११. मग्गञाणनिद्देसवण्णना
६१. मग्गञाणनिद्देसे मिच्छादिट्ठिया वुट्ठातीति दिट्ठानुसयप्पहानेन समुच्छेदवसेन द्वासट्ठिभेदतो मिच्छादिट्ठितो वुट्ठाति. तदनुवत्तककिलेसेहीति मिच्छादिट्ठिसम्पयोगवसेन च मिच्छादिट्ठिउपनिस्सयेन च उप्पज्जमानेहि मिच्छादिट्ठिअनुवत्तमानेहि नानाविधेहि किलेसेहि. तेन तदेकट्ठकिलेसप्पहानं वुत्तं होति. दुविधञ्हि एकट्ठं सहजेकट्ठं पहानेकट्ठञ्च. ताय दिट्ठिया सह एकस्मिं चित्ते, एकस्मिं पुग्गले वा याव पहाना ठिताति तदेकट्ठा. दिट्ठिया हि पहीयमानाय दिट्ठिसम्पयुत्तेसु द्वीसु असङ्खारिकचित्तेसु ताय दिट्ठिया सहजाता लोभो मोहो उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे किलेसा, द्वीसु ससङ्खारिकचित्तेसु ताय दिट्ठिया सहजाता लोभो मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे किलेसा सहजेकट्ठवसेन पहीयन्ति. दिट्ठिकिलेसेयेव पहीयमाने तेन सह एकस्मिं पुग्गले ठिता अपायगमनीया लोभो दोसो मोहो मानो विचिकिच्छा थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे किलेसा पहानेकट्ठवसेन पहीयन्ति. खन्धेहीति तदनुवत्तकेहेव खन्धेहि, तं दिट्ठिं अनुवत्तमानेहि सहजेकट्ठेहि च पहानेकट्ठेहि च चतूहि अरूपक्खन्धेहि, तंसमुट्ठानरूपेहि वा सह पञ्चहि खन्धेहि मिच्छादिट्ठिआदिकिलेसपच्चया अनागते उप्पज्जितब्बेहि विपाकक्खन्धेहि. बहिद्धा च सब्बनिमित्तेहीति यथावुत्तकिलेसक्खन्धतो बहिभूतेहि सब्बसङ्खारनिमित्तेहि. मिच्छासङ्कप्पा वुट्ठातीति सोतापत्तिमग्गेन पहातब्बेसु चतूसु दिट्ठिसम्पयुत्तेसु, विचिकिच्छासहगते चाति पञ्चसु चित्तेसु अपायगमनीयसेसाकुसलचित्तेसु च मिच्छासङ्कप्पा वुट्ठाति.
मिच्छावाचाय वुट्ठातीति मुसावादतो चेव अपायगमनीयपिसुणफरुससम्फप्पलापेहि च वुट्ठाति. मिच्छाकम्मन्ता वुट्ठातीति पाणातिपातादिन्नादानमिच्छाचारेहि वुट्ठाति. मिच्छाआजीवा वुट्ठातीति कुहना लपना नेमित्तिकता निप्पेसिकता लाभेनलाभंनिजिगीसनता, आजीवहेतुकेहि वा सत्तहिपि कायवचीकम्मेहि वुट्ठाति. मिच्छावायाममिच्छासतिमिच्छासमाधीहि वुट्ठानं मिच्छासङ्कप्पवुट्ठाने वुत्तनयेनेव वेदितब्बं. मिच्छासतीति च सतिया पटिपक्खाकारेन उप्पज्जमाना अकुसलचित्तुप्पादमत्तमेव. उपरिमग्गत्तये ‘‘दस्सनट्ठेन सम्मादिट्ठी’’तिआदीनि अट्ठ मग्गङ्गानि यथा पठमज्झानिके पठममग्गे लब्भन्ति, तथेव लब्भन्ति. तत्थ पठममग्गे सम्मादिट्ठि मिच्छादिट्ठिं पजहतीति सम्मादिट्ठि. सम्मासङ्कप्पादयोपि मिच्छासङ्कप्पादीनं पजहनट्ठेनेव वेदितब्बा. एवं सन्ते पठममग्गेनेव द्वासट्ठिया दिट्ठिगतानं पहीनत्ता उपरिमग्गत्तयेन पहातब्बा दिट्ठि नाम नत्थि.
