१४. पच्चवेक्खणञाणनिद्देसवण्णना
६५. पच्चवेक्खणञाणनिद्देसे मग्गक्खणेयेव हेतुट्ठेन पठमं मग्गङ्गानि विसुं विसुं वत्वा पुन मग्गङ्गभूते च अमग्गङ्गभूते च धम्मे ‘‘बुज्झनट्ठेन बोधी’’ति लद्धनामस्स अरियस्स अङ्गभावेन बोज्झङ्गे विसुं दस्सेसि. सतिधम्मविचयवीरियसमाधिसम्बोज्झङ्गा हि मग्गङ्गानेव, पीतिपस्सद्धिउपेक्खासम्बोज्झङ्गा अमग्गङ्गानि. पुन बलवसेन इन्द्रियवसेन च विसुं निद्दिट्ठेसु सद्धा एव अमग्गङ्गभूता. पुन मग्गक्खणे जातेयेव धम्मे रासिवसेन दस्सेन्तो आधिपतेय्यट्ठेनातिआदिमाह. तत्थ उपट्ठानट्ठेन सतिपट्ठानाति एकाव निब्बानारम्मणा सति कायवेदनाचित्तधम्मेसु सुभसुखनिच्चअत्तसञ्ञापहानकिच्चसाधनवसेन चत्तारो सतिपट्ठाना नाम. निब्बानारम्मणं एकमेव वीरियं उप्पन्नानुप्पन्नानं अकुसलानं पहानानुप्पत्तिकिच्चस्स, अनुप्पन्नुप्पन्नानं कुसलानं उप्पादट्ठितिकिच्चस्स साधनवसेन चत्तारो सम्मप्पधाना नाम.
तथट्ठेन सच्चाति दुक्खभावादीसु अविसंवादकट्ठेन चत्तारि अरियसच्चानि. एतानेव चेत्थ पटिवेधट्ठेन तदा समुदागतानि, ‘‘अमतोगधं निब्बान’’न्ति विसुं वुत्तं निब्बानञ्च, सेसा पन धम्मा पटिलाभट्ठेन तदा समुदागता. ‘‘तथट्ठेन सच्चा तदा समुदागता’’ति वचनतो मग्गफलपरियोसाने अवस्सं चत्तारि सच्चानि पच्चवेक्खतीति निट्ठमेत्थ गन्तब्बं. ‘‘कतं करणीयं नापरं इत्थत्तायाति पजानाती’’ति (दी. नि. १.२४८) वचनतो च ‘‘दुक्खं मे परिञ्ञातं, समुदयो मे पहीनो, निरोधो मे सच्छिकतो, मग्गो च मे भावितो’’ति पच्चवेक्खणं वुत्तमेव होति. तथा पच्चवेक्खणं युज्जति च. समुदयोति चेत्थ तंतंमग्गवज्झोयेव वेदितब्बो. एत्थ वुत्तसमुदयपच्चवेक्खणवसेनेव अट्ठकथायं दुविधं किलेसपच्चवेक्खणं मग्गफलनिब्बानपच्चवेक्खणानि इध सरूपेनेव आगतानीति वुत्तानि. केवलं दुक्खपच्चवेक्खणमेव न वुत्तं. किञ्चापि न वुत्तं, अथ खो पाठसब्भावतो युत्तिसब्भावतो च गहेतब्बमेव. सच्चपटिवेधत्थञ्हि पटिपन्नस्स निट्ठिते सच्चपटिवेधे सयं कतकिच्चपच्चवेक्खणं युत्तमेवाति. अविक्खेपट्ठेन समथोतिआदि मग्गसम्पयुत्ते एव समथविपस्सनाधम्मे एकरसट्ठेन अनतिवत्तनट्ठेन च दस्सेतुं वुत्तं. संवरट्ठेन सीलविसुद्धीति सम्मावाचाकम्मन्ताजीवा एव. अविक्खेपट्ठेन चित्तविसुद्धीति सम्मासमाधि एव. दस्सनट्ठेन दिट्ठिविसुद्धीति सम्मादिट्ठियेव. विमुत्तट्ठेनाति समुच्छेदवसेन मग्गवज्झकिलेसेहि मुच्चनट्ठेन, निब्बानारम्मणे वा अधिमुच्चनट्ठेन. विमोक्खोति समुच्छेदविमोक्खो, अरियमग्गोयेव. पटिवेधट्ठेन विज्जाति सच्चपटिवेधट्ठेन विज्जा, सम्मादिट्ठियेव. परिच्चागट्ठेन विमुत्तीति मग्गवज्झकिलेसानं पजहनट्ठेन ततो मुच्चनतो विमुत्ति, अरियमग्गोयेव. समुच्छेदट्ठेन खये ञाणन्ति किलेससमुच्छिन्दनट्ठेन किलेसक्खयकरे अरियमग्गे ञाणं, सम्मादिट्ठियेव.
छन्दादयो हेट्ठा वुत्तनयेनेव वेदितब्बा. केवलञ्हेत्थ मग्गक्खणेयेव मग्गस्स आदिमज्झपरियोसानाकारेन दस्सिता. विमुत्तीति चेत्थ मग्गविमुत्तियेव. ‘‘तथट्ठेन सच्चा’’ति एत्थ गहितम्पि च निब्बानं इध परियोसानभावदस्सनत्थं पुन वुत्तन्ति वेदितब्बं. फलक्खणेपि एसेव नयो. एत्थ पन हेतुट्ठेन मग्गोति फलमग्गभावेनेव. सम्मप्पधानाति मग्गक्खणे चतुकिच्चसाधकस्स वीरियकिच्चस्स फलस्स उप्पादक्खणे सिद्धत्ता वुत्तन्ति वेदितब्बं. अञ्ञथा हि फलक्खणे सम्मप्पधाना एव न लब्भन्ति. वुत्तञ्हि मग्गक्खणे सत्ततिंस बोधिपक्खियधम्मे उद्धरन्तेन थेरेन ‘‘फलक्खणे ठपेत्वा चत्तारो सम्मप्पधाने अवसेसा तेत्तिंस धम्मा लब्भन्ती’’ति. एवमेव पटिवेधकिच्चादिसिद्धिवसेन सच्चादीनिपि यथायोगं वेदितब्बानि. विमोक्खोति च फलविमोक्खो. विमुत्तीति फलविमुत्ति. पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं वुत्तत्थमेव. वुट्ठहित्वाति अन्तरा वुट्ठानाभावा फलावसानेन एवं वुत्तं. इमे धम्मा तदा समुदागताति इमे वुत्तप्पकारा धम्मा मग्गक्खणे फलक्खणे च समुदागताति पच्चवेक्खतीति इति-सद्दं पाठसेसं कत्वा सम्बन्धो वेदितब्बो.
पच्चवेक्खणञाणनिद्देसवण्णना निट्ठिता.