२. सीलमयञाणनिद्देसवण्णना

३७. सीलमयञाणनिद्देसे पञ्चाति गणनपरिच्छेदो. सीलानीति परिच्छिन्नधम्मनिदस्सनं. परियन्तपारिसुद्धिसीलन्तिआदि पञ्चन्नं सरूपतो दस्सनं. परियन्तपारिसुद्धीतिआदीसु यथा नीलवण्णयोगतो वत्थम्पि नीलमस्स अत्थीति नीलन्ति वुच्चति, एवं गणनवसेन परियन्तो परिच्छेदो अस्सा अत्थीति परियन्ता, उपसम्पन्नसीले पत्तो अनुपसम्पन्नसीलस्स अवसानसब्भावतो वा परियन्तो अवसानं अस्सा अत्थीति परियन्ता. सपरियन्ताति वा वत्तब्बे सकारलोपो कतोति वेदितब्बो ‘‘दकं दकासया पविसन्ती’’ति (सं. नि. ३.७८; अ. नि. ४.३३) एत्थ उकारलोपो विय. परिसुद्धभावो पारिसुद्धि, परियन्ता च सा पारिसुद्धि चाति परियन्तपारिसुद्धि, परियन्तपारिसुद्धिसङ्खातं सीलं परियन्तपारिसुद्धिसीलं. वुत्तपटिपक्खेन न परियन्ताति अपरियन्ता, नत्थि एतिस्सा परियन्तोतिपि अपरियन्ता, वुद्धो एतिस्सा परियन्तोतिपि अपरियन्ता. समादानतो पभुति अखण्डितत्ता खण्डितापि कतपटिकम्मत्ता चित्तुप्पादमत्तकेनापि मलेन विरहितत्ता च परिसुद्धजातिमणि विय सुधन्तसुपरिकम्मकतसुवण्णं विय च परिसुद्धत्ता अरियमग्गस्स पदट्ठानभूता अनूनट्ठेन परिपूण्णा. दिट्ठिया पहीनत्ता दिट्ठिपरामासेन अग्गहितत्ता अपरामट्ठा.अयं ते सीले दोसोति केनचि चोदकेन परामसितुं असक्कुणेय्यत्ता वा अपरामट्ठा. अरहत्तफलक्खणे सब्बदरथपटिप्पस्सद्धिया पटिप्पस्सद्धि. अनुपसम्पन्नानन्ति अनवसेससमादानवसेन सीलसम्पदाय भुसं सम्पन्नाति उपसम्पन्ना, न उपसम्पन्ना अनुपसम्पन्ना. तेसं अनुपसम्पन्नानं.

परियन्तसिक्खापदानन्ति एत्थ सिक्खितब्बट्ठेन सिक्खा, कोट्ठासट्ठेन पदानि, सिक्खितब्बकोट्ठासानीति अत्थो. अपिच सीले पतिट्ठितेन उपरिपत्तब्बत्ता सब्बे कुसला धम्मा सिक्खा, सीलानि तासं सिक्खानं पतिट्ठट्ठेन पदानीति सिक्खानं पदत्ता सिक्खापदानि, परियन्तानि सिक्खापदानि एतेसन्ति परियन्तसिक्खापदा. तेसं परियन्तसिक्खापदानं. एत्थ च द्वे परियन्ता सिक्खापदपरियन्तो च कालपरियन्तो च. कतमो सिक्खापदपरियन्तो? उपासकोपासिकानं यथासमादानवसेन एकं वा द्वे वा तीणि वा चत्तारि वा पञ्च वा अट्ठ वा दस वा सिक्खापदानि होन्ति, सिक्खमानसामणेरसामणेरीनं दस सिक्खापदानि. अयं सिक्खापदपरियन्तो. कतमो कालपरियन्तो? उपासकोपासिका दानं ददमाना परिवेसनपरियन्तं सीलं समादियन्ति, विहारगता विहारपरियन्तं सीलं समादियन्ति, एकं वा द्वे वा तयो वा भिय्यो वा रत्तिन्दिवानि परिच्छेदं कत्वा सीलं समादियन्ति. अयं कालपरियन्तो. इमेसु द्वीसु परियन्तेसु सिक्खापदं परियन्तं कत्वा समादिन्नं सीलं वीतिक्कमनेन वा मरणेन वा पटिप्पस्सम्भति, कालं परियन्तं कत्वा समादिन्नं तंतंकालातिक्कमेन पटिप्पस्सम्भति.

अपरियन्तसिक्खापदानन्ति –

‘‘नव कोटिसहस्सानि, असीति सतकोटियो;

पञ्ञास सतसहस्सानि, छत्तिंस च पुनापरे.

‘‘एते संवरविनया, सम्बुद्धेन पकासिता;

पेय्यालमुखेन निद्दिट्ठा, सिक्खा विनयसंवरे’’ति. –

एवं गणनवसेन परियन्तानम्पि सिक्खापदानं अनवसेससमादानभाववसेन लाभयसञातिअङ्गजीवितहेतु अदिट्ठपरियन्तभाववसेन उपरि रक्खितब्बसीलपरिच्छेदाभाववसेन च नत्थि एतेसं परियन्तोति अपरियन्तानि. अपरियन्तानि सिक्खापदानि एतेसन्ति अपरियन्तसिक्खापदा. तेसं अपरियन्तसिक्खापदानं, वुद्धपरियन्तसिक्खापदानन्ति वा अत्थो.

पुथुज्जनकल्याणकानन्तिआदीसु –

‘‘पुथूनं जननादीहि, कारणेहि पुथुज्जनो;

पुथुज्जनन्तोगधत्ता, पुथुवायं जनो इति’’. –

वुत्तपुथुज्जनलक्खणानतिक्कमेपि –

‘‘दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना;

अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो’’ति. –

वुत्तपुथुज्जनद्वये कल्याणधम्मसमागमेन अन्धपुथुज्जनभावं अतिक्कम्म कल्याणपुथुज्जनभावे ठितानं पुथुज्जनकल्याणकानं कल्याणपुथुज्जनानन्ति वुत्तं होति. पुथुज्जनेसु वा कल्याणकानं पुथुज्जनकल्याणकानं.

कुसलधम्मे युत्तानन्ति एत्थ कुसलसद्दो ताव आरोग्यानवज्जछेकसुखविपाकेसु दिस्सति. अयञ्हि ‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामय’’न्तिआदीसु (जा. १.१५.१४६; २.२०.१२९) आरोग्ये दिस्सति. ‘‘कतमो पन, भन्ते, कायसमाचारो कुसलो? यो खो, महाराज, कायसमाचारो अनवज्जो’’ति (म. नि. २.३६१) च ‘‘पुन चपरं, भन्ते, एतदानुत्तरियं यथा भगवा धम्मं देसेति कुसलेसु धम्मेसू’’ति च (दी. नि. ३.१४५) एवमादीसु अनवज्जे. ‘‘कुसलो त्वं रथस्स अङ्गपच्चङ्गानं (म. नि. २.८७), कुसला नच्चगीतस्स सिक्खिता चातुरित्थियो’’तिआदीसु (जा. २.२२.९४) छेके. ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु (दी. नि. ३.८०). कुसलस्स कम्मस्स कतत्ता उपचितत्ता’’तिआदीसु (ध. स. ४३१) सुखविपाके. स्वायमिध आरोग्येपि अनवज्जेपि सुखविपाकेपि वट्टति.

वचनत्थो पनेत्थ कुच्छिते पापके धम्मे सलयन्ति चलयन्ति कम्पेन्ति विद्धंसेन्तीति कुसला. कुच्छितेन वा आकारेन सयन्ति पवत्तन्तीति कुसा, ते कुसे लुनन्ति छिन्दन्तीति कुसला. कुच्छितानं वा सानतो तनुकरणतो कुसं ञाणं. तेन कुसेन लातब्बा गहेतब्बा पवत्तेतब्बाति कुसला, यथा वा कुसा उभयभागगतं हत्थप्पदेसं लुनन्ति, एवमिमेपि उप्पन्नानुप्पन्नभावेन उभयभागगतं संकिलेसपक्खं लुनन्ति, तस्मा कुसा विय लुनन्तीति कुसला. अपिच आरोग्यट्ठेन अनवज्जट्ठेन कोसल्लसम्भूतट्ठेन वा कुसला. इध पन यस्मा विपस्सनाकुसलमेव अधिप्पेतं, तस्मा सेसे विहाय तस्सेव दस्सनत्थं ‘‘कुसलधम्मे’’ति एकवचनं कतन्ति वेदितब्बं. विपस्सनाकुसलधम्मे सातच्चकिरियताय सक्कच्चकारिताय च युत्तानन्ति अत्थो.

सेक्खपरियन्ते परिपूरकारीनन्ति एत्थ तीसु सिक्खासु जातातिपि सेक्खा, सत्तन्नं सेक्खानं एतेतिपि सेक्खा, सयमेव सिक्खन्तीतिपि सेक्खा. सोतापत्तिमग्गफलसकदागामिमग्गफलअनागामिमग्गफलअरहत्तमग्गधम्मा. ते सेक्खा धम्मा परियन्ते अवसाने एतस्स, ते वा सेक्खा धम्मा परियन्तो परिच्छेदो एतस्साति सेक्खपरियन्तो. तस्मिं सेक्खपरियन्ते धम्मेति सम्बन्धो. परिपूरं परिपुण्णतं करोन्तीति परिपूरकारिनो, परिपूरकारो परिपूरकिरिया एतेसं अत्थीति वा परिपूरकारिनो. तेसं सोतापत्तिमग्गस्स पुब्बभागभूते सेक्खपरियन्ते पटिपदाधम्मे विपस्सनापारिपूरिया परिपूरकारीनं. काये च जीविते च अनपेक्खानन्ति एत्थ कायेति सरीरे. सरीरञ्हि असुचिसञ्चयतो कुच्छितानञ्च केसादीनं चक्खुरोगादीनञ्च रोगसतानं आयभूतत्ता कायोति वुच्चति. जीवितेति जीवितिन्द्रिये. तञ्हि जीवन्ति तेनाति जीवितन्ति वुच्चति. नत्थि एतेसं अपेक्खाति अनपेक्खा, निस्सिनेहाति अत्थो. तेसं तस्मिं काये च जीविते च अनपेक्खानं.