तत्थ सम्मादिट्ठीति नामं कथं होतीति? यथा विसं अत्थि वा होतु मा वा, अगदो अगदोत्वेव वुच्चति, एवं मिच्छादिट्ठि अत्थि वा होतु मा वा, अयं सम्मादिट्ठि एव नाम. यदि एवं नाममत्तमेवेतं होति, उपरिमग्गत्तये पन सम्मादिट्ठिया किच्चाभावो आपज्जति, मग्गङ्गानि न परिपूरेन्ति. तस्मा सम्मादिट्ठि सकिच्चका कातब्बा, मग्गङ्गानि परिपूरेतब्बानीति. सकिच्चका चेत्थ सम्मादिट्ठि यथालाभनियमेन दीपेतब्बा. उपरिमग्गत्तयवज्झो हि एको मानो अत्थि, सो दिट्ठिट्ठाने तिट्ठति, सा तं मानं पजहतीति सम्मादिट्ठि. सोतापत्तिमग्गस्मिञ्हि सम्मादिट्ठि मिच्छादिट्ठिं पजहति. सोतापन्नस्स पन सकदागामिमग्गवज्झो मानो अत्थि, तं मानं पजहतीति सम्मादिट्ठि. तस्सेव सत्तअकुसलचित्तसहजातो सङ्कप्पो अत्थि, तेहेव चित्तेहि वाचङ्गचोपनं अत्थि, कायङ्गचोपनं अत्थि, पच्चयपरिभोगो अत्थि, सहजातवायामो अत्थि, अस्सतियभावो अत्थि, सहजातचित्तेकग्गता अत्थि, एते मिच्छासङ्कप्पादयो नाम. सकदागामिमग्गे सम्मासङ्कप्पादयो तेसं पहानेन सम्मासङ्कप्पादयोति वेदितब्बा. एवं सकदागामिमग्गे अट्ठङ्गानि सकिच्चकानि होन्ति. सकदागामिस्स अनागामिमग्गवज्झो मानो अत्थि, सो दिट्ठिट्ठाने तिट्ठति. तस्सेव सत्तहि चित्तेहि सहजाता सङ्कप्पादयो अत्थि. तेसं पहानेन अनागामिमग्गे अट्ठन्नं अङ्गानं सकिच्चकता वेदितब्बा. अनागामिस्स अरहत्तमग्गवज्झो मानो अत्थि, सो दिट्ठिट्ठाने तिट्ठति. यानि पनस्स पञ्च अकुसलचित्तानि, तेहि सहजाता सङ्कप्पादयो अत्थि. तेसं पहानेन अरहत्तमग्गे अट्ठन्नं अङ्गानं सकिच्चकता वेदितब्बा.
ओळारिकाति कायवचीद्वारे वीतिक्कमस्स पच्चयभावेन थूलभूतम्हा. कामरागसञ्ञोजनाति मेथुनरागसङ्खाता सञ्ञोजना. सो हि कामभवे सञ्ञोजेतीति सञ्ञोजनन्ति वुच्चति. पटिघसञ्ञोजनाति ब्यापादसञ्ञोजना. सो हि आरम्मणे पटिहञ्ञतीति पटिघन्ति वुच्चति. ते एव थामगतट्ठेन सन्ताने अनुसेन्तीति अनुसया. अणुसहगताति अणुभूता, सुखुमभूताति अत्थो. तब्भावे हि एत्थ सहगतसद्दो. सकदागामिस्स हि कामरागब्यापादा द्वीहि कारणेहि अणुभूता अधिच्चुप्पत्तिया च परियुट्ठानमन्दताय च. तस्स हि बालपुथुज्जनस्स विय किलेसा अभिण्हं न उप्पज्जन्ति, कदाचि करहचि उप्पज्जन्ति. उप्पज्जमाना च बालपुथुज्जनस्स विय मद्दन्ता फरन्ता छादेन्ता अन्धअन्धं करोन्ता न उप्पज्जन्ति, द्वीहि पन मग्गेहि पहीनत्ता मन्दमन्दा तनुकाकारा हुत्वा उप्पज्जन्ति, वीतिक्कमं पापेतुं समत्था न होन्ति. एवं तनुभूता अनागामिमग्गेन पहीयन्ति रूपरागाति रूपभवे छन्दरागा. अरूपरागाति अरूपभवे छन्दरागा. मानाति उन्नतिलक्खणा. उद्धच्चाति अवूपसमलक्खणा. अविज्जायाति अन्धलक्खणाय. भवरागानुसयाति रूपरागारूपरागवसेन पवत्तभवरागानुसया.
