३२. आनन्तरिकसमाधिञाणनिद्देसवण्णना
८०. आनन्तरिकसमाधिञाणनिद्देसे नेक्खम्मवसेनातिआदीसु नेक्खम्मअब्यापादआलोकसञ्ञाअविक्खेपधम्मववत्थानञाणपामोज्जानि सुक्खविपस्सकस्स उपचारज्झानसम्पयुत्ता तस्स तस्स किलेसस्स विपक्खभूता सत्त धम्मा एकचित्तसम्पयुत्ता एव. चित्तस्स एकग्गता अविक्खेपोति एकग्गस्स भावो एकग्गता, नानारम्मणे न विक्खिपति तेन चित्तन्ति अविक्खेपो, चित्तस्स एकग्गतासङ्खातो अविक्खेपोति अत्थो. समाधीति एकारम्मणे समं आधीयति तेन चित्तन्ति समाधि नामाति अत्थो. तस्स समाधिस्स वसेनाति उपचारसमाधिनापि समाहितचित्तस्स यथाभूतावबोधतो वुत्तप्पकारस्स समाधिस्स वसेन. उप्पज्जति ञाणन्ति मग्गञाणं यथाक्कमेन उप्पज्जति. खीयन्तीति समुच्छेदवसेन खीयन्ति. इतीति वुत्तप्पकारस्स अत्थस्स निगमनं. पठमं समथोति पुब्बभागे समाधि होति. पच्छा ञाणन्ति अपरभागे मग्गक्खणे ञाणं होति.
कामासवोति पञ्चकामगुणिकरागो. भवासवोति रूपारूपभवेसु छन्दरागो झाननिकन्ति सस्सतदिट्ठिसहजातो रागो भववसेन पत्थना. दिट्ठासवोति द्वासट्ठि दिट्ठियो. अविज्जासवोति दुक्खादीसु अट्ठसु ठानेसु अञ्ञाणं. भुम्मवचनेन ओकासपुच्छं कत्वा ‘‘सोतापत्तिमग्गेना’’तिआदिना आसवक्खयकरेन मग्गेन आसवक्खयं दस्सेत्वा ‘‘एत्था’’ति ओकासविस्सज्जनं कतं, मग्गक्खणेति वुत्तं होति. अनवसेसोति नत्थि एतस्स अवसेसोति अनवसेसो. अपायगमनीयोति निरयतिरच्छानयोनिपेत्तिविसयासुरकाया चत्तारो सुखसङ्खाता अया अपेतत्ता अपाया, यस्स संविज्जति, तं पुग्गलं अपाये गमेतीति अपायगमनीयो. आसवक्खयकथा दुभतोवुट्ठानकथायं वुत्ता.
अविक्खेपवसेनाति पवत्तमानस्स समाधिस्स उपनिस्सयभूतसमाधिवसेन. पथवीकसिणवसेनातिआदीसु दस कसिणानि तदारम्मणिकअप्पनासमाधिवसेन वुत्तानि, बुद्धानुस्सतिआदयो मरणस्सति उपसमानुस्सति च उपचारज्झानवसेन वुत्ता, आनापानस्सति कायगतासति च अप्पनासमाधिवसेन वुत्ता, दस असुभा पठमज्झानवसेन वुत्ता.