इदानि तेसं तेसु अनपेक्खत्तस्स कारणं दस्सेन्तो परिच्चत्तजीवितानन्ति आह. भगवतो आचरियस्स वा सकजीवितपरिच्चागेनेव हि ते किलममानेपि काये विनस्समानेपि जीविते अनपेक्खा होन्तीति. सत्तन्नं सेक्खानन्ति सिक्खन्तीति सेक्खाति लद्धनामानं सोतापत्तिमग्गट्ठादीनं सत्तन्नं अरियपुग्गलानं. तथागतसावकानन्ति तथागतस्स सावकानं. अट्ठपि हि अरियपुग्गला सवनन्ते अरियाय जातिया जातत्ता भगवतो देसनं अनुसिट्ठिं अवेच्चप्पसादयोगेन सक्कच्चं सुणन्तीति सावका. तेसुपि अरहत्तफलट्ठेयेव विसेसेत्वा दस्सेन्तो खीणासवानन्ति आह, अरहत्तमग्गञाणेन परिक्खीणसब्बासवानन्ति अत्थो. पच्चेकबुद्धानन्ति तं तं कारणं पटिच्च एकोव अनाचरियको चतुसच्चं बुज्झितवाति पच्चेकबुद्धो. तादिसानं पच्चेकबुद्धानं.

तथागतानन्ति एत्थ अट्ठहि कारणेहि भगवा तथागतो – तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथा कारिताय तथागतो, अभिभवनट्ठेन तथागतो.

कथं भगवा तथा आगतोति तथागतो? यथा सब्बलोकहिताय उस्सुक्कमापन्ना पुरिमका सम्मासम्बुद्धा आगता. किं वुत्तं होति? येनाभिनीहारेन पुरिमका भगवन्तो आगता, तेनेव अम्हाकम्पि भगवा आगतो. अथ वा यथा पुरिमका भगवन्तो दानसीलनेक्खम्मपञ्ञावीरियखन्तिसच्चाधिट्ठानमेत्तुपेक्खासङ्खाता दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समतिंस पारमियो पूरेत्वा अङ्गपरिच्चागं नयनधनरज्जपुत्तदारपरिच्चागन्ति इमे पञ्च महापरिच्चागे परिच्चजित्वा, पुब्बयोगपुब्बचरियधम्मक्खानञातत्थचरियादयो पूरेत्वा बुद्धिचरियाय कोटिं पत्वा आगता, तथा अम्हाकम्पि भगवा आगतो. यथा च पुरिमका भगवन्तो चत्तारो सतिपट्ठाने चत्तारो सम्मप्पधाने चत्तारो इद्धिपादे पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गे अरियं अट्ठङ्गिकं मग्गं भावेत्वा ब्रूहेत्वा आगता, तथा अम्हाकम्पि भगवा आगतोति तथागतो.

‘‘यथेव दीपङ्करबुद्धआदयो, सब्बञ्ञुभावं मुनयो इधागता;

तथा अयं सक्यमुनीपि आगतो, तथागतो वुच्चति तेन चक्खुमा’’ति.

कथं तथा गतोति तथागतो? यथा सम्पतिजाता पुरिमका भगवन्तो गता. कथञ्च ते गता? ते हि सम्पतिजाता समेहि पादेहि पथवियं पतिट्ठाय उत्तरेनमुखा सत्तपदवीतिहारेन गता. यथाह ‘‘सम्पतिजातो, आनन्द, बोधिसत्तो समेहि पादेहि पथवियं पतिट्ठहित्वा उत्तराभिमुखो सत्तपदवीतिहारेन गच्छति सेतम्हि छत्ते अनुधारयमाने, सब्बा च दिसा अनुविलोकेति, आसभिञ्च वाचं भासति ‘अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति (म. नि. ३.२०७; दी. नि. २.३१). तञ्चस्स गमनं तथं अहोसि अवितथं अनेकेसं विसेसाधिगमानं पुब्बनिमित्तभावेन. यञ्हि सो सम्पतिजातो समेहि पादेहि पतिट्ठहि, इदमस्स चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तं, उत्तरमुखभावो पनस्स सब्बलोकुत्तरभावस्स पुब्बनिमित्तं, सत्तपदवीतिहारो सत्तबोज्झङ्गरतनपटिलाभस्स पुब्बनिमित्तं, ‘‘सुवण्णदण्डा वीतिपतन्ति चामरा’’ति (सु. नि. ६९३) एत्थ वुत्तचामरुक्खेपो पन सब्बतित्थियनिम्मथनस्स पुब्बनिमित्तं, सेतच्छत्तधारणं अरहत्तफलविमुत्तिवरविमलसेतच्छत्तपटिलाभस्स पुब्बनिमित्तं, सब्बादिसानुविलोकनं सब्बञ्ञुतानावरणञाणपटिलाभस्स पुब्बनिमित्तं, आसभिवाचाभासनं पन अप्पटिवत्तियवरधम्मचक्कप्पवत्तनस्स पुब्बनिमित्तं. तथायं भगवापि गतो. तञ्चस्स गमनं तथं अहोसि अवितथं तेसंयेव विसेसाधिगमानं पुब्बनिमित्तभावेन. तेनाहु पोराणा –

‘‘मुहुत्तजातोव गवंपती यथा, समेहि पादेहि फुसी वसुन्धरं;

सो विक्कमी सत्त पदानि गोतमो, सेतञ्च छत्तं अनुधारयुं मरू.

‘‘गन्त्वान सो सत्त पदानि गोतमो, दिसा विलोकेसि समा समन्ततो;

अट्ठङ्गुपेतं गिरमब्भुदीरयि, सीहो यथा पब्बतमुद्धनिट्ठितो’’ति.

एवं तथा गतोति तथागतो.

अथ वा यथा पुरिमका भगवन्तो, अयम्पि भगवा तथेव नेक्खम्मेन कामच्छन्दं…पे… पठमज्झानेन नीवरणे…पे… अनिच्चानुपस्सनाय निच्चसञ्ञं…पे… अरहत्तमग्गेन सब्बकिलेसे पहाय गतो. एवम्पि तथा गतोति तथागतो.

कथं तथलक्खणं आगतोति तथागतो? पथवीधातुया कक्खळत्तलक्खणं तथं अवितथं, आपोधातुया पग्घरणलक्खणं, तेजोधातुया उण्हत्तलक्खणं, वायोधातुया वित्थम्भनलक्खणं, आकासधातुया असम्फुट्ठलक्खणं, विञ्ञाणधातुया विजाननलक्खणं.

रूपस्स रुप्पनलक्खणं, वेदनाय वेदयितलक्खणं, सञ्ञाय सञ्जाननलक्खणं, सङ्खारानं अभिसङ्खरणलक्खणं, विञ्ञाणस्स विजाननलक्खणं.

वितक्कस्स अभिनिरोपनलक्खणं, विचारस्स अनुमज्जनलक्खणं, पीतिया फरणलक्खणं, सुखस्स सातलक्खणं, चित्तेकग्गताय अविक्खेपलक्खणं, फस्सस्स फुसनलक्खणं.

सद्धिन्द्रियस्स अधिमोक्खलक्खणं, वीरियिन्द्रियस्स पग्गहलक्खणं, सतिन्द्रियस्स उपट्ठानलक्खणं, समाधिन्द्रियस्स अविक्खेपलक्खणं, पञ्ञिन्द्रियस्स पजाननलक्खणं.

सद्धाबलस्स अस्सद्धिये अकम्पियलक्खणं, वीरियबलस्स कोसज्जे, सतिबलस्स मुट्ठस्सच्चे, समाधिबलस्स उद्धच्चे, पञ्ञाबलस्स अविज्जाय अकम्पियलक्खणं.

सतिसम्बोज्झङ्गस्स उपट्ठानलक्खणं, धम्मविचयसम्बोज्झङ्गस्स पविचयलक्खणं, वीरियसम्बोज्झङ्गस्स पग्गहलक्खणं, पीतिसम्बोज्झङ्गस्स फरणलक्खणं, पस्सद्धिसम्बोज्झङ्गस्स उपसमलक्खणं, समाधिसम्बोज्झङ्गस्स अविक्खेपलक्खणं, उपेक्खासम्बोज्झङ्गस्स पटिसङ्खानलक्खणं.

सम्मादिट्ठिया दस्सनलक्खणं, सम्मासङ्कप्पस्स अभिनिरोपनलक्खणं, सम्मावाचाय परिग्गहलक्खणं, सम्माकम्मन्तस्स समुट्ठानलक्खणं, सम्माआजीवस्स वोदानलक्खणं, सम्मावायामस्स पग्गहलक्खणं, सम्मासतिया उपट्ठानलक्खणं, सम्मासमाधिस्स अविक्खेपलक्खणं.

अविज्जाय अञ्ञाणलक्खणं, सङ्खारानं चेतनालक्खणं, विञ्ञाणस्स विजाननलक्खणं, नामस्स नमनलक्खणं, रूपस्स रुप्पनलक्खणं, सळायतनस्स आयतनलक्खणं, फस्सस्स फुसनलक्खणं, वेदनाय वेदयितलक्खणं, तण्हाय हेतुलक्खणं, उपादानस्स गहणलक्खणं, भवस्स आयूहनलक्खणं, जातिया निब्बत्तिलक्खणं, जराय जीरणलक्खणं, मरणस्स चुतिलक्खणं.

