३. समाधिभावनामयञाणनिद्देसवण्णना
४३. समाधिभावनामयञाणनिद्देसे आदितो ताव एककतो पट्ठाय याव दसका समाधिप्पभेदं दस्सेन्तो एको समाधीतिआदिमाह. तत्थ चित्तस्स एकग्गताति नानारम्मणविक्खेपाभावतो एकं आरम्मणं अग्गं उत्तमं अस्साति एकग्गो, एकग्गस्स भावो एकग्गता. सा पन एकग्गता चित्तस्स, न सत्तस्साति दस्सनत्थं ‘‘चित्तस्सा’’ति वुत्तं. दुके लोकियोति लोको वुच्चति लुज्जनपलुज्जनट्ठेन वट्टं, तस्मिं परियापन्नभावेन लोके नियुत्तोति लोकियो. लोकुत्तरोति उत्तिण्णोति उत्तरो, लोके अपरियापन्नभावेन लोकतो उत्तरोति लोकुत्तरो. तिके सवितक्को च सो सविचारो चाति सवितक्कसविचारो. एवं अवितक्कअविचारो. वितक्कविचारेसु विचारोव मत्ता पमाणं एतस्साति विचारमत्तो, विचारतो उत्थरि वितक्केन सद्धिं सम्पयोगं न गच्छतीति अत्थो. अवितक्को च सो विचारमत्तो चाति अवितक्कविचारमत्तो. तीसुपि विच्छेदं कत्वापि पठन्ति. चतुक्कपञ्चका वुत्तत्था. छक्के पुनप्पुनं उप्पज्जनतो सतियेव अनुस्सति, पवत्तितब्बट्ठानम्हियेव वा पवत्तत्ता सद्धापब्बजितस्स कुलपुत्तस्स अनुरूपा सतीतिपि अनुस्सति, बुद्धं आरब्भ उप्पन्ना अनुस्सति बउद्धानुस्सति. अरहतादिबुद्धगुणारम्मणाय सतिया एतं अधिवचनं. तस्सा बुद्धानुस्सतिया वसेन चित्तस्स एकग्गतायेव उद्धच्चसङ्खातस्स विक्खेपस्स पटिपक्खभावतो न विक्खेपोति अविक्खेपो. धम्मं आरब्भ उप्पन्ना अनुस्सति धम्मानुस्सति. स्वाक्खाततादिधम्मगुणारम्मणाय सतिया एतं अधिवचनं. सङ्घं आरब्भ उप्पन्ना अनुस्सति सङ्घानुस्सति. सुप्पटिपन्नतादिसङ्घगुणारम्मणाय सतिया एतं अधिवचनं. सीलं आरब्भ उप्पन्ना अनुस्सति सीलानुस्सति. अत्तनो अखण्डतादिसीलगुणारम्मणाय सतिया एतं अधिवचनं. चागं आरब्भ उप्पन्ना अनुस्सति चागानुस्सति. अत्तनो मुत्तचागतादिचागगुणारम्मणाय सतिया एतं अधिवचनं. देवता आरब्भ उप्पन्ना अनुस्सति देवतानुस्सति. देवता सक्खिट्ठाने ठपेत्वा अत्तनो सद्धादिगुणारम्मणाय सतिया एतं अधिवचनं.
सत्तके समाधिकुसलताति एकविधादिभेदेन अनेकभेदे समाधिम्हि ‘‘अयमेवंविधो समाधि, अयमेवंविधो समाधी’’ति छेकभावो. समाधिपरिच्छेदकपञ्ञायेतं अधिवचनं. समाधिउप्पादनविधानेपि छेकभावो समाधिकुसलता.
समाधिस्स समापत्तिकुसलताति उप्पादितस्स समाधिस्स समापज्जने छेकभावो. एतेन समापज्जनवसिता वुत्ता होति.