बुद्धं आरब्भ उप्पन्ना अनुस्सति बुद्धानुस्सति. ‘‘इतिपि सो भगवा अरह’’न्तिआदिबुद्धगुणारम्मणाय (म. नि. १.७४; अ. नि. ३.७१; ९.२७) सतिया एतं अधिवचनं, तस्सा बुद्धानुस्सतिया वसेन. तथा धम्मं आरब्भ उप्पन्ना अनुस्सति धम्मानुस्सति. ‘‘स्वाक्खातो भगवता धम्मो’’तिआदिधम्मगुणारम्मणाय सतिया एतं अधिवचनं. सङ्घं आरब्भ उप्पन्ना अनुस्सति सङ्घानुस्सति. ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’तिआदिसङ्घगुणारम्मणाय सतिया एतं अधिवचनं. सीलं आरब्भ उप्पन्ना अनुस्सति सीलानुस्सति. अत्तनो अखण्डतादिसीलगुणारम्मणाय सतिया एतं अधिवचनं. चागं आरब्भ उप्पन्ना अनुस्सति चागानुस्सति. अत्तनो मुत्तचागतादिचागगुणारम्मणाय सतिया एतं अधिवचनं. देवता आरब्भ उप्पन्ना अनुस्सति देवतानुस्सति. देवता सक्खिट्ठाने ठपेत्वा अत्तनो सद्धादिगुणारम्मणाय सतिया एतं अधिवचनं. आनापाने आरब्भ उप्पन्ना सति आनापानस्सति. आनापाननिमित्तारम्मणाय सतिया एतं अधिवचनं. मरणं आरब्भ उप्पन्ना सति मरणस्सति. एकभवपरियापन्नजीवितिन्द्रियुपच्छेदसङ्खातमरणारम्मणाय सतिया एतं अधिवचनं. कुच्छितानं केसादीनं पटिकूलानं आयत्ता आकरत्ता कायोतिसङ्खाते सरीरे गता पवत्ता, तादिसं वा कायं गता सति कायगतासति. ‘‘कायगतसती’’ति वत्तब्बे रस्सं अकत्वा ‘‘कायगतासती’’ति वुत्ता. तथेव इधापि कायगतासतिवसेनाति वुत्तं. केसादिकेसु कायकोट्ठासेसु पटिकूलनिमित्तारम्मणाय सतिया एतं अधिवचनं. उपसमं आरब्भ उप्पन्ना अनुस्सति उपसमानुस्सति. सब्बदुक्खूपसमारम्मणाय सतिया एतं अधिवचनं. दस असुभा हेट्ठा वुत्तत्था.
८१. दीघं अस्सासवसेनातिआदीनि अप्पनूपचारसमाधिभेदंयेव दस्सेतुं वुत्तानि. दीघं अस्सासवसेनाति दीघन्ति वुत्तअस्सासवसेन. ‘‘दीघं वा अस्ससन्तो दीघं अस्ससामीति पजानाती’’ति (दी. नि. २.३७४; म. नि. १.१०७; ३.१४८) हि वुत्तं. एस नयो सेसेसुपि. सब्बकायपटिसंवेदीति सब्बस्स अस्सासपस्सासकायस्स पटिसंवेदी. पस्सम्भयं कायसङ्खारन्ति ओळारिकं अस्सासपस्सासङ्खातं कायसङ्खारं पस्सम्भेन्तो वूपसमेन्तो. ‘‘दीघं रस्सं सब्बकायपटिसंवेदी पस्सम्भयं कायसङ्खार’’न्ति इमिनाव चतुक्केन अप्पनासमाधि वुत्तो. पीतिपटिसंवेदीति पीतिं पाकटं करोन्तो. चित्तसङ्खारपटिसंवेदीति सञ्ञावेदनासङ्खातं चित्तसङ्खारं पाकटं करोन्तो. अभिप्पमोदयं चित्तन्ति चित्तं मोदेन्तो. समादहं चित्तन्ति आरम्मणे चित्तं समं ठपेन्तो. विमोचयं चित्तन्ति चित्तं नीवरणादीहि विमोचेन्तो. पीतिपटिसंवेदी सुखपटिसंवेदी चित्तसङ्खारपटिसंवेदी पस्सम्भयं चित्तसङ्खारन्ति चतुक्कञ्च चित्तपटिसंवेदी अभिप्पमोदयं चित्तं समादहं चित्तं विमोचयं चित्तन्ति चतुक्कञ्च अप्पनासमाधिवसेन विपस्सनासम्पयुत्तसमाधिवसेन च वुत्तानि. अनिच्चानुपस्सीति अनिच्चानुपस्सनावसेन. विरागानुपस्सीति निब्बिदानुपसनावसेन. निरोधानुपस्सीति भङ्गानुपस्सनावसेन. पटिनिस्सग्गानुपस्सीति वुट्ठानगामिनीविपस्सनावसेन. सा हि तदङ्गवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजति. सङ्खतदोसदस्सनेन च तब्बिपरीते निब्बाने तन्निन्नताय पक्खन्दति. इदं चतुक्कं विपस्सनासम्पयुत्तसमाधिवसेनेव वुत्तं. अस्सासवसेन पस्सासवसेनाति चेत्थ अस्सासपस्सासपवत्तिमत्तं गहेत्वा वुत्तं, न तदारम्मणकरणवसेन. वित्थारो पनेत्थ आनापानकथायं आविभविस्सति.
आनन्तरिकसमाधिञाणनिद्देसवण्णना निट्ठिता.