धातूनं सुञ्ञतालक्खणं, आयतनानं आयतनलक्खणं, सतिपट्ठानानं उपट्ठानलक्खणं, सम्मप्पधानानं पदहनलक्खणं, इद्धिपादानं इज्झनलक्खणं, इन्द्रियानं अधिपतिलक्खणं, बलानं अकम्पियलक्खणं, बोज्झङ्गानं निय्यानलक्खणं, मग्गस्स हेतुलक्खणं.

सच्चानं तथलक्खणं, समथस्स अविक्खेपलक्खणं, विपस्सनाय अनुपस्सनालक्खणं, समथविपस्सनानं एकरसलक्खणं, युगनद्धानं अनतिवत्तनलक्खणं.

सीलविसुद्धिया संवरलक्खणं, चित्तविसुद्धिया अविक्खेपलक्खणं, दिट्ठिविसुद्धिया दस्सनलक्खणं.

खये ञाणस्स समुच्छेदलक्खणं, अनुप्पादे ञाणस्स पस्सद्धिलक्खणं.

छन्दस्स मूललक्खणं, मनसिकारस्स समुट्ठानलक्खणं, फस्सस्स समोधानलक्खणं, वेदनाय समोसरणलक्खणं, समाधिस्स पमुखलक्खणं, सतिया आधिपतेय्यलक्खणं, पञ्ञाय ततुत्तरिलक्खणं, विमुत्तिया सारलक्खणं, अमतोगधस्स निब्बानस्स परियोसानलक्खणं तथं अवितथं. एतं तथलक्खणं ञाणगतिया आगतो अविरज्झित्वा पत्तो अनुप्पत्तोति तथागतो. एवं तथलक्खणं आगतोति तथागतो.

कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? तथधम्मा नाम चत्तारि अरियसच्चानि. यथाह – ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि? ‘इदं दुक्ख’न्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति (सं. नि. ५.१०९०) वित्थारो. तानि च भगवा अभिसम्बुद्धोति तथानं अभिसम्बुद्धत्ता तथागतोति वुच्चति. अभिसम्बोधत्थो हि एत्थ गतसद्दो.

अपिच जरामरणस्स जातिपच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो…पे… सङ्खारानं अविज्जापच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो. तथा अविज्जाय सङ्खारानं पच्चयट्ठो तथो अवितथो अनञ्ञथो…पे… जातिया जरामरणस्स पच्चयट्ठो तथो अवितथो अनञ्ञथो. तं सब्बं भगवा अभिसम्बुद्धो. तस्मापि तथानं अभिसम्बुद्धत्ता तथागतो. एवं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो.

कथं तथदस्सिताय तथागतो? भगवा यं सदेवके लोके…पे… सदेवमनुस्साय अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं चक्खुद्वारे आपाथं आगच्छन्तं रूपारम्मणं नाम अत्थि, तं सब्बाकारेन जानाति पस्सति. एवं जानता पस्सता च तेन तं इट्ठानिट्ठादिवसेन वा दिट्ठसुतमुतविञ्ञातेसु लब्भमानकपदवसेन वा ‘‘कतमं तं रूपं रूपायतनं? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतक’’न्तिआदिना (ध. स. ६१६) नयेन अनेकेहि नामेहि तेरसहि वारेहि द्विपञ्ञासाय नयेहि विभज्जमानं तथमेव होति, वितथं नत्थि. एस नयो सोतद्वारादीसुपि आपाथमागच्छन्तेसु सद्दादीसु. वुत्तम्पि चेतं भगवता ‘‘यं, भिक्खवे, सदेवकस्स लोकस्स…पे… सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि, तमहं अब्भञ्ञासिं, तं तथागतस्स विदितं, तं तथागतो न उपट्ठासी’’ति (अ. नि. ४.२४). एवं तथदस्सिताय तथागतो. तत्थ तथदस्सीअत्थे तथागतोति पदसम्भवो वेदितब्बो.

कथं तथवादिताय तथागतो? यं रत्तिं भगवा बोधिमण्डे अपराजितपल्लङ्के निसिन्नो चतुन्नं मारानं मत्थकं मद्दित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, यञ्च रत्तिं यमकसालानमन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बायि, एत्थन्तरे पञ्चचत्तालीसवस्सपरिमाणे काले पठमबोधियापि मज्झिमबोधियापि पच्छिमबोधियापि यं भगवता भासितं सुत्तं गेय्यं…पे… वेदल्लं, तं सब्बं अत्थतो च ब्यञ्जनतो च अनवज्जं अनुपवज्जं अनूनमनधिकं सब्बाकारपरिपुण्णं रागमदनिम्मदनं दोसमोहमदनिम्मदनं, नत्थि तत्थ वालग्गमत्तम्पि पक्खलितं, सब्बं तं एकमुद्दिकाय लञ्छितं विय, एकनाळिकाय मितं विय, एकतुलाय तुलितं विय, च तथमेव होति. यथाह ‘‘यञ्च, चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथमेव होति, नो अञ्ञथा. तस्मा ‘तथागतो’ति वुच्चती’’ति (दी. नि. ३.१८८). गदअत्थो हि एत्थ गतसद्दो. एवं तथवादिताय तथागतो.

अपिच आगदनं आगदो, वचनन्ति अत्थो. तथो अविपरीतो आगदो अस्साति दकारस्स तकारं कत्वा तथागतोति एवमेतस्मिं अत्थे पदसिद्धि वेदितब्बा.

कथं तथाकारिताय तथागतो? भगवतो हि वाचाय कायो अनुलोमेति, कायस्सापि वाचा, तस्मा यथावादी तथाकारी यथाकारी तथावादी च होति. एवंभूतस्स चस्स यथा वाचा, कायोपि तथा गतो पवत्तोति अत्थो. यथा च कायो, वाचापि तथा गता पवत्ताति तथागतो. तेनेवाह – ‘‘यथावादी, भिक्खवे, तथागतो तथाकारी, यथाकारी तथावादी. इति यथावादी तथाकारी, यथाकारी तथावादी. तस्मा ‘तथागतो’ति वुच्चती’’ति. एवं तथाकारिताय तथागतो.

कथं अभिभवनट्ठेन तथागतो? उपरि भवग्गं हेट्ठा अवीचिं परियन्तं कत्वा तिरियं अपरिमाणासु लोकधातूसु सब्बसत्ते अभिभवति सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सनेन, न तस्स तुला वा पमाणं वा अत्थि, अतुलो अप्पमेय्यो अनुत्तरो राजाधिराजा देवानं अतिदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा. तेनाह – ‘‘सदेवके, भिक्खवे, लोके…पे… सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्ञदत्थु दसो वसवत्ती. तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३).

तत्थेवं पदसिद्धि वेदितब्बा – अगदो विय अगदो. को पनेस? देसनाविलासो चेव पुञ्ञुस्सयो च. तेन हेस महानुभावो भिसक्को दिब्बागदेन सप्पे विय सब्बपरप्पवादिनो सदेवकञ्च लोकं अभिभवति. इति सब्बलोकाभिभवने तथो अविपरीतो देसनाविलासमयो चेव पुञ्ञमयो च अगदो अस्साति दकारस्स तकारं कत्वा तथागतोति वेदितब्बो. एवं अभिभवनट्ठेन तथागतो.

अपिच तथाय गतोतिपि तथागतो, तथं गतोतिपि तथागतोति. गतोति अवगतो अतीतो पत्तो पटिपन्नोति अत्थो. तत्थ सकलं लोकं तीरणपरिञ्ञाय तथाय गतो अवगतोति तथागतो, लोकसमुदयं पहानपरिञ्ञाय तथाय गतो अतीतोति तथागतो, लोकनिरोधं सच्छिकिरियाय तथाय गतो पत्तोति तथागतो, लोकनिरोधगामिनिपटिपदं तथं गतो पटिपन्नोति तथागतो. तेन यं वुत्तं भगवता – ‘‘लोको, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकस्मा तथागतो विसंयुत्तो. लोकसमुदयो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकसमुदयो तथागतस्स पहीनो. लोकनिरोधो, भिक्खवे, तथागतेन अभिसम्बुद्धो लोकनिरोधो तथागतस्स सच्छिकतो. लोकनिरोधगामिनी पटिपदा, भिक्खवे, तथागतेन अभिसम्बुद्धा, लोकनिरोधगामिनीपटिपदा तथागतस्स भाविता. यं, भिक्खवे, सदेवकस्स लोकस्स…पे… अनुविचरितं मनसा, सब्बं तं तथागतेन अभिसम्बुद्धं. तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३). तस्स एवम्पि अत्थो वेदितब्बो. इदम्पि च तथागतस्स तथागतभावदीपने मुखमत्तमेव. सब्बाकारेन पन तथागतोव तथागतस्स तथागतभावं वण्णेय्य. यस्मा पन सब्बबुद्धा तथागतगुणेनापि समसमा, तस्मा सब्बेसं वसेन तथागतानन्ति आह.

अरहन्तानन्ति किलेसेहि आरकत्ता, अरीनं अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावा तथागतो अरहं. आरका हि सो सब्बकिलेसेहि सुविदूरविदूरे ठितो मग्गेन सवासनानं किलेसानं पहीनत्ताति अरहं.

सो ततो आरका नाम, यस्स येनासमङ्गिता;

असमङ्गी च दोसेहि, नाथो तेनारहं मतो.

ते चानेन किलेसारयो मग्गेन हताति अरीनं हतत्तापि अरहं.