समाधिस्स ठितिकुसलताति समापन्नस्स समाधिस्स सन्ततिवसेन यथारुचि ठपने छेकभावो. एतेन अधिट्ठानवसिता वुत्ता होति. अथ वा निमित्तग्गहणेन चस्स पुन ते आकारे सम्पादयतो अप्पनामत्तमेव इज्झति, न चिरट्ठानं. चिरट्ठानं पन समाधिपरिपन्थानं धम्मानं सुविसोधितत्ता होति. यो हि भिक्खु कामादीनवपच्चवेक्खणादीहि कामच्छन्दं न सुट्ठु विक्खम्भेत्वा, कायपस्सद्धिवसेन कायदुट्ठुल्लं न सुप्पटिप्पस्सद्धं कत्वा, आरम्भधातुमनसिकारादिवसेन थिनमिद्धं न सुट्ठु पटिविनोदेत्वा, समथनिमित्तमनसिकारादिवसेन उद्धच्चकुक्कुच्चं न सुट्ठु समूहतं कत्वा, अञ्ञेपि समाधिपरिपन्थे धम्मे न सुट्ठु विसोधेत्वा झानं समापज्जति, सो अविसोधितं आसयं पविट्ठभमरो विय, असुद्धं उय्यानं पविट्ठराजा विय च खिप्पमेव निक्खमति. यो पन समाधिपरिपन्थे धम्मे सुट्ठु विसोधेत्वा झानं समापज्जति, सो सुविसोधितं आसयं पविट्ठभमरो विय, सुपरिसुद्धं उय्यानं पविट्ठराजा विय च सकलम्पि दिवसभागं अन्तोसमापत्तियंयेव होति. तेनाहु पोराणा –
‘‘कामेसु छन्दं पटिघं विनोदये, उद्धच्चथीनं विचिकिच्छपञ्चमं;
विवेकपामोज्जकरेन चेतसा, राजाव सुद्धन्तगतो तहिं रमे’’ति .
तस्मा ‘‘चिरट्ठितिकामेन पारिपन्थिकधम्मे सोधेत्वा झानं समापज्जितब्ब’’न्ति वुत्तत्ता तं विधिं सम्पादेत्वा समाधिस्स चिरट्ठितिकरणे छेकभावोति वुत्तं होति.
समाधिस्स वुट्ठानकुसलताति सन्ततिवसेन यथारुचि पवत्तस्स समाधिस्स यथापरिच्छिन्नकालेयेव वुट्ठानेन समाधिस्स वुट्ठाने छेकभावो. ‘‘यस्स हि धम्मं पुरिसो विजञ्ञा’’तिआदीसु (जा. १.१०.१५२) विय निस्सक्कत्थे वा सामिवचनं कतन्ति वेदितब्बन्ति. एतेन वुट्ठानवसिता वुत्ता होति.
समाधिस्स कल्लताकुसलताति अगिलानभावो अरोगभावो कल्लता. गिलानो हि अकल्लकोति वुच्चति. विनयेपि वुत्तं ‘‘नाहं, भन्ते, अकल्लको’’ति (पारा. १५१). अनङ्गणसुत्तवत्थसुत्तेसु (म. नि. १.५७ आदयो, ७० आदयो) वुत्तानं झानपटिलाभपच्चनीकानं पापकानं इच्छावचरानं अभावेन च अभिज्झादीनं चित्तस्स उपक्किलेसानं विगमेन च समाधिस्स अगिलानभावकरणे छेकभावो समाधिस्स कल्लताकुसलता, किलेसगेलञ्ञरहितभावे कुसलताति वुत्तं होति. अथ वा कल्लताति कम्मञ्ञता कम्मञ्ञतापरियायत्ता कल्लवचनस्स. ‘‘या चित्तस्स अकल्लता अकम्मञ्ञता’’ति (ध. स. ११६२) हि वुत्तं ‘‘कल्लचित्तं मुदुचित्तं विनीवरणचित्त’’न्ति (दी. नि. १.२९८; म. नि. २.३९५; महाव. २६) च. एत्थ कल्लसद्दो कम्मञ्ञत्थो. तस्मा कसिणानुलोमतो कसिणपटिलोमतो कसिणानुलोमपटिलोमतो झानानुलोमतो झानपटिलोमतो झानानुलोमपटिलोमतो झानुक्कन्तिकतो कसिणुक्कन्तिकतो झानकसिणुक्कन्तिकतो अङ्गसङ्कन्तितो आरम्मणसङ्कन्तितो अङ्गारम्मणसङ्कन्तितो अङ्गववत्थानतो आरम्मणववत्थानतोति इमेहि चुद्दसहि आकारेहि, अङ्गारम्मणववत्थानतोति इमिना सह पञ्चदसहि वा आकारेहि चित्तपरिदमनेन समाधिस्स कम्मञ्ञभावकरणे कुसलभावोति वुत्तं होति.