६२. इदानि मग्गञाणसंवण्णनं करोन्तो अजातं झापेतीतिआदिमाह. तत्थ च अजातं झापेति जातेन, झानं तेन पवुच्चतीति अत्तनो सन्ताने पातुभूतेन तेन तेन लोकुत्तरज्झानेन तंसमङ्गीपुग्गलो अजातमेव तं तं किलेसं झापेति दहति समुच्छिन्दति, तेन कारणेन तं लोकुत्तरं झानन्ति पवुच्चतीति अत्थो. झानविमोक्खे कुसलताति तस्मिं अरियमग्गसम्पयुत्ते वितक्कादिके झाने च विमोक्खसङ्खाते अरियमग्गे च असम्मोहवसेन कुसलताय पठममग्गेनेव पहीनासु नानादिट्ठीसु न कम्पति. झानं नाम दुविधं आरम्मणूपनिज्झानञ्च लक्खणूपनिज्झानञ्च. लोकियपठमज्झानादिकं कसिणादिआरम्मणूपनिज्झानट्ठेन झानं, विपस्सनासङ्खारानं सभावसामञ्ञलक्खणूपनिज्झानट्ठेन झानं, लोकुत्तरं निब्बाने तथलक्खणूपनिज्झानट्ठेन झानं. इध पन गोत्रभुनापि साधारणं लक्खणूपनिज्झानट्ठं अनामसित्वा असाधारणेन किलेसझापनट्ठेन झानं वुत्तं. विमोक्खट्ठो पनेत्थ निब्बानारम्मणे सुट्ठु अधिमुच्चनट्ठो किलेसेहि च सुट्ठु मुच्चनट्ठो.
समादहित्वा यथा चे विपस्सतीति अप्पनूपचारखणिकसमाधीनं अञ्ञतरेन समाधिना पठमं चित्तसमाधानं कत्वा पच्छा यथा विपस्सति च. समुच्चयत्थो चे-सद्दो विपस्सनं समुच्चिनोति. विपस्समानो तथा चे समादहेति विपस्सना नामेसा लूखभूता निरस्सादा, समथो च नाम सिनिद्धभूतो सअस्सादो. तस्मा ताय लूखभूतं चित्तं सिनेहेतुं विपस्समानो तथा च समादहे. विपस्समानो पुन समाधिं पविसित्वा चित्तसमाधानञ्च तथेव करेय्य, यथेव विपस्सनन्ति अत्थो. इध चे-सद्दो समादहनं समुच्चिनोति. उभयत्थापि गाथाबन्धानुवत्तनेन चे-कारो कतो, अत्थो पन च-कारत्थो एव. विपस्सना च समथो तदा अहूति यस्मा समथविपस्सनानं युगनद्धभावे सति अरियमग्गपातुभावो होति, तस्मा अरियमग्गजननसमत्थत्ता यदा तदुभयसमायोगो होति, तदा विपस्सना च समथो च अहु, समथविपस्सना भूता नाम होतीति अत्थो. ता च समथविपस्सना अरियमग्गाभिमुखीकाले च मग्गक्खणे च समानभागा युगनद्धा वत्तरे समानो समो भागो कोट्ठासो एतेसन्ति समानभागा, युगे नद्धा वियाति युगनद्धा, अञ्ञमञ्ञं अनतिवत्तनट्ठेन समधुरा समबलाति अत्थो. वित्थारो पनस्स युगनद्धकथायं आविभविस्सति.