यस्मा रागादिसङ्खाता, सब्बेपि अरयो हता;

पञ्ञासत्थेन नाथेन, तस्मापि अरहं मतो.

यञ्चेतं अविज्जाभवतण्हामयनाभिपुञ्ञादिअभिसङ्खारानं जरामरणनेमि आसवसमुदयमयेन अक्खेन विज्झित्वा तिभवरथे समायोजितं अनादिकालप्पवत्तं संसारचक्कं, तस्सानेन बोधिमण्डे वीरियपादेहि सीलपथवियं पतिट्ठाय सद्धाहत्थेन कम्मक्खयकरं ञाणफरसुं गहेत्वा सब्बे अरा हताति अरानं हतत्तापि अरहं.

अरा संसारचक्कस्स, हता ञाणासिना यतो;

लोकनाथेन तेनेस, अरहन्ति पवुच्चति.

अग्गदक्खिणेय्यत्ता च चीवरादिपच्चये अरहति पूजाविसेसञ्च. तेनेव च उप्पन्ने तथागते ये केचि महेसक्खा देवमनुस्सा, न ते अञ्ञत्थ पूजं करोन्ति. तथा हि ब्रह्मा सहम्पति सिनेरुमत्तेन रतनदामेन तथागतं पूजेसि, यथाबलञ्च अञ्ञे देवा मनुस्सा च बिम्बिसारकोसलराजादयो. परिनिब्बुतम्पि च भगवन्तं उद्दिस्स छन्नवुतिकोटिधनं विस्सज्जेत्वा असोकमहाराजा सकलजम्बुदीपे चतुरासीति विहारसहस्सानि पतिट्ठापेसि, को पन वादो अञ्ञेसं पूजाविसेसानन्ति पच्चयादीनं अरहत्तापि अरहं.

पूजाविसेसं सह पच्चयेहि, यस्मा अयं अरहति लोकनाथो;

अत्थानुरूपं अरहन्ति लोके, तस्मा जिनो अरहति नाममेतं.

यथा च लोके ये केचि पण्डितमानिनो बाला असिलोकभयेन रहो पापं करोन्ति, एवमेस न कदाचि करोतीति पापकरणे रहाभावतोपि अरहं.

यस्मा नत्थि रहो नाम, पापकम्मेसु तादिनो;

रहाभावेन तेनेस, अरहं इति विस्सुतो.

एवं सब्बथापि –

आरकत्ता हतत्ता च, किलेसारीन सो मुनि;

हतसंसारचक्कारो, पच्चयादीन चारहो;

न रहो करोति पापानि, अरहं तेन वुच्चतीति.

यस्मा पन सब्बबुद्धा अरहत्तगुणेनापि समसमा, तस्मा सब्बेसं वसेन ‘‘अरहन्तान’’न्ति आह.

सम्मासम्बुद्धानन्ति सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धो. तथा हेस सब्बधम्मे सम्मा सम्बुद्धो, अभिञ्ञेय्ये धम्मे अभिञ्ञेय्यतो बुद्धो, परिञ्ञेय्ये धम्मे परिञ्ञेय्यतो, पहातब्बे धम्मे पहातब्बतो, सच्छिकातब्बे धम्मे सच्छिकातब्बतो, भावेतब्बे धम्मे भावेतब्बतो. तेनेवाह –

‘‘अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितं;

पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणा’’ति. (म. नि. २.३९९; सु. नि. ५६३);

अथ वा चक्खु दुक्खसच्चं, तस्स मूलकारणभावेन समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, निरोधप्पजानना पटिपदा मग्गसच्चन्ति एवं एकेकपदुद्धारेनापि सब्बधम्मे सम्मा सामञ्च बुद्धो. एस नयो सोतघानजिव्हाकायमनेसु. एतेनेव नयेन रूपादीनि छ आयतनानि, चक्खुविञ्ञाणादयो छ विञ्ञाणकाया, चक्खुसम्फस्सादयो छ फस्सा, चक्खुसम्फस्सजादयो छ वेदना, रूपसञ्ञादयो छ सञ्ञा, रूपसञ्चेतनादयो छ चेतना, रूपतण्हादयो छ तण्हाकाया, रूपवितक्कादयो छ वितक्का, रूपविचारादयो छ विचारा, रूपक्खन्धादयो पञ्चक्खन्धा, दस कसिणानि, दस अनुस्सतियो, उद्धुमातकसञ्ञादिवसेन दस सञ्ञा, केसादयो द्वत्तिंसाकारा, द्वादसायतनानि, अट्ठारस धातुयो, कामभवादयो नव भवा, पठमादीनि चत्तारि झानानि, मेत्ताभावनादयो चतस्सो अप्पमञ्ञा, चतस्सो अरूपसमापत्तियो, पटिलोमतो जरामरणादीनि, अनुलोमतो अविज्जादीनि पटिच्चसमुप्पादङ्गानि च योजेतब्बानि. तत्रायं एकपदयोजना – जरामरणं दुक्खसच्चं, जाति समुदयसच्चं, उभिन्नं निस्सरणं निरोधसच्चं, निरोधप्पजानना पटिपदा मग्गसच्चन्ति एवं एकेकपदुद्धारेन सब्बधम्मे सम्मा सामञ्च बुद्धो अनुबुद्धो पटिविद्धो. यं वा पन किञ्चि अत्थि नेय्यं नाम, सब्बस्स सम्मा सम्बुद्धत्ता विमोक्खन्तिकञाणवसेन सम्मासम्बुद्धो. तस्स पन विभागो उपरि आवि भविस्सतीति. यस्मा पन सब्बबुद्धा सम्मासम्बुद्धगुणेनापि समसमा, तस्मा सब्बेसं वसेन ‘‘सम्मासम्बुद्धान’’न्ति आह.

३८. इदानि परियन्तपारिसुद्धिअपरियन्तपारिसुद्धिसीलद्वये एकेकमेव सीलं पञ्चधा भिन्दित्वा दस्सेतुं अत्थि सीलं परियन्तं, अत्थि सीलं अपरियन्तन्तिआदिमाह. इतरेसु पन तीसु सीलेसु तथाविधो भेदो नत्थीति. तत्थ लाभपरियन्तन्ति लाभेन परियन्तो भेदो एतस्साति लाभपरियन्तं. एवं सेसानिपि. यसोति पनेत्थ परिवारो. इधाति इमस्मिं लोके. एकच्चोति एको. लाभहेतूति लाभोयेव हेतु लाभहेतु, तस्मा लाभहेतुतोति वुत्तं होति. हेत्वत्थे निस्सक्कवचनं. ‘‘लाभपच्चया लाभकारणा’’ति तस्सेव वेवचनं. हेतुमेव हि पटिच्च एतं फलमेतीति पच्चयोति च, फलुप्पत्तिं कारयतीति कारणन्ति च वुच्चति.

यथासमादिन्नन्ति यं यं समादिन्नं गहितं. वीतिक्कमतीति अज्झाचरति. एवरूपानीति एवंसभावानि, वुत्तप्पकारानीति अधिप्पायो. सीलानीति गहट्ठसीलानि वा होन्तु पब्बजितसीलानि वा, येसं आदिम्हि वा अन्ते वा एकं भिन्नं, तानि परियन्ते छिन्नसाटको विय खण्डानि. येसं वेमज्झे एकं भिन्नं, तानि मज्झे विनिविद्धसाटको विय छिद्दानि. येसं पटिपाटिया द्वे वा तीणि वा भिन्नानि, तानि पिट्ठिया वा कुच्छिया वा उट्ठितेन दीघवट्टादिसण्ठानेन विसभागवण्णेन काळरत्तादीनं अञ्ञतरसरीरवण्णा गावी विय सबलानि. येसं अन्तरन्तरा एकेकानि भिन्नानि, तानि अन्तरन्तरा विसभागवण्णबिन्दुविचित्रा गावी विय कम्मासानि. अविसेसेन वा सब्बानिपि सत्तविधेन मेथुनसंयोगेन कोधूपनाहादीहि च पापधम्मेहि उपहतत्ता खण्डानि छिद्दानि सबलानि कम्मासानीति. तानियेव तण्हादासब्यतो मोचेत्वा भुजिस्सभावाकरणेन न भुजिस्सानि. बुद्धादीहि विञ्ञूहि न पसत्थत्ता न विञ्ञुप्पसत्थानि. तण्हादिट्ठीहि परामट्ठत्ता, केनचि वा ‘‘अयं ते सीलेसु दोसो’’ति परामट्ठुं सक्कुणेय्यताय परामट्ठानि. उपचारसमाधिं अप्पनासमाधिं वा, अथ वा मग्गसमाधिं फलसमाधिं वा न संवत्तयन्तीति असमाधिसंवत्तनिकानि. न समाधिसंवत्तनिकानीतिपि पाठो.

केचि पन ‘‘खण्डानीति कुसलानं धम्मानं अप्पतिट्ठाभूतत्ता, छिद्दानीतिपि एवं. सबलानीति विवण्णकरणत्ता, कम्मासानीतिपि एवं. न भुजिस्सानीति तण्हादासब्यं गतत्ता. न विञ्ञुप्पसत्थानीति कुसलेहि गरहितत्ता. परामट्ठानीति तण्हाय गहितत्ता. असमाधिसंवत्तनिकानीति विप्पटिसारवत्थुभूतत्ता’’ति एवमत्थं वण्णयन्ति.