समाधिस्स गोचरकुसलताति समाधिस्स गोचरेसु कसिणादीसु आरम्मणेसु तं तं झानं समापज्जितुकामताय यथारुचि आवज्जनकरणवसेन तेसु आरम्मणेसु छेकभावो. एतेन कसिणावज्जनवसेन आवज्जनवसिता वुत्ता होति. अथ वा तस्मिं तस्मिं दिसाभागे कसिणफरणवसेन एवं फुट्ठस्स कसिणस्स चिरट्ठानवसेन च समाधिस्स गोचरेसु छेकभावो.
समाधिस्स अभिनीहारकुसलताति एकत्तनयेन हेट्ठाहेट्ठासमाधिं उपरूपरिसमाधिभावूपनयनेन अभिनीहरणे अभिनिन्नामने छेकभावो. उपचारज्झानञ्हि वसिप्पत्तं पठमज्झानत्थाय विपस्सनत्थाय वा अभिनीहरति, एवं पठमज्झानादीनि दुतियज्झानादिअत्थाय विपस्सनत्थाय वा, चतुत्थज्झानं अरूपसमापत्तत्थाय अभिञ्ञत्थाय विपस्सनत्थाय वा, आकासानञ्चायतनादयो विञ्ञाणञ्चायतनादिअत्थाय विपस्सनत्थाय वा अभिनीहरतीति एवं समाधिस्स तत्थ तत्थ अभिनीहारकुसलता. यस्मा पन कुसलता नाम पञ्ञा, सा समाधि न होति, तस्मा समाधिपरिणायकपञ्ञावसेन सत्तविधो समाधि वुत्तोति वेदितब्बो.
केचि पन आचरिया ‘‘समाधिकुसलताति येन मनसिकारेन चित्तं न विक्खिपति, तत्थ कुसलता. समापत्तिकुसलताति येन मनसिकारेन समापज्जन्तस्स झानङ्गानि पातुभवन्ति, तत्थ कुसलता. ठितिकुसलताति येन मनसिकारेन अप्पितो समाधि न विक्खिपति, तत्थ कुसलता. वुट्ठानकुसलताति नीवरणवुट्ठानं जानाति पठमज्झाने, अङ्गवुट्ठानं जानाति तीसु झानेसु, आरम्मणवुट्ठानं जानाति अरूपसमापत्तीसु, विक्खेपवुट्ठानं जानाति विसयाधिमत्तेसु, सच्छन्दवुट्ठानं जानाति परियन्तकाले च अवसानकरणीयकाले च. कल्लताकुसलताति चित्तफासुताय सरीरफासुताय आहारफासुताय सेनासनफासुताय पुग्गलफासुताय च समाधिस्स कल्लता होतीति जानाति. गोचरकुसलताति आरम्मणस्स परिच्छेदं कातुं जानाति, दिसाफरणं कातुं जानाति, वड्ढेतुं जानाति. अभिनीहारकुसलताति तत्थ तत्थ सम्मा मनसिकारेन चित्तं अभिनीहरति अभिनिन्नामेति, उपचारे वसिप्पत्ते पठमज्झाने अभिनीहरति, एवं उपरूपरिझानेसु अभिञ्ञासु अरूपसमापत्तीसु विपस्सनासु च अभिनीहरति. एवं तत्थ तत्थ अभिनीहारकुसलता’’ति एवमेतेसं पदानं अत्थं वण्णयन्ति.
