१९. धम्मनानत्तञाणनिद्देसवण्णना

७३. धम्मनानत्तञाणनिद्देसे कम्मपथेति कम्मानि च तानि पथा च अपायगमनायाति कम्मपथा, ते कम्मपथे. दस कुसलकम्मपथा नाम पाणातिपाता अदिन्नादाना कामेसुमिच्छाचारा वेरमणीति तीणि कायसुचरितानि, मुसावादा पिसुणाय वाचाय फरुसाय वाचाय सम्फप्पलापा वेरमणीति चत्तारि वचीसुचरितानि, अनभिज्झा अब्यापादो सम्मादिट्ठीति तीणि मनोसुचरितानि. दस अकुसलकम्मपथा नाम पाणातिपातो अदिन्नादानं कामेसुमिच्छाचारोति तीणि कायदुच्चरितानि, मुसावादो पिसुणा वाचा फरुसा वाचा सम्फप्पलापोति चत्तारि वचीदुच्चरितानि, अभिज्झा ब्यापादो मिच्छादिट्ठीति तीणि मनोदुच्चरितानि. कुसलाकुसलापि च पटिसन्धिजनकायेव कम्मपथाति वुत्ता, वुत्तावसेसा पटिसन्धिजनने अनेकन्ति कत्ता कम्मपथाति न वुत्ता. ओळारिककुसलाकुसलगहणेनेव सेसकुसलाकुसलापि गहिताति वेदितब्बा. रूपन्ति भूतोपादायभेदतो अट्ठवीसतिविधं रूपं. विपाकन्ति कामावचरकुसलविपाकानं सोळसन्नं, अकुसलविपाकानं सत्तन्नञ्च वसेन तेवीसतिविधं विपाकं. किरियन्ति तिण्णमहेतुककिरियानं, अट्ठन्नं सहेतुककिरियानञ्च वसेन एकादसविधं कामावचरकिरियं. विपाकाभावतो किरियामत्ताति किरिया. एत्तावता कामावचरमेव रूपाब्याकतविपाकाब्याकतकिरियाब्याकतवसेन वुत्तं.

इधट्ठस्साति इमस्मिं लोके ठितस्स. येभुय्येन मनुस्सलोके झानभावनासब्भावतो मनुस्सलोकवसेन वुत्तं, झानानि पन कदाचि करहचि देवलोकेपि लब्भन्ति, रूपीब्रह्मलोकेपि तत्रूपपत्तिकहेट्ठूपपत्तिकउपरूपपत्तिकानं वसेन लब्भन्ति. सुद्धावासे पन अरूपावचरे च हेट्ठूपपत्तिका नत्थि. रूपारूपावचरेसु अभावितज्झाना हेट्ठा निब्बत्तमाना कामावचरसुगतियंयेव निब्बत्तन्ति, न दुग्गतियं. तत्रूपपन्नस्साति विपाकवसेन ब्रह्मलोके उपपन्नस्स पटिसन्धिभवङ्गचुतिवसेन वत्तमानानि चत्तारि विपाकज्झानानि. रूपारूपावचरज्झानसमापत्तीसु किरियाब्याकतानि न वुत्तानि. किञ्चापि न वुत्तानि, अथ खो कुसलेहि समानपवत्तित्ता कुसलेसु वुत्तेसु वुत्तानेव होन्तीति वेदितब्बानि. यथा पट्ठाने ‘‘कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’’ति (पट्ठा. १.१.४०६, ४०९) कुसलजवनग्गहणेनेव किरियजवनं सङ्गहितं, एवमिधापि दट्ठब्बं. सामञ्ञफलानीति चत्तारि सामञ्ञफलानि. एतेन लोकुत्तरविपाकाब्याकतं वुत्तं. निब्बानन्ति निब्बानाब्याकतं.

पामोज्जमूलकाति पामोज्जं मूलं आदि एतेसन्ति पामोज्जमूलका, पामोज्जादिकाति अत्थो. पामोज्जेन हि समागतानेव होन्ति. अनिच्चतो मनसिकरोतो पामोज्जं जायतीति एत्थ योनिसोमनसिकरोतोयेव पामोज्जं जायति, न अयोनिसोमनसिकरोतो. अयोनिसोमनसिकरोतो कुसलुप्पत्तियेव नत्थि, पगेव विपस्सना. कस्मा सरूपेन वुत्तन्ति चे? पामोज्जस्स बलवभावदस्सनत्थं. पामोज्जे हि असति पन्तेसु च सेनासनेसु अधिकुसलेसु च धम्मेसु अरति उक्कण्ठिता उप्पज्जति. एवं सति भावनायेव उक्कमति. पामोज्जे पन सति अरतिअभावतो भावनापारिपूरिं गच्छति. योनिसोमनसिकारस्स पन मूलभावेन भावनाय बहूपकारत्तं दस्सेतुं उपरि नवकं वक्खति.