न अविप्पटिसारवत्थुकानीति विप्पटिसारावहत्ता अविप्पटिसारस्स पतिट्ठा न होन्तीति अत्थो. न पामोज्जवत्थुकानीति अविप्पटिसारजाय दुब्बलपीतिया न वत्थुभूतानि तस्सा अनावहत्ता. एवं सेसेसुपि योजना कातब्बा. न पीतिवत्थुकानीति दुब्बलपीतिजाय बलवपीतिया न वत्थुभूतानि. न पस्सद्धिवत्थुकानीति बलवपीतिजाय कायचित्तपस्सद्धिया न वत्थुभूतानि. न सुखवत्थुकानीति पस्सद्धिजस्स कायिकचेतसिकसुखस्स न वत्थुभूतानि. न समाधिवत्थुकानीति सुखजस्स समाधिस्स न वत्थुभूतानि. न यथाभूतञाणदस्सनवत्थुकानीति समाधिपदट्ठानस्स यथाभूतञाणदस्सनस्स न वत्थुभूतानि.

न एकन्तनिब्बिदायातिआदीसु न-कारमेव आहरित्वा ‘‘न विरागाया’’तिआदिना नयेन सेसपदेहिपि योजेतब्बं. न विरागायातिआदीसु सनकारो वा पाठो. तत्थ एकन्तनिब्बिदायाति एकन्तेन वट्टे निब्बिन्दनत्थाय न संवत्तन्तीति सम्बन्धो. एवं सेसेसुपि योजेतब्बं. विरागायाति वट्टे विरज्जनत्थाय. निरोधायाति वट्टस्स निरोधनत्थाय. उपसमायाति निरोधितस्स पुन अनुप्पत्तिवसेन वट्टस्स उपसमनत्थाय. अभिञ्ञायाति वट्टस्स अभिजाननत्थाय. सम्बोधायाति किलेसनिद्दाविगमेन वट्टतो पबुज्झनत्थाय. निब्बानायाति अमतनिब्बानत्थाय.

यथासमादिन्नं सिक्खापदं वीतिक्कमायाति यथासमादिन्नस्स सिक्खापदस्स वीतिक्कमनत्थाय. विभत्तिविपल्लासवसेन पनेत्थ उपयोगवचनं कतं. चित्तम्पि न उप्पादेतीति चित्तुप्पादसुद्धिया सीलस्स अतिविसुद्धभावदस्सनत्थं वुत्तं, न पन चित्तुप्पादमत्तेन सीलं भिज्जति. किं सो वीतिक्कमिस्सतीति किमत्थं वीतिक्कमं करिस्सति, नेव वीतिक्कमं करिस्सतीति अत्थो. अखण्डानीतिआदीनि हेट्ठा वुत्तपटिपक्खनयेन वेदितब्बानि. न खण्डानीतिपि पाठो. ‘‘एकन्तनिब्बिदाया’’तिआदीसु एकन्तेन वट्टे निब्बिन्दनत्थायातिआदिना नयेन योजेतब्बं. एत्थ पन निब्बिदायाति विपस्सना. विरागायाति मग्गो. निरोधाय उपसमायाति निब्बानं. अभिञ्ञाय सम्बोधायाति मग्गो. निब्बानायाति निब्बानमेव. एकस्मिं ठाने विपस्सना, द्वीसु मग्गो, तीसु निब्बानं वुत्तन्ति एवं अवत्थानकथा वेदितब्बा. परियायेन पन सब्बानिपेतानि मग्गवेवचनानिपि निब्बानवेवचनानिपि होन्तियेव.

३९. इदानि परियन्तापरियन्तवसेन विज्जमानपभेदं दस्सेत्वा पुन धम्मवसेन जातिवसेन पच्चयवसेन सम्पयुत्तवसेन सीलस्स पभेदं दस्सेतुं किं सीलन्तिआदिमाह. तत्थ समुट्ठाति एतेनाति समुट्ठानं. पच्चयस्सेतं नामं. किं समुट्ठानमस्साति किंसमुट्ठानं. कतिनं धम्मानं समोधानं समवायो अस्साति कतिधम्मसमोधानं.

चेतना सीलन्ति पाणातिपातादीहि विरमन्तस्स, वत्तपटिपत्तिं वा पूरेन्तस्स चेतना. चेतसिकं सीलन्ति पाणातिपातादीहि विरमन्तस्स विरति. अपिच चेतना सीलं नाम पाणातिपातादीनि पजहन्तस्स सत्तकम्मपथचेतना. चेतसिकं सीलं नाम ‘‘अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरती’’तिआदिना (दी. नि. १.२१७) नयेन वुत्ता अनभिज्झाअब्यापादसम्मादिट्ठिधम्मा. संवरो सीलन्ति एत्थ पञ्चविधो संवरो वेदितब्बो – पातिमोक्खसंवरो, सतिसंवरो, ञाणसंवरो, खन्तिसंवरो, वीरियसंवरोति. तत्थ ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो’’ति (विभ. ५११) अयं पातिमोक्खसंवरो. ‘‘रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जती’’ति (दी. नि. १.२१३; म. नि. १.२९५; सं. नि. ४.२३९; अ. नि. ३.१६) अयं सतिसंवरो.

‘‘यानि सोतानि लोकस्मिं, (अजिताति भगवा;)

सति तेसं निवारणं;

सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे’’ति. (सु. नि. १०४१) –

अयं ञाणसंवरो. पच्चयपटिसेवनम्पि एत्थेव समोधानं गच्छति. यो पनायं ‘‘खमो होति सीतस्स उण्हस्सा’’तिआदिना (म. नि. १.२४; अ. नि. ४.११४; ६.५८) नयेन आगतो, अयं खन्तिसंवरो नाम. यो चायं ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’तिआदिना (म. नि. १.२६; अ. नि. ४.११४; ६.५८) नयेन आगतो, अयं वीरियसंवरो नाम. आजीवपारिसुद्धिपि एत्थेव समोधानं गच्छति. इति अयं पञ्चविधोपि संवरो, या च पापभीरुकानं कुलपुत्तानं सम्पत्तवत्थुतो विरति, सब्बमेतं संवरसीलन्ति वेदितब्बं. अवीतिक्कमो सीलन्ति समादिन्नसीलस्स कायिकवाचसिको अवीतिक्कमो. इदं ताव किं सीलन्ति पञ्हस्स विस्सज्जनं.

कति सीलानीति पञ्हस्स विस्सज्जने कुसलसीलं अकुसलसीलं अब्याकतसीलन्ति एत्थ यस्मा लोके तेसं तेसं सत्तानं पकति सीलन्ति वुच्चति, यं सन्धाय ‘‘अयं सुखसीलो, अयं दुक्खसीलो, अयं कलहसीलो, अयं मण्डनसीलो’’ति भणन्ति. तस्मा तेन परियायेन अत्थुद्धारवसेन अकुसलसीलमपि सीलन्ति वुत्तं. तं पन ‘‘सुत्वान संवरे पञ्ञा’’ति (पटि. म. १.३७) वचनतो इधाधिप्पेतसीलं न होतीति.

यस्मा पन चेतनादिभेदस्स सीलस्स सम्पयुत्तचित्तं समुट्ठानं, तस्मा कुसलचित्तसमुट्ठानं कुसलसीलन्तिआदिमाह.

संवरसमोधानं सीलन्ति संवरसम्पयुत्तखन्धा. ते हि संवरेन समागता मिस्सीभूताति संवरसमोधानन्ति वुत्ता. एवं अवीतिक्कमसमोधानं सीलम्पि वेदितब्बं. तथाभावे जातचेतना समोधानं सीलन्ति संवरभावे अवीतिक्कमभावे जातचेतनासम्पयुत्ता खन्धा. यस्मा च तीसुपि चेतेसु तंसम्पयुत्ता धम्मा अधिप्पेता, तस्मा चेतनासमोधानेन चेतसिकानम्पि सङ्गहितत्ता चेतसिकसमोधानसीलं विसुं न निद्दिट्ठन्ति वेदितब्बं. हेट्ठा चेतनादयो धम्मा ‘‘सील’’न्ति वुत्ता. न केवलं ते एव सीलं, तंसम्पयुत्ता धम्मापि सीलमेवाति दस्सनत्थं अयं तिको वुत्तोति वेदितब्बो.

४०. इदानि यस्मा चेतनाचेतसिका संवरावीतिक्कमायेव होन्ति न विसुं, तस्मा संवरावीतिक्कमेयेव याव अरहत्तमग्गा साधारणक्कमेन योजेन्तो पाणातिपातं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलन्तिआदिमाह. पाणातिपाता वेरमणिआदयो हि यस्मा अत्तनो अत्तनो पच्चनीकं संवरन्ति, तं न वीतिक्कमन्ति च, तस्मा संवरणतो अवीतिक्कमनतो च संवरट्ठेन सीलं अवीतिक्कमट्ठेन सीलं नाम होति. तत्थ पाणातिपातं संवरट्ठेनाति पाणातिपातस्स पिदहनट्ठेन सीलं. किं तं? पाणातिपाता वेरमणी. सा च तं संवरन्तीयेव तं न वीतिक्कमतीति अवीतिक्कमट्ठेन सीलं. एवमेव अदिन्नादाना वेरमणिआदयो अनभिज्झाअब्यापादसम्मादिट्ठियो योजेतब्बा.

पाणातिपातन्तिआदीसु पन दससु अकुसलकम्मपथेसु पाणस्स अतिपातो पाणातिपातो. पाणवधो पाणघातोति वुत्तं होति. पाणोति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं. तस्मिं पन पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधकचेतना पाणातिपातो. सो गुणविरहितेसु तिरच्छानगतादीसु पाणेसु खुद्दके पाणे अप्पसावज्जो, महासरीरे महासावज्जो. कस्मा? पयोगमहन्तताय. पयोगसमत्तेपि वत्थुमहन्तताय. गुणवन्तेसु मनुस्सादीसु अप्पगुणे पाणे अप्पसावज्जो, महागुणे महासावज्जो. सरीरगुणानं पन समभावे सति किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जो, तिब्बताय महासावज्जोति वेदितब्बो. तस्स पञ्च सम्भारा – पाणो, पाणसञ्ञिता, वधकचित्तं, उपक्कमो, तेन मरणन्ति.

