२९-३१. ञाणत्तयनिद्देसवण्णना
७८. ञाणत्तयनिद्देसे निमित्तन्ति सङ्खारनिमित्तं. अनिमित्तेति सङ्खारनिमित्तपटिपक्खे निब्बाने. अधिमुत्तत्ताति तन्निन्नभावेन चित्तस्स विस्सट्ठत्ता. फुस्स फुस्स वयं पस्सतीति सङ्खारनिमित्तं ञाणेन फुसित्वा फुसित्वा तस्स भङ्गं विपस्सनाञाणेनेव पस्सति. एतेन भङ्गानुपस्सना सिद्धा. सा अनिच्चानुपस्सनं साधेति, अनिच्चस्स दुक्खत्ता सा दुक्खानुपस्सनं, दुक्खस्स अनत्तत्ता सा अनत्तानुपस्सनन्ति एवमेत्थ तिस्सो अनुपस्सना वुत्ता होन्ति. अनिमित्तो विहारोति निमित्तं भयतो दिट्ठत्ता सो विपस्सनत्तयविहारो अनिमित्तविहारो नाम होति. पणिधिन्ति तण्हं. अप्पणिहितेति तण्हापटिपक्खे निब्बाने. अभिनिवेसन्ति अत्ताभिनिवेसं. सुञ्ञतेति अत्तविरहिते निब्बाने. सुञ्ञतोति सुञ्ञंयेव सुञ्ञतो. पवत्तं अज्झुपेक्खित्वाति विपाकप्पवत्तं सङ्खारुपेक्खाय अज्झुपेक्खित्वा. सुगतिसङ्खातविपाकप्पवत्ताभिनन्दिनो हि सत्ता. अयं पन फलसमापत्तिं समापज्जितुकामो तं पवत्तं, सब्बञ्च सङ्खारगतं अनिच्चादितो पस्सित्वा अज्झुपेक्खतियेव. एवञ्हि दिट्ठे फलसमापत्तिं समापज्जितुं सक्कोति, न अञ्ञथा. आवज्जित्वाति आवज्जनेन आवज्जित्वा. समापज्जतीति फलसमापत्तिं पटिपज्जति. अनिमित्ता समापत्तीति निमित्तं भयतो दिस्वा समापन्नत्ता अनिमित्ता समापत्ति नाम. अनिमित्तविहारसमापत्तीति विपस्सनाविहारवसेन च फलसमापत्तिवसेन च तदुभयं नाम होति.
७९. इदानि सङ्खारनिमित्तमेव विभजित्वा दस्सेन्तो रूपनिमित्तन्तिआदिमाह. जरामरणग्गहणे वत्तब्बं पुब्बे वुत्तमेव. ‘‘अञ्ञो अनिमित्तविहारो’’तिआदीहि वुत्तेयेव निगमेत्वा दस्सेति. सङ्खेपेन विहारट्ठे ञाणं नाम फलसमापत्तिया पुब्बभागे सङ्खारुपेक्खाञाणे ठितस्स विपस्सनाविहारनानत्ते ञाणं समापत्तट्ठे ञाणं नाम फलसमापत्तिनानत्ते ञाणं. विहारसमापत्तट्ठे ञाणं नाम तदुभयनानत्ते ञाणं. विपस्सनाविहारेनेव वीतिनामेतुकामो विपस्सनाविहारमेव पवत्तेति, फलसमापत्तिविहारेनेव वीतिनामेतुकामो विपस्सनापटिपाटिया उस्सक्कित्वा फलसमापत्तिविहारमेव पवत्तेति, तदुभयेन वीतिनामेतुकामो तदुभयं पवत्तेति. एवं पुग्गलाधिप्पायवसेन तिविधं जातं. सेसमेत्थ वत्तब्बं सङ्खारुपेक्खाञाणवण्णनायं वुत्तमेव.
ञाणत्तयनिद्देसवण्णना निट्ठिता.