अट्ठकं वुत्तत्थमेव. नवके रूपावचरोति ‘‘कतमे धम्मा रूपावचरा? हेट्ठतो ब्रह्मपारिसज्जं परियन्तं करित्वा उपरितो अकनिट्ठे देवे अन्तोकरित्वा’’तिआदिना (ध. स. १२८९) नयेन वुत्तेसु रूपावचरधम्मेसु परियापन्नो. तत्रायं वचनत्थो – रूपक्खन्धसङ्खातं रूपं एत्थ अवचरति, न कामोति रूपावचरो. रूपक्खन्धोपि हि रूपन्ति वुच्चति ‘‘रूपक्खन्धो रूप’’न्तिआदीसु (यम. १.खन्धयमक.२) विय. सो पन ब्रह्मपारिसज्जब्रह्मपुरोहितमहाब्रह्मानं परित्ताभअप्पमाणाभआभस्सरानं परित्तसुभअप्पमाणसुभसुभकिण्हानं असञ्ञसत्तवेहप्फलानं अविहातप्पसुदस्ससुदस्सीअकनिट्ठानञ्च वसेन सोळसविधो पदेसो. सो रूपावचरसङ्खातो पदेसो उत्तरपदलोपं कत्वा ‘‘रूप’’न्ति वुच्चति, तस्मिं रूपे अवचरतीति रूपावचरो. रूपभवो वा रूपं, तस्मिं अवचरतीति रूपावचरं. किञ्चापि हि एसो समाधि कामभवेपि अवचरति, यथा पन सङ्गामे अवचरणतो सङ्गामावचरोति लद्धनामो नागो नगरे चरन्तोपि सङ्गामावचरोति वुच्चति, थलचरा जलचरा च पाणिनो अथले अजले च ठितापि थलचरा जलचराति वुच्चन्ति, एवमयं अञ्ञत्थ अवचरन्तोपि रूपावचरोति वुत्तो. अपिच रूपभवसङ्खाते रूपे पटिसन्धिं अवचारेतीतिपि रूपावचरो. हीनोति लामको. हीनुत्तमानं मज्झे भवो मज्झो. मज्झिमोतिपि पाठो, सोयेवत्थो. पधानभावं नीतो पणीतो, उत्तमोति अत्थो. एते पन आयूहनवसेन वेदितब्बा. यस्स हि आयूहनक्खणे छन्दो वा हीनो होति वीरियं वा चित्तं वा वीमंसा वा, सो हीनो नाम. यस्स ते धम्मा मज्झिमा, सो मज्झिमो. यस्स पणीता, सो पणीतो. उप्पादितमत्तो वा हीनो, नातिसुभावितो मज्झिमो, अतिसुभावितो वसिप्पत्तो पणीतो. अरूपावचरो रूपावचरे वुत्तनयानुसारेन वेदितब्बो.