अदिन्नस्स आदानं अदिन्नादानं, परसंहरणं, थेय्यं, चोरिकाति वुत्तं होति. तत्थ अदिन्नन्ति परपरिग्गहितं, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो च होति, तस्मिं परपरिग्गहिते परपरिग्गहितसञ्ञिनो तदादायकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता थेय्यचेतना अदिन्नादानं. तं हीने परसन्तके अप्पसावज्जं, पणीते महासावज्जं. कस्मा? वत्थुपणीतताय. वत्थुसमत्ते सति गुणाधिकानं सन्तके वत्थुस्मिं महासावज्जं, तं तं गुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्जं. तस्स पञ्च सम्भारा – परपरिग्गहितं, परपरिग्गहितसञ्ञिता थेय्यचित्तं, उपक्कमो, तेन हरणन्ति.

कामेसूति मेथुनसमाचारेसु. मिच्छाचारोति एकन्तनिन्दितो लामकाचारो. लक्खणतो पन असद्धम्माधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्कमचेतना कामेसु मिच्छाचारो.

तत्थ अगमनीयट्ठानं नाम पुरिसानं ताव मातुरक्खिता, पितुरक्खिता, मातापितुरक्खिता, भातुरक्खिता, भगिनिरक्खिता, ञातिरक्खिता, गोत्तरक्खिता, धम्मरक्खिता, सारक्खा, सपरिदण्डाति मातुरक्खितादयो दस, धनक्कीता, छन्दवासिनी, भोगवासिनी, पटवासिनी, ओदपत्तकिनी, ओभतचुम्बटा, दासी च, भरिया च, कम्मकारी च भरिया च, धजाहटा मुहुत्तिकाति धनक्कीतादयो दसाति वीसति इत्थियो. इत्थीसु पन द्विन्नं सारक्खसपरिदण्डानं दसन्नञ्च धनक्कीतादीनन्ति द्वादसन्नं इत्थीनं अञ्ञे पुरिसा, इदं अगमनीयट्ठानं नाम.

सो पनेस मिच्छाचारो सीलादिगुणरहिते अगमनीयट्ठाने अप्पसावज्जो, सीलादिगुणसम्पन्ने महासावज्जो. तस्स चत्तारो सम्भारा – अगमनीयवत्थु, तस्मिं सेवनचित्तं, सेवनपयोगो, मग्गेनमग्गपटिपत्तिअधिवासनन्ति.

मुसाति विसंवादनपुरेक्खारस्स अत्थभञ्जको वचीपयोगो, कायपयोगो वा. विसंवादनाधिप्पायेन पनस्स परविसंवादककायवचीपयोगसमुट्ठापिका चेतना मुसावादो. अपरो नयो – मुसाति अभूतं अतच्छं वत्थु. वादोति तस्स भूततो तच्छतो विञ्ञापनं. लक्खणतो पन अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना मुसावादो. सो यमत्थं भञ्जति, तस्स अप्पताय अप्पसावज्जो, महन्तताय महासावज्जो. अपिच गहट्ठानं अत्तनो सन्तकं अदातुकामताय नत्थीतिआदिनयप्पवत्तो अप्पसावज्जो, सक्खिना हुत्वा अत्थभञ्जनत्थं वुत्तो महासावज्जो. पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा लभित्वा हसाधिप्पायेन ‘‘अज्ज गामे तेलं नदी मञ्ञे सन्दती’’ति पूरणकथानयेन पवत्तो अप्पसावज्जो, अदिट्ठंयेव पन दिट्ठन्तिआदिना नयेन वदन्तानं महासावज्जो. तस्स चत्तारो सम्भारा – अतथं वत्थु, विसंवादनचित्तं, तज्जो वायामो, परस्स तदत्थविजाननन्ति.

याय वाचाय यस्स तं वाचं भासति, तस्स हदये अत्तनो पियभावं, परस्स च सुञ्ञभावं करोति, सा पिसुणा वाचा. याय पन अत्तानम्पि परम्पि फरुसं करोति, या वाचा सयम्पि फरुसा नेव कण्णसुखा न हदयसुखा वा, अयं फरुसा वाचा. येन सम्फं पलपति निरत्थकं, सो सम्फप्पलापो. तेसं मूलभूता चेतनापि पिसुणावाचादिनाममेव लभति. सा एव च इध अधिप्पेताति.

तत्थ संकिलिट्ठचित्तस्स परेसं वा भेदाय अत्तनो पियकम्यताय वा कायवचीपयोगसमुट्ठापिका चेतना पिसुणा वाचा. सा यस्स भेदं करोति, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा. तस्सा चत्तारो सम्भारा – भिन्दितब्बो परो, ‘‘इति इमे नाना भविस्सन्ती’’ति भेदपुरेक्खारता वा ‘‘इति अहं पियो भविस्सामि विस्सासिको’’ति पियकम्यता वा, तज्जो वायामो, तस्स तदत्थविजाननन्ति. परे पन अभिन्ने कम्मपथभेदो नत्थि, भिन्नेयेव होति.

परस्स मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसचेतना फरुसा वाचा. मम्मच्छेदकोपि पन पयोगो चित्तसण्हताय फरुसा वाचा न होति. मातापितरो हि कदाचि पुत्तके एवम्पि वदन्ति ‘‘चोरा वो खण्डाखण्डिकं करोन्तू’’ति. उप्पलपत्तम्पि च नेसं उपरि पतन्तं न इच्छन्ति. आचरियुपज्झाया च कदाचि निस्सितके एवं वदन्ति ‘‘किं इमे अहिरिका अनोत्तप्पिनो, निद्धमथ ने’’ति. अथ च नेसं आगमाधिगमसम्पत्तिं इच्छन्ति. यथा च चित्तसण्हताय फरुसा वाचा न होति, एवं वचनसण्हताय अफरुसा वाचापि न होति. न हि मारापेतुकामस्स ‘‘इमं सुखं सयापेथा’’ति वचनं अफरुसा वाचा होति, चित्तफरुसताय पनेसा फरुसा वाचाव. सा यं सन्धाय पवत्तिता, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा. तस्सा तयो सम्भारा – अक्कोसितब्बो परो, कुपितचित्तं, अक्कोसनाति.

अनत्थविञ्ञापिका कायवचीपयोगसमुट्ठापिका अकुसलचेतना सम्फप्पलापो. सो आसेवनमन्दताय अप्पसावज्जो, आसेवनमहन्तताय महासावज्जो. तस्स द्वे सम्भारा – भारतयुद्धसीताहरणादिनिरत्थककथापुरेक्खारता, तथारूपिकथाकथनञ्चाति. परे पन तं कथं अगण्हन्ते कम्मपथभेदो नत्थि, परेन सम्फप्पलापे गहितेयेव होति.

अभिज्झायतीति अभिज्झा, परभण्डाभिमुखी हुत्वा तन्निन्नताय पवत्ततीति अत्थो. सा ‘‘अहो वत इदं ममस्सा’’ति एवं परभण्डाभिज्झायनलक्खणा, अदिन्नादानं विय अप्पसावज्जा महासावज्जा च. तस्स द्वे सम्भारा – परभण्डं, अत्तनो परिणामनञ्चाति. परभण्डवत्थुके हि लोभे उप्पन्नेपि न ताव कम्मपथभेदो होति, याव ‘‘अहो वत इदं ममस्सा’’ति अत्तनो न परिणामेति.

हितसुखं ब्यापादयतीति ब्यापादो. सो परविनासाय मनोपदोसलक्खणो, फरुसा वाचा विय अप्पसावज्जो महासावज्जो च. तस्स द्वे सम्भारा – परसत्तो च, तस्स च विनासचिन्ताति. परसत्तवत्थुके हि कोधे उप्पन्नेपि न ताव कम्मपथभेदो होति, याव ‘‘अहो वतायं उच्छिज्जेय्य विनस्सेय्या’’ति तस्स विनासं न चिन्तेति.

यथाभुच्चगहणाभावेन मिच्छा पस्सतीति मिच्छादिट्ठि. सा ‘‘नत्थि दिन्न’’न्तिआदिना नयेन विपरीतदस्सनलक्खणा, सम्फप्पलापो विय अप्पसावज्जा, महासावज्जा च. अपिच अनियता अप्पसावज्जा, नियता महासावज्जा. तस्सा द्वे सम्भारा – वत्थुनो च गहिताकारविपरीतता, यथा च तं गण्हाति, तथाभावेन तस्सूपट्ठानन्ति. तत्थ नत्थिकाहेतुकअकिरियदिट्ठीहि एव कम्मपथभेदो होति, न अञ्ञदिट्ठीहि.

इमेसं पन दसन्नं अकुसलकम्मपथानं धम्मतो, कोट्ठासतो, आरम्मणतो, वेदनातो, मूलतोति पञ्चहाकारेहि विनिच्छयो वेदितब्बो.

तत्थ धम्मतोति एतेसु हि सत्त पटिपाटिया चेतनाधम्माव होन्ति, अभिज्झादयो तयो चेतनासम्पयुत्ता.

कोट्ठासतोति पटिपाटिया सत्त, मिच्छादिट्ठि चाति इमे अट्ठ कम्मपथा एव होन्ति, नो मूलानि. अभिज्झाब्यापादा कम्मपथा चेव मूलानि च. अभिज्झा हि मूलं पत्वा लोभो अकुसलमूलं होति, ब्यापादो दोसो अकुसलमूलं.

