१५. वत्थुनानत्तञाणनिद्देसवण्णना
६६. वत्थुनानत्तञाणनिद्देसे चक्खुं अज्झत्तं ववत्थेतीति अज्झत्तभूतं चक्खुं ववत्थपेति. यथा सो चक्खुं ववत्थपेति, तथा वत्तुकामो कथं चक्खुं अज्झत्तं ववत्थेतीति पुच्छित्वा पुन चक्खु अविज्जासम्भूतन्ति ववत्थेतीतिआदिना ववत्थापनाकारं दस्सेति. तत्थ अविज्जातण्हा अतीता उपत्थम्भकहेतुयो, कम्मं अतीतं जनकहेतु, आहारो इदानि उपत्थम्भकहेतु. एतेन चक्खूपत्थम्भकानि उतुचित्तानि गहितानेव होन्ति. चतुन्नं महाभूतानं उपादायाति उपयोगत्थे सामिवचनं, चत्तारि महाभूतानि उपादियित्वा पवत्तन्ति अत्थो. एतेन पसादचक्खुभावो दस्सितो होति, ससम्भारभावो पटिक्खित्तो. उप्पन्नन्ति अद्धावसेन, सन्ततिखणवसेन वा पच्चुप्पन्नं. समुदागतन्ति हेतुतो समुट्ठितं. एत्तावता विपस्सनापुब्बभागे चक्खुववत्थानं दस्सितं. अहुत्वा सम्भूतन्तिआदीहि अनिच्चानुपस्सना. पुब्बे उदया अविज्जमानतो अहुत्वा सम्भूतं, उद्धं वया अभावतो हुत्वा न भविस्सति. अन्तवन्ततोति अन्तो अस्स अत्थीति अन्तवा, अन्तवा एव अन्तवन्तो यथा ‘‘सतिमन्तो, गतिमन्तो, धितिमन्तो च यो इसी’’ति (थेरगा. १०५२). ततो अन्तवन्ततो, भङ्गविज्जमानतोति अत्थो. अद्धुवन्ति सब्बावत्थानिपातिताय, थिरभावस्स च अभावताय न थिरं. असस्सतन्ति न निच्चं. विपरिणामधम्मन्ति जराय चेव मरणेन चाति द्वेधा विपरिणामपकतिकं. चक्खु अनिच्चन्तिआदीनि चक्खुं अनिच्चतोतिआदीनि च वुत्तत्थानि. मनोति इध भवङ्गमनस्स अधिप्पेतत्ता अविज्जासम्भूतोतिआदि युज्जतियेव. आहारसम्भूतोति एत्थ सम्पयुत्तफस्साहारमनोसञ्चेतनाहारवसेन वेदितब्बं. उप्पन्नोति च अद्धासन्ततिवसेन.
वत्थुनानत्तञाणनिद्देसवण्णना निट्ठिता.