सुञ्ञतो समाधीतिआदीसु ‘‘सब्बे सङ्खारा अनिच्चा दुक्खा अनत्ता’’ति विपस्सनापटिपाटिया विपस्सन्तस्स अनत्तानुपस्सनाय मग्गवुट्ठाने जाते यस्मा सा विपस्सना अत्तविरहितेसु सङ्खारेसु सुञ्ञतो पवत्ता, तस्मा सुञ्ञता नाम होति. ताय सिद्धो अरियमग्गसमाधि सुञ्ञतो समाधि नाम होति, सुञ्ञतवसेन पवत्तसमाधीति अत्थो. विपस्सनाय पवत्ताकारेन हि सो पवत्तति. अनिच्चानुपस्सनाय मग्गवुट्ठाने जाते यस्मा सा विपस्सना निच्चनिमित्तपटिपक्खवसेन पवत्ता, तस्मा अनिमित्ता नाम होति. ताय सिद्धो अरियमग्गसमाधि अनिमित्तो समाधि नाम होति, निच्चनिमित्तविरहितो समाधीति अत्थो. विपस्सनाय पवत्ताकारेन हि सो पवत्तति. दुक्खानुपस्सनाय मग्गवुट्ठाने जाते यस्मा सा विपस्सना पणिधिपटिपक्खवसेन पवत्ता, तस्मा अप्पणिहिता नाम होति. ताय सिद्धो अरियमग्गसमाधि अप्पणिहितो समाधि नाम होति, पणिधिविरहितो समाधीति अत्थो. विपस्सनाय पवत्ताकारेन हि सो पवत्तति. तादिसा एव तयो फलसमाधयोपि एतेहियेव तीहि समाधीहि गहिता होन्तीति वेदितब्बा. लोकुत्तरसमाधीनं पन पणीतत्ता हीनादिभेदो न उद्धटो.
दसके उद्धुमातकसञ्ञावसेनातिआदीसु भस्ता विय वायुना उद्धं जीवितपरियादाना यथानुक्कमं समुग्गतेन सूनभावेन उद्धुमातत्ता उद्धुमातं, उद्धुमातमेव उद्धुमातकं, पटिकूलत्ता वा कुच्छितं उद्धुमातन्ति उद्धुमातकं. तथारूपस्स छवसरीरस्सेतं अधिवचनं. विनीलं वुच्चति विपरिभिन्नवण्णं, विनीलमेव विनीलकं, पटिकूलत्ता वा कुच्छितं विनीलन्ति विनीलकं. मंसुस्सदट्ठानेसु रत्तवण्णस्स, पुब्बसन्निचयट्ठानेसु सेतवण्णस्स, येभुय्येन च नीलवण्णस्स नीलट्ठाने नीलसाटकपारुतस्सेव छवसरीरस्सेतं अधिवचनं. परिभिन्नट्ठानेसु विस्सन्दमानपुब्बं विपुब्बं, विपुब्बमेव विपुब्बकं, पटिकूलत्ता वा कुच्छितं विपुब्बन्ति विपुब्बकं. तथारूपस्स छवसरीरस्सेतं अधिवचनं. विच्छिद्दं वुच्चति द्विधा छिन्दनेन अपधारितं, विच्छिद्दमेव विच्छिद्दकं, पटिकूलत्ता वा कुच्छितं विच्छिद्दन्ति विच्छिद्दकं. वेमज्झे छिन्नस्स छवसरीरस्सेतं अधिवचनं. इतो च एत्तो च विविधाकारेन सोणसिङ्गालादीहि खायितन्ति विक्खायितं, विखायितन्ति वत्तब्बे विक्खायितन्ति वुत्तं. विक्खायितमेव विक्खायितकं, पटिकूलत्ता वा कुच्छितं विक्खायितन्ति विक्खायितकं. तथारूपस्स छवसरीरस्सेतं अधिवचनं. विविधं खित्तं विक्खित्तं, विक्खित्तमेव विक्खित्तकं, पटिकूलत्ता वा कुच्छितं विक्खित्तन्ति विक्खित्तकं. अञ्ञेन हत्थं अञ्ञेन पादं अञ्ञेन सीसन्ति एवं ततो ततो खित्तस्स छवसरीरस्सेतं