आरम्मणतोति पाणातिपातो जीवितिन्द्रियारम्मणतो सङ्खारारम्मणो. अदिन्नादानं सत्तारम्मणं वा सङ्खारारम्मणं वा. मिच्छाचारो फोट्ठब्बवसेन सङ्खारारम्मणो, सत्तारम्मणोतिपि एके. मुसावादो सत्तारम्मणो वा सङ्खारारम्मणो वा. तथा पिसुणा वाचा. फरुसा वाचा सत्तारम्मणाव सम्फप्पलापो दिट्ठसुतमुतविञ्ञातवसेन सत्तारम्मणो वा सङ्खारारम्मणो वा. तथा अभिज्झा. ब्यापादो सत्तारम्मणोव. मिच्छादिट्ठि तेभूमकधम्मवसेन सङ्खारारम्मणाव.

वेदनातोति पाणातिपातो दुक्खवेदनो होति. किञ्चापि हि राजानो चोरं दिस्वा हसमानापि ‘‘गच्छथ भणे, मारेथ न’’न्ति वदन्ति, सन्निट्ठापकचेतना पन नेसं दुक्खसम्पयुत्ताव होति. अदिन्नादानं तिवेदनं. तञ्हि परभण्डं दिस्वा हट्ठतुट्ठस्स गण्हतो सुखवेदनं होति, भीततसितस्स गण्हतो दुक्खवेदनं, तथा विपाकनिस्सन्दफलानि पच्चवेक्खन्तस्स. गहणकाले मज्झत्तभावे ठितस्स पन गण्हतो अदुक्खमसुखवेदनं होति. मिच्छाचारो सुखमज्झत्तवसेन द्विवेदनो, सन्निट्ठापकचित्ते पन मज्झत्तवेदनो न होति. मुसावादो अदिन्नादाने वुत्तनयेनेव तिवेदनो, तथा पिसुणा वाचा. फरुसा वाचा दुक्खवेदना. सम्फप्पलापो तिवेदनो. परेसु हि साधुकारं देन्तेसु चेलादीनि उक्खिपन्तेसु हट्ठतुट्ठस्स सीताहरणभारतयुद्धादीनि कथनकाले सो सुखवेदनो होति, पठमं दिन्नवेतनेन एकेन पच्छा आगन्त्वा ‘‘आदितो पट्ठाय कथेही’’ति वुत्ते ‘‘निरवसेसं यथानुसन्धिकं पकिण्णककथं कथेस्सामि नु खो, नो’’ति दोमनस्सितस्स कथनकाले दुक्खवेदनो होति, मज्झत्तस्स कथयतो अदुक्खमसुखवेदनो होति. अभिज्झा सुखमज्झत्तवसेन द्विवेदना, तथा मिच्छादिट्ठि. ब्यापादो दुक्खवेदनो.

मूलतोति पाणातिपातो दोसमोहवसेन द्विमूलको होति, अदिन्नादानं दोसमोहवसेन वा लोभमोहवसेन वा, मिच्छाचारो लोभमोहवसेन, मुसावादो दोसमोहवसेन वा लोभमोहवसेन वा. तथा पिसुणा वाचा सम्फप्पलापो च. फरुसा वाचा दोसमोहवसेन, अभिज्झा मोहवसेन एकमूला, तथा ब्यापादो. मिच्छादिट्ठि लोभमोहवसेन द्विमूलाति.

अकुसलकम्मपथकथा निट्ठिता.

पाणातिपातादीहि पन विरतियो, अनभिज्झाअब्यापादसम्मादिट्ठियो चाति इमे दस कुसलकम्मपथा नाम. पाणातिपातादीहि एताय विरमन्ति, सयं वा विरमति, विरमणमत्तमेव वा एतन्ति विरति. या पाणातिपातादीहि विरमन्तस्स कुसलचित्तसम्पयुत्ता विरति, सा पभेदतो तिविधा होति सम्पत्तविरति समादानविरति समुच्छेदविरतीति. तत्थ असमादिन्नसिक्खापदानं अत्तनो जातिवयबाहुसच्चादीनि पच्चवेक्खित्वा ‘‘अयुत्तं अम्हाकं एवरूपं पापं कातु’’न्ति सम्पत्तवत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति सम्पत्तविरति नाम. समादिन्नसिक्खापदानं पन सिक्खापदसमादाने च ततुत्तरि च अत्तनो जीवितम्पि परिच्चजित्वा वत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति समादानविरति नाम. अरियमग्गसम्पयुत्ता पन विरति समुच्छेदविरति नाम, यस्सा उप्पत्तितो पभुति अरियपुग्गलानं ‘‘पाणं घातेस्सामा’’तिआदिचित्तम्पि न उप्पज्जतीति.

इदानि अकुसलकम्मपथानं विय इमेसं कुसलकम्मपथानं धम्मतो, कोट्ठासतो, आरम्मणतो, वेदनातो, मूलतोति पञ्चहाकारेहि विनिच्छयो वेदितब्बो.

तत्थ धम्मतोति एतेसुपि पटिपाटिया सत्त चेतनापि वट्टन्ति विरतियोपि, अन्ते तयो चेतनासम्पयुत्ताव.

कोट्ठासतोति पटिपाटिया सत्त कम्मपथा एव, नो मूलानि, अन्ते तयो कम्मपथा चेव मूलानि च. अनभिज्झा हि मूलं पत्वा अलोभो कुसलमूलं होति, अब्यापादो अदोसो कुसलमूलं, सम्मादिट्ठि अमोहो कुसलमूलं.

आरम्मणतोति पाणातिपातादीनं आरम्मणानेव एतेसं आरम्मणानि. वीतिक्कमितब्बतोयेव हि वेरमणी नाम होति. यथा पन निब्बानारम्मणो अरियमग्गो किलेसे पजहति, एवं जीवितिन्द्रियादिआरम्मणापेते कम्मपथा पाणातिपातादीनि दुस्सील्यानि पजहन्तीति.

वेदनातोति सब्बे सुखवेदना वा होन्ति मज्झत्तवेदना वा. कुसलं पत्वा हि दुक्खा वेदना नाम नत्थि.

मूलतोति पटिपाटिया सत्त ञाणसम्पयुत्तचित्तेन विरमन्तस्स अलोभअदोसअमोहवसेन तिमूला होन्ति. ञाणविप्पयुत्तचित्तेन विरमन्तस्स अलोभादोसवसेन द्विमूला. अनभिज्झा ञाणसम्पयुत्तचित्तेन विरमन्तस्स अदोसअमोहवसेन द्विमूला. ञाणविप्पयुत्तचित्तेन विरमन्तस्स अदोसवसेन एकमूला. अलोभो पन अत्तनाव अत्तनो मूलं न होति. अब्यापादेपि एसेव नयो. सम्मादिट्ठि अलोभादोसवसेन द्विमूलावाति.

कुसलकम्मपथकथा निट्ठिता.

४१. एवं दसकुसलकम्मपथवसेन सीलं दस्सेत्वा इदानि नेक्खम्मादीनं अरहत्तमग्गपरियोसानानं सत्ततिंसधम्मानं वसेन दस्सेतुं नेक्खम्मेन कामच्छन्दं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलन्तिआदिमाह. तत्थ यस्मा नेक्खम्मेन कामच्छन्दं संवरति न वीतिक्कमति, तस्मा नेक्खम्मं सीलन्ति अधिप्पायो. पच्चत्तत्थे वा करणवचनं, नेक्खम्मन्ति अत्थो. एस नयो सेसेसु. पाळियं पन नेक्खम्मअब्यापादे दस्सेत्वा हेट्ठा वुत्तनयत्ता सेसं सङ्खिपित्वा अन्ते अरहत्तमग्गोयेव दस्सितो.

एवं संवरअवीतिक्कमवसेन सीलं दस्सेत्वा इदानि तेसंयेव द्विन्नं पभेददस्सनत्थं पञ्च सीलानि पाणातिपातस्स पहानं सीलन्तिआदिमाह. एत्थ च पाणातिपातस्स पहानं सीलं, पाणातिपाता वेरमणी सीलं, पाणातिपातस्स पटिपक्खचेतना सीलं, पाणातिपातस्स संवरो सीलं, पाणातिपातस्स अवीतिक्कमो सीलन्ति योजना कातब्बा. पहानन्ति च कोचि धम्मो नाम नत्थि अञ्ञत्र वुत्तप्पकारानं पाणातिपातादीनं अनुप्पादमत्ततो. यस्मा पन तं तं पहानं तस्स तस्स कुसलस्स धम्मस्स पतिट्ठानट्ठेन उपधारणं होति, विप्पकिण्णसभावाकरणेन च समोधानं, तस्मा पुब्बे वुत्तेनेव उपधारणसमोधानसङ्खातेन सीलनट्ठेन सीलन्ति वुत्तं. इतरे चत्तारो धम्मा ततो ततो वेरमणिवसेन तस्स तस्स संवरवसेन तदुभयसम्पयुत्तचेतनावसेन तं तं अवीतिक्कमन्तस्स अवीतिक्कमवसेन च चेतसो पवत्तिसभावं सन्धाय वुत्ता.

अथ वा पहानम्पि धम्मतो अत्थियेव. कथं? पहीयते अनेन पाणातिपातादिपटिपक्खो, पजहति वा तं पटिपक्खन्ति पहानं. किं तं? सब्बेपि कुसला खन्धा. अञ्ञे पन आचरिया ‘‘नेक्खम्मादीसुपि ‘वेरमणी सील’न्ति वचनमत्तं गहेत्वा सब्बकुसलेसुपि नियतयेवापनकभूता विरति नाम अत्थी’’ति वदन्ति, न तथा इधाति. एवमिमेहि पहानादीहि पञ्चहि पदेहि विसेसेत्वा परियन्तापरियन्तसीलद्वये अपरियन्तसीलमेव वुत्तं. तस्मा एव हि एवरूपानि सीलानि चित्तस्स अविप्पटिसाराय संवत्तन्ति…पे… सच्छिकातब्बं सच्छिकरोन्तो सिक्खतीति वुत्तं.

