१२. फलञाणनिद्देसवण्णना

६३. फलञाणनिद्देसे तंपयोगप्पटिप्पस्सद्धत्ताति तस्स अज्झत्तबहिद्धा वुट्ठानपयोगस्स पटिप्पस्सद्धत्ता. मग्गो हि सकक्खणे किलेसप्पहानेन उभतो वुट्ठानपयोगं करोति नाम, फलक्खणे किलेसानं पहीनत्ता मग्गस्स उभतो वुट्ठानपयोगो पटिप्पस्सद्धो वूपसन्तो नाम होति. उप्पज्जतीति मग्गानन्तरं सकिं वा द्विक्खत्तुं वा उप्पज्जति, फलसमापत्तिकाले पन बहुक्खत्तुं, निरोधा वुट्ठहन्तस्स द्विक्खत्तुं उप्पज्जति, सब्बम्पि हि तं पयोगप्पटिप्पस्सद्धत्ता उप्पज्जति. मग्गस्सेतं फलन्ति फलं अपेक्खित्वा नपुंसकवचनं कतं. सकदागामिमग्गक्खणादीसुपि एकेकमग्गङ्गवसेनेव वुट्ठानयोजना वेदितब्बा.

फलञाणनिद्देसवण्णना निट्ठिता.