अधिवचनं. हतञ्च तं पुरिमनयेनेव विक्खित्तकञ्चाति हतविक्खित्तकं. काकपदाकारेन अङ्गपच्चङ्गेसु सत्थेन हनित्वा वुत्तनयेन विक्खित्तस्स छवसरीरस्सेतं अधिवचनं. लोहितं किरति विक्खिपति इतो चितो च पग्घरतीति लोहितकं. पग्घरितलोहितमक्खितस्स छवसरीरस्सेतं अधिवचनं. पुळवा वुच्चन्ति किमयो, पुळवे किरतीति पुळवकं. किमिपरिपुण्णस्स छवसरीरस्सेतं अधिवचनं. अट्ठियेव अट्ठिकं, पटिकूलत्ता वा कुच्छितं अट्ठीति अट्ठिकं. अट्ठिसङ्खलिकायपि एकट्ठिकस्सपि एतं अधिवचनं. इमानि च पन उद्धुमातकादीनि निस्साय उप्पन्ननिमित्तानम्पि निमित्तेसु पटिलद्धज्झानानम्पि एतानेव नामानि. इध पन उद्धुमातकनिमित्ते पटिकूलाकारगाहिका अप्पनावसेन उप्पन्ना सञ्ञा उद्धुमातकसञ्ञा, तस्सा उद्धुमातकसञ्ञाय वसेन उद्धुमातकसञ्ञावसेन. सेसेसुपि एसेव नयो. पञ्चपञ्ञास समाधीति एककादिवसेन वुत्ता.
४४. एवं एककादिवसेन समाधिप्पभेदं दस्सेत्वा इदानि अञ्ञेनपि परियायेन समाधिं दस्सेतुकामो अपिचाति अञ्ञं परियायारम्भं दस्सेत्वा पञ्चवीसतीतिआदिमाह. तत्थ समाधिस्स समाधिट्ठाति समाधिस्स समाधिभावे सभावा, येहि सभावेहि सो समाधि होति, ते तस्मिं अत्था नाम. परिग्गहट्ठेन समाधीति सद्धादीहि इन्द्रियेहि परिग्गहितत्ता तस्मा परिग्गहितसभावेन समाधि. तानेव च इन्द्रियानि अञ्ञमञ्ञपरिवारानि होन्ति, भावनापारिपूरिया परिपुण्णानि च होन्ति. तस्मा परिवारट्ठेन परिपूरट्ठेन समाधि. तेसंयेव समाधिवसेन एकारम्मणमपेक्खित्वा एकग्गट्ठेन, नानारम्मणविक्खेपाभावमपेक्खित्वा अविक्खेपट्ठेन, लोकुत्तरस्सेव महता वीरियबलपग्गहेन पत्तब्बत्ता लोकुत्तरमग्गस्सेव च परिहानिवसेन विसाराभावतो हेट्ठा गहितपग्गहट्ठअविसारट्ठा इध न गहिताति वेदितब्बा. किलेसकालुस्सियस्साभावेन अनाविलट्ठेन समाधि. अविकम्पत्ता अनिञ्जनट्ठेन समाधि. विक्खम्भनवसेन समुच्छेदवसेन वा किलेसेहि विमुत्तत्ता आरम्मणे च अधिमुत्तत्ता विमुत्तट्ठेन समाधि.
एकत्तुपट्ठानवसेन चित्तस्स ठितत्ताति समाधियोगेनेव एकारम्मणे भुसं पतिट्ठानवसेन चित्तस्स आरम्मणे निच्चलभावेन पतिट्ठितत्ता. अट्ठसु युगलेसु एसति नेसति, आदियति नादियति, पटिपज्जति न पटिपज्जतीति इमानि तीणि युगलानि अप्पनावीथितो पुब्बभागे उपचारस्स मुदुमज्झाधिमत्ततावसेन वुत्तानीति वेदितब्बानि, झायति झापेतीति इदं अप्पनावीथियं उपचारवसेन वेदितब्बं. एसितत्ता नेसितत्ता, आदिन्नत्ता अनादिन्नत्ता, पटिपन्नत्ता नप्पटिपन्नत्ता, झातत्ता न झापितत्ताति इमानि चत्तारि युगलानि अप्पनावसेन वुत्तानीति वेदितब्बानि.