तत्थ अविप्पटिसाराय संवत्तन्तीति ‘‘संवरो अविप्पटिसारत्थाया’’ति (परि. ३६६) च ‘‘अविप्पटिसारत्थानि खो, आनन्द, कुसलानि सीलानि अविप्पटिसारानिसंसानी’’ति (अ. नि. १०.१; ११.१) च वचनतो अविप्पटिसारत्थाय संवत्तन्ति. ‘‘अविप्पटिसारो पामोज्जत्थाया’’ति (परि. ३६६) च ‘‘योनिसो मनसिकरोतो पामोज्जं जायती’’ति (पटि. म. १.७४) च वचनतो पामोज्जाय संवत्तन्ति. ‘‘पामोज्जं पीतत्थाया’’ति (परि. ३६६) च ‘‘पमुदितस्स पीति जायती’’ति (अ. नि. ५.२६; सं. नि. ५.३७६; दी. नि. ३.३२२) च वचनतो पीतिया संवत्तन्ति. ‘‘पीति पस्सद्धत्थाया’’ति (परि. ३६६) च ‘‘पीतिमनस्स कायो पस्सम्भती’’ति (अ. नि. ५.२६; सं. नि. ५.३७६; दी. नि. ३.३२२) च वचनतो पस्सद्धिया संवत्तन्ति. ‘‘पस्सद्धि सुखत्थाया’’ति (परि. ३६६) च ‘‘पस्सद्धकायो सुखं वेदेती’’ति (अ. नि. ५.२६; सं. नि. ५.३७६; दी. नि. ३.३२२) च वचनतो सोमनस्साय संवत्तन्ति. चेतसिकं सुखञ्हि सोमनस्सन्ति वुच्चति. आसेवनायाति भुसा सेवना आसेवना. कस्स आसेवना? अनन्तरं सोमनस्सवचनेन सुखस्स वुत्तत्ता सुखं सिद्धं. ‘‘सुखिनो चित्तं समाधियती’’ति (अ. नि. ५.२६; सं. नि. ५.३७६; दी. नि. ३.३२२) च वचनतो तेन सुखेन समाधि सिद्धो होति. एवं सिद्धस्स समाधिस्स आसेवना. तस्स समाधिस्स आसेवनाय संवत्तन्ति, पगुणबलवभावाय संवत्तन्तीति अत्थो. भावनायाति तस्सेव समाधिस्स वुद्धिया. बहुलीकम्मायाति तस्सेव समाधिस्स पुनप्पुनं किरियाय. अविप्पटिसारादिपवत्तिया मूलकारणं हुत्वा समाधिस्स सद्धिन्द्रियादिअलङ्कारसाधनेन अलङ्काराय संवत्तन्ति. अविप्पटिसारादिकस्स समाधिसम्भारस्स साधनेन परिक्खाराय संवत्तन्ति. ‘‘ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा’’तिआदीसु (म. नि. १.१९२) विय हि एत्थ सम्भारत्थो परिक्खारसद्दो. ‘‘रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो’’तिआदीसु (सं. नि. ३.५४) पन अलङ्कारत्थो. ‘‘सत्तहि नगरपरिक्खारेहि सुपरिक्खतं होती’’तिआदीसु (अ. नि. ७.६७) परिवारत्थो. इध पन अलङ्कारपरिवारानं विसुं आगतत्ता सम्भारत्थोति वुत्तं. सम्भारत्थो च पच्चयत्थोति. मूलकारणभावेनेव समाधिसम्पयुत्तफस्सादिधम्मसम्पत्तिसाधनेन परिवाराय संवत्तन्ति. समाधिस्स विपस्सनाय च पदट्ठानभावपापनेन वसीभावपापनेन च परिपुण्णभावसाधनतो पारिपूरिया संवत्तन्ति.

एवं सीलूपनिस्सयेन सब्बाकारपरिपूरं समाधिं दस्सेत्वा इदानि ‘‘समाहिते चित्ते यथाभूतं जानाति पस्सति, यथाभूतं जानं पस्सं निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चती’’ति (पटि. म. १.७३; दी. नि. ३.३५९) वचनतो सीलमूलकानि समाधिपदट्ठानानि यथाभूतञाणदस्सनादीनि दस्सेन्तो एकन्तनिब्बिदायातिआदिमाह. निब्बिदाय हि दस्सिताय तस्सा पदट्ठानभूतं यथाभूतञाणदस्सनं दस्सितमेव होति. तस्मिञ्हि असिद्धे निब्बिदा न सिज्झतीति. तानि पन वुत्तत्थानेव. यथाभूतञाणदस्सनं पनेत्थ सप्पच्चयनामरूपपरिग्गहो.

एवं अमतमहानिब्बानपरियोसानं सीलप्पयोजनं दस्सेत्वा इदानि तस्स सीलस्स अधिसीलसिक्खाभावं तम्मूलका च अधिचित्तअधिपञ्ञासिक्खा दस्सेतुकामो एवरूपानं सीलानं संवरपारिसुद्धि अधिसीलन्तिआदिमाह. तत्थ संवरोयेव पारिसुद्धि संवरपारिसुद्धि. एवरूपानं अपरियन्तभूतानं विवट्टनिस्सितानं सीलानं संवरपारिसुद्धि विवट्टनिस्सितत्ता सेससीलतो अधिकं सीलन्ति अधिसीलन्ति वुच्चति. संवरपारिसुद्धिया ठितं चित्तन्ति एदिसाय सीलसंवरपारिसुद्धिया पतिट्ठितं चित्तं सुट्ठु अविप्पटिसारादीनं आवहनतो न विक्खेपं गच्छति, समाधिस्मिं पतिट्ठातीति अत्थो. अविक्खेपोयेव पारिसुद्धि अविक्खेपपारिसुद्धि. सो सब्बमलविरहितो निब्बेधभागियो समाधि सेससमाधितो अधिकत्ता अधिचित्तन्ति वुच्चति. चित्तसीसेन हेत्थ समाधि निद्दिट्ठो. संवरपारिसुद्धिं सम्मा पस्सतीति परिसुद्धं सीलसंवरं ञातपरिञ्ञावसेन तीरणपरिञ्ञावसेन च सम्मा पस्सति, एवमेव अविक्खेपपारिसुद्धिसङ्खातं परिसुद्धं समाधिं सम्मा पस्सति. एवं पस्सतो चस्स दस्सनसङ्खाता पारिसुद्धि दस्सनपारिसुद्धि. सायेव सेसपञ्ञाय अधिकत्ता अधिपञ्ञाति वुच्चति. यो तत्थाति यो तत्थ संवरअविक्खेपदस्सनेसु. संवरट्ठोति संवरभावो. एवमेव अविक्खेपट्ठदस्सनट्ठा च वेदितब्बा. अधिसीलमेव सिक्खा अधिसीलसिक्खा. एवं इतरापि वेदितब्बा.

एवं तिस्सो सिक्खायो दस्सेत्वा इदानि तासं पारिपूरिक्कमं दस्सेतुं इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खतीतिआदिमाह. तस्सत्थो – पच्चेकं परिपूरेतुं आवज्जन्तोपि सिक्खति नाम, आवज्जेत्वा ‘‘अयं नाम सिक्खा’’ति जानन्तोपि सिक्खति नाम, जानित्वा पुनप्पुनं पस्सन्तोपि सिक्खति नाम, पस्सित्वा यथादिट्ठं पच्चवेक्खन्तोपि सिक्खति नाम, पच्चवेक्खित्वा तत्थेव चित्तं अचलं कत्वा पतिट्ठपेन्तोपि सिक्खति नाम, तंतंसिक्खासम्पयुत्तसद्धावीरियसतिसमाधिपञ्ञाहि सकसककिच्चं करोन्तोपि सिक्खति नाम, अभिञ्ञेय्याभिजाननादिकालेपि तं तं किच्चं करोन्तो तिस्सोपि सिक्खायो सिक्खति नामाति. पुन पञ्च सीलानीतिआदीनि वुत्तत्थानेव. अरहत्तमग्गेन सब्बकिलेसानन्तिआदीसु पन अरहन्तानं सुट्ठु विप्पटिसारादिअभावतो आसेवनादिभावतो च तानि पदानि युज्जन्तेव. एकन्तनिब्बिदायातिआदीनि पन सतिपट्ठानसम्मप्पधानानि विय मग्गक्खणेयेव योजेतब्बानि.

४२. संवरपारिसुद्धिं सम्मा पस्सति, अविक्खेपपारिसुद्धिं सम्मा पस्सतीति इदं पन वचनद्वयं फलसमापत्तत्थाय विपस्सनावसेन योजेतब्बं, दुतियवचनं पन निरोधसमापत्तत्थाय विपस्सनावसेनापि युज्जति. आवज्जन्तो सिक्खतीतिआदीसु पञ्चसु वचनेसु अरहतो सिक्खितब्बाभावेपि असेक्खसीलक्खन्धादिसभावतो ‘‘सिक्खती’’ति वुत्तन्ति वेदितब्बं. सद्धाय अधिमुच्चन्तो सिक्खतीतिआदीनि पन मग्गक्खणञ्ञेव सन्धाय वुत्तानि. अञ्ञानिपि उपचारप्पनाविपस्सनामग्गवसेन वुत्तानि वचनानि यथायोगं योजेतब्बानीति.

सीलमयञाणनिद्देसवण्णना निट्ठिता.