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४) –

वचनतो विपस्सकस्स विपस्सनापच्चया पामोज्जं उप्पज्जति. इध पन कलापसम्मसनपच्चया पामोज्जं गहेतब्बं. पमुदितस्स भावो पामोज्जं, दुब्बला पीति. आदिकम्मत्थे प-कारो दट्ठब्बो. पमुदितस्साति तेन पामोज्जेन पमुदितस्स तुट्ठस्स. पमोदितस्सातिपि पाठो. सोयेवत्थो. पीतीति बलवपीति. पीतिमनस्साति पीतियुत्तमनस्स. युत्तसद्दस्स लोपो दट्ठब्बो यथा अस्सरथोति. कायोति नामकायो, रूपकायेन सह वा. पस्सम्भतीति वूपसन्तदरथो होति. पस्सद्धकायोति उभयपस्सद्धियोगेन निब्बुतकायो. सुखं वेदेतीति चेतसिकं सुखं विन्दति, कायिकसुखेन सह वा. सुखिनोति सुखसमङ्गिस्स. चित्तं समाधियतीति चित्तं समं आधियति, एकग्गं होति. समाहिते चित्तेति भावेनभावलक्खणत्थे भुम्मवचनं. चित्तसमाहितभावेन हि यथाभूतजाननं लक्खीयति. यथाभूतं पजानातीति उदयब्बयञाणादिवसेन सङ्खारं यथासभावं जानाति. पस्सतीति तंयेव चक्खुना दिट्ठं विय फुटं कत्वा पञ्ञाचक्खुना पस्सति. निब्बिन्दतीति नवविधविपस्सनाञाणयोगेन सङ्खारेसु उक्कण्ठति. निब्बिन्दं विरज्जतीति तं विपस्सनं सिखं पापेन्तो मग्गञाणयोगेन सङ्खारेहि विरत्तो होति. विरागा विमुच्चतीति विरागसङ्खातमग्गहेतु फलविमुत्तिया निब्बाने अधिमोक्खेन विमुच्चति. केसुचि पन पोत्थकेसु इमस्मिं वारे ‘‘समाहितेन चित्तेन इदं दुक्खन्ति यथाभूतं पजानाती’’तिआदि सच्चनयो लिखितो, सोपि च केसुचि पोत्थकेसु ‘‘इदं दुक्खन्ति योनिसो मनसि करोती’’तिआदिना नयेन लिखितो. वारद्वयेपि ब्यञ्जनतोयेव विसेसो, न अत्थतो. ‘‘निब्बिन्दं विरज्जती’’ति हि मग्गञाणस्स वुत्तत्ता मग्गञाणे च सिद्धे चतुसच्चाभिसमयकिच्चं सिद्धमेव होति. तस्मा चतुसच्चनयेन वुत्तवारोपि इमिना वारेन अत्थतो अविसिट्ठोयेव.

७४. इदानि अनिच्चतोतिआदीहि आरम्मणस्स अविसेसेत्वा वुत्तत्ता आरम्मणं विसेसेन्तो रूपं अनिच्चतो मनसि करोतीतिआदिमाह. योनिसोमनसिकारमूलकाति योनिसोमनसिकारो मूलं पतिट्ठा एतेसन्ति योनिसोमनसिकारमूलका. योनिसोमनसिकारं मुञ्चित्वायेव हि पामोज्जादयो नव न होन्ति. समाहितेन चित्तेनाति कारणभूतेन चित्तेन. यथाभूतं पजानातीति पञ्ञाय पजानाति. ‘‘इदं दुक्खन्ति योनिसो मनसि करोती’’ति वुच्चमाने अनुस्सववसेन पुब्बभागसच्चानुबोधोपि सङ्गय्हति. योनिसोमनसिकारोति च उपायेन मनसिकारो.

धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तन्ति चक्खादिधातुनानत्तं पटिच्च चक्खुसम्फस्सादिनानत्तं उप्पज्जतीति अत्थो. फस्सनानत्तं पटिच्चाति चक्खुसम्फस्सादिनानत्तं पटिच्च. वेदनानानत्तन्ति चक्खुसम्फस्सजादिवेदनानानत्तं. सञ्ञानानत्तन्ति कामसञ्ञादिनानत्तं. सङ्कप्पनानत्तन्ति कामसङ्कप्पादिनानत्तं. छन्दनानत्तन्ति सङ्कप्पनानत्तताय रूपे छन्दो सद्दे छन्दोति एवं छन्दनानत्तं उप्पज्जति. परिळाहनानत्तन्ति छन्दनानत्तताय रूपपरिळाहो सद्दपरिळाहोति एवं परिळाहनानत्तं उप्पज्जति. परियेसनानानत्तन्ति परिळाहनानत्तताय रूपपरियेसनादिनानत्तं उप्पज्जति. लाभनानत्तन्ति परियेसनानानत्तताय रूपपटिलाभादिनानत्तं उप्पज्जतीति.

धम्मनानत्तञाणनिद्देसवण्णना निट्ठिता.