं. याव ब्रह्मलोकापि कायेन वसं वत्तेतीति ब्रह्मलोकं परिच्छेदं कत्वा एत्थन्तरे अनेकविधं अभिञ्ञं करोन्तो अत्तनो कायेन वसं इस्सरियं वत्तेति. वित्थारो पनेत्थ इद्धिकथायं आविभविस्सतीति.

इद्धिविधञाणनिद्देसवण्णना निट्ठिता.