१६. गोचरनानत्तञाणनिद्देसवण्णना
६७. गोचरनानत्तञाणनिद्देसे रूपे बहिद्धा ववत्थेतीति अज्झत्ततो बहिद्धाभूते रूपायतनधम्मे ववत्थपेतीति अत्थो. अविज्जासम्भूतातिआदि अत्तभावपरियापन्नकम्मजरूपत्ता वुत्तं. आहारोपि हि कम्मजरूपस्स उपत्थम्भकपच्चयो होति. सद्दस्स पन उतुचित्तसमुट्ठानत्ता अविज्जासम्भूतादिचतुक्कं न वुत्तं. फोट्ठब्बानं सयं महाभूतत्ता ‘‘चतुन्नं महाभूतानं उपादाया’’ति न वुत्तं. धम्माति चेत्थ भवङ्गमनोसम्पयुत्ता तयो अरूपिनो खन्धा, धम्मायतनपरियापन्नानि सुखुमरूपानि च कम्मसमुट्ठानानि, सब्बानिपि रूपादीनि च. अपिच यानि यानि येन येन समुट्ठहन्ति, तानि तानि तेन तेन वेदितब्बानि. इतरथा हि सकसन्तानपरियापन्नापि रूपादयो धम्मा सब्बे न सङ्गण्हेय्युं. यस्मा अनिन्द्रियबद्धरूपादयोपि विपस्सनूपगा, तस्मा तेसं कम्मसम्भूतपदेन सङ्गहो वेदितब्बो. तेपि हि सब्बसत्तसाधारणकम्मपच्चयउतुसमुट्ठाना. अञ्ञे पन ‘‘अनिन्द्रियबद्धा रूपादयो अविपस्सनूपगा’’ति वदन्ति. तं पन –
‘‘सब्बे सङ्खारा अनिच्चाति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति. (ध. प. २७७) –
आदिकाय पाळिया विरुज्झति. वुत्तञ्च विसुद्धिमग्गे – ‘‘इधेकच्चो आदितोव अज्झत्तसङ्खारे अभिनिविसित्वा विपस्सति, यस्मा पन न सुद्धअज्झत्तदस्सनमत्तेनेव मग्गवुट्ठानं होति, बहिद्धापि दट्ठब्बमेव, तस्मा परस्स खन्धेपि अनुपादिन्नसङ्खारेपि अनिच्चं दुक्खमनत्ताति विपस्सती’’ति (विसुद्धि. २.७८४). तस्मा परेसं चक्खादिववत्थानम्पि अनिन्द्रियबद्धरूपादिववत्थानम्पि इच्छितब्बमेव, तस्मा तेभूमकसङ्खारा अविपस्सनूपगा नाम नत्थि.
गोचरनानत्तञाणनिद्देसवण्णना निट्ठिता.