तत्थ समं एसतीति समाधीतिआदीसु समन्ति अप्पनं. सा हि पच्चनीकधम्मे समेति नासेतीति समा, पच्चनीकविसमाभावतो वा समभूताति समा. तं समं एसति अज्झासयवसेन गवेसति. इतिसद्दो कारणत्थो, यस्मा समं एसति, तस्मा समाधीति अत्थो. विसमं नेसतीति तं तं झानपच्चनीकसङ्खातं विसमं न एसति. मुदुभूतो हि पुब्बभागसमाधि आदिभूतत्ता समं एसति, विसमं नेसति नाम. मज्झिमभूतो थिरभूतत्ता समं आदियति, विसमं नादियति नाम. अधिमत्तभूतो अप्पनावीथिया आसन्नभूतत्ता समं पटिपज्जति, विसमं नप्पटिपज्जति नाम. समं झायतीति भावनपुंसकवचनं, समं हुत्वा झायति, समेन वा आकारेन झायतीति अत्थो. अप्पनावीथियञ्हि समाधि पच्चनीकधम्मविगमेन सन्तत्ता, सन्ताय अप्पनाय अनुकूलभावेन च ठितत्ता समेनाकारेन पवत्तति. झायतीति च पज्जलतीति अत्थो ‘‘एते मण्डलमाळे दीपा झायन्ति (दी. नि. १.१५९) सब्बरत्तिं, सब्बरत्तियो च तेलप्पदीपो झायति, तेलप्पदीपो चेत्थ झायेय्या’’तिआदीसु (सं. नि. ४.२५५-२५६) विय. समं जायतीतिपि पाठो, समेनाकारेन उप्पज्जतीति अत्थो. झायति झापेतीति युगलत्ता पन पुरिमपाठोव सुन्दरतरो. झापेतीति च दहतीति अत्थो. सो हि समाधिपच्चनीकधम्मे दूरतरकरणेन दहति नाम. एसनानेसनादीनं पन अप्पनाय सिद्धत्ता ‘‘एसितत्ता नेसितत्ता’’तिआदीहि अप्पनासमाधि वुत्तो. समं झातत्ताति समं जलितत्ता. समं जातत्तातिपि पाठो. इति इमेसं अट्ठन्नं युगलानं वसेन सोळस, पुरिमा च नवाति इमे पञ्चवीसति समाधिस्स समाधिट्ठा.
समो च हितो च सुखो चाति समाधीति इदं पन पञ्चवीसतिया आकारेहि साधितस्स समाधिस्स अत्थसाधनत्थं वुत्तं. तत्थ समोति समसद्दस्स, संसद्दस्स वा अत्थो. सो हि पच्चनीकक्खोभविसमविरहितत्ता समो. हितोति आधिसद्दस्स अत्थो, आरम्मणे आहितो निच्चलभावकरणेन पतिट्ठापितोति अधिप्पायो. उभयेन समो च आहितो चाति समाधीति वुत्तं होति. सुखोति सन्तट्ठेन सुखो. ‘‘यायं, भन्ते, अदुक्खमसुखा वेदना, सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति (म. नि. २.८८) च ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता’’ति च वुत्तत्ता तेन सन्तत्थेन सुखसद्देन उपेक्खासहगतसमाधिपि गहितो होति. अनियामेन हि सब्बसमाधयो इध वुच्चन्ति. तेन च सुखसद्देन आहितभावस्स कारणं वुत्तं होति. यस्मा सन्तो, तस्मा एकारम्मणे आहितोति अधिप्पायो वेदितब्बोति.
समाधिभावनामयञाणनिद्देसवण्णना निट्ठिता.