दुक्खा सङ्खारा सुखो, निरोधो इति दस्सनं. दुभतो वुट्ठिता पञ्ञा, फस्सेति अमतंपदन्ति दुक्खा सङ्खारा, सुखो निरोधो निब्बानन्ति पटिपन्नस्स ततो निब्बानदस्सनं अरियमग्गञाणं दुभतो वुट्ठिता पञ्ञा नाम. सा एव च पञ्ञा अमतं पदं निब्बानं आरम्मणफुसनेन फुसति, पटिलभतीति अत्थो. निब्बानञ्हि अतप्पकट्ठेन अमतसदिसन्ति अमतं, नास्स मतं मरणं वयो अत्थीतिपि अमतं, पुब्बभागतो पट्ठाय महता उस्साहेन महतिया पटिपदाय पज्जति पटिपज्जीयतीति पदन्ति वुच्चति.
विमोक्खचरियं जानातीति विमोक्खपवत्तिं असम्मोहवसेन जानाति, पच्चवेक्खणवसेन जानाति. ‘‘दुभतो वुट्ठानो विमोक्खो, दुभतो वुट्ठाना चत्तारो विमोक्खा, दुभतो वुट्ठानानं अनुलोमा चत्तारो विमोक्खा, दुभतो वुट्ठानपटिप्पस्सद्धि चत्तारो विमोक्खा’’ति हि उपरि विमोक्खकथायंयेव (पटि. म. १.२०९ आदयो) आगता विमोक्खचरिया वेदितब्बा. तेसं वित्थारो तत्थेव आगतो. नानत्तेकत्तकोविदोति तेसं विमोक्खानं नानाभावे एकभावे च कुसलो. दुभतो वुट्ठानविमोक्खवसेन हि तेसं एकत्तं, चतुअरियमग्गवसेन नानत्तं, एकेकस्सापि वा अरियमग्गस्स अनुपस्सनाभेदेन नानत्तं, अरियमग्गभावेन एकत्तं वेदितब्बं. द्विन्नं ञाणानं कुसलताति दस्सनसङ्खातस्स च भावनासङ्खातस्स चाति इमेसं द्विन्नं ञाणानं कुसलताय. दस्सनन्ति हि सोतापत्तिमग्गो. सो हि पठमं निब्बानदस्सनतो दस्सनन्ति वुत्तो. गोत्रभु पन किञ्चापि पठमतरं निब्बानं पस्सति, यथा पन रञ्ञो सन्तिकं केनचिदेव करणीयेन आगतो पुरिसो दूरतोव रथिकाय चरन्तं हत्थिक्खन्धगतं राजानं दिस्वापि ‘‘दिट्ठो ते राजा’’ति पुट्ठो दिस्वा कत्तब्बकिच्चस्स अकतत्ता ‘‘न पस्सामी’’ति आह, एवमेव निब्बानं दिस्वा कत्तब्बस्स किलेसप्पहानस्साभावा न ‘‘दस्सन’’न्ति वुच्चति. तञ्हि ञाणं मग्गस्स आवज्जनट्ठाने तिट्ठति. भावनाति सेसमग्गत्तयं. तञ्हि पठममग्गेन दिट्ठस्मिंयेव धम्मे भावनावसेन उप्पज्जति, न अदिट्ठपुब्बं किञ्चि पस्सति, तस्मा ‘‘भावना’’ति वुच्चति. हेट्ठा पन भावनामग्गस्स अपरिनिट्ठितत्ता ‘‘द्विन्नं ञाणान’’न्ति अवत्वा सोतापत्तिसकदागामिअनागामिमग्गलाभिनो सन्धाय ‘‘झानविमोक्खे कुसलता’’ति वुत्तं, अरहत्तमग्गलाभिनो पन भावनामग्गस्स परिनिट्ठितत्ता ‘‘द्विन्नं ञाणानं कुसलता’’ति वुत्तन्ति वेदितब्बं.
मग्गञाणनिद्देसवण्णना निट्ठिता.