४. अग्गिसुत्तवण्णना
९३. चतुत्थे अनुदहनट्ठेन अग्गि, रागो एव अग्गि रागग्गि. रागो हि उप्पज्जमानो सत्ते अनुदहति झापेति, तस्मा ‘‘अग्गी’’ति वुच्चति. इतरेसुपि द्वीसु एसेव नयो. तत्थ यथा अग्गि यदेव इन्धनं निस्साय उप्पज्जति, तं निदहति, महापरिळाहो च होति, एवमिमेपि रागादयो यस्मिं सन्ताने सयं उप्पन्ना, तं निदहन्ति, महापरिळाहा च होन्ति दुन्निब्बापया. तेसु रागपरिळाहेन सन्तत्तहदयानं इच्छितालाभदुक्खेन मरणप्पत्तानं सत्तानं पमाणं नत्थि. अयं ताव रागस्स अनुदहनता. दोसस्स पन अनुदहनताय विसेसतो मनोपदोसिका देवा, मोहस्स अनुदहनताय खिड्डापदोसिका देवा च निदस्सनं. मोहवसेन हि तेसं सतिसम्मोसो होति, तस्मा खिड्डावसेन आहारवेलं अतिवत्तेन्ता कालं करोन्ति. अयं ताव रागादीनं दिट्ठधम्मिको अनुदहनभावो. सम्परायिको पन निरयादीसु निब्बत्तापनवसेन घोरतरो दुरधिवासो च. अयञ्च अत्थो आदित्तपरियायेन विभावेतब्बो.
गाथासु कामेसु मुच्छितेति वत्थुकामेसु पातब्यतावसेन मुच्छं बाल्यं पमादं मिच्छाचारं आपन्ने. ब्यापन्नेति ब्यापन्नचित्ते दहतीति सम्बन्धो. नरे पाणातिपातिनोति इदं दोसग्गिस्स. अरियधम्मे अकोविदेति ये खन्धायतनादीसु सब्बेन सब्बं उग्गहपरिपुच्छाय मनसिकाररहिता अरियधम्मस्स अकुसला, ते सम्मोहेन अभिभूता विसेसेन सम्मूळ्हा नामाति वुत्ता. एते अग्गी अजानन्ताति ‘‘एते रागग्गिआदयो इध चेव सम्पराये च अनुदहन्ती’’ति अजानन्ता परिञ्ञाभिसमयवसेन पहानाभिसमयवसेन च अप्पटिविज्झन्ता. सक्कायाभिरताति सक्काये उपादानक्खन्धपञ्चके तण्हादिट्ठिमाननन्दनाभिरता. वड्ढयन्तीति पुनप्पुनं उप्पज्जनेन वड्ढयन्ति आचिनन्ति. निरयन्ति अट्ठविधं महानिरयं, सोळसविधं उस्सदनिरयन्ति सब्बम्पि निरयं. तिरच्छानञ्च योनियोति तिरच्छानयोनियो च. असुरन्ति असुरकायं पेत्तिविसयञ्च वड्ढयन्तीति सम्बन्धो.
एत्तावता रागग्गिआदीनं इध चेव सम्पराये च अनुदहनभावदस्सनमुखेन वट्टं दस्सेत्वा इदानि नेसं निब्बापनेन विवट्टं दस्सेतुं ‘‘ये च रत्तिन्दिवा’’तिआदि वुत्तं. तत्थ युत्ताति भावनानुयोगवसेन युत्ता. कत्थ? सम्मासम्बुद्धसासने. तेन अञ्ञसासने रागग्गिआदीनं निब्बापनाभावं दस्सेति. तथा हि अनञ्ञसाधारणं तेसं निब्बापनविधिं असुभकम्मट्ठानं सङ्खेपेनेव दस्सेन्तो –
‘‘ते निब्बापेन्ति रागग्गिं, निच्चं असुभसञ्ञिनो;
दोसग्गिं पन मेत्ताय, निब्बापेन्ति नरुत्तमा;
मोहग्गिं पन पञ्ञाय, यायं निब्बेधगामिनी’’ति. –
आह. तत्थ असुभसञ्ञिनोति द्वत्तिंसाकारवसेन चेव उद्धुमातकादिवसेन च असुभभावनानुयोगेन असुभसञ्ञिनो. मेत्तायाति ‘‘सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’ति (अ. नि. ३.६४, ६६) वुत्ताय मेत्ताभावनाय. एत्थ च असुभज्झानञ्च पादकं कत्वा निब्बत्तितअनागामिमग्गेन रागग्गिदोसग्गीनं निब्बापनं वेदितब्बं. पञ्ञायाति विपस्सनापञ्ञासहिताय मग्गपञ्ञाय. तेनेवाह ‘‘यायं निब्बेधगामिनी’’ति. सा हि किलेसक्खन्धं विनिविज्झन्ती गच्छति पवत्ततीति निब्बेधगामिनीति वुच्चति. असेसं परिनिब्बन्तीति अरहत्तमग्गेन असेसं रागग्गिआदिं निब्बापेत्वा सउपादिसेसाय निब्बानधातुया ठिता पञ्ञावेपुल्लप्पत्तिया निपका पुब्बेव सम्मप्पधानेन सब्बसो कोसज्जस्स सुप्पहीनत्ता फलसमापत्तिसमापज्जनेन अकिलासुभावेन च रत्तिन्दिवमतन्दिता चरिमकचित्तनिरोधेन अनुपादिसेसाय निब्बानधातुया असेसं परिनिब्बन्ति. ततो च असेसं निस्सेसं वट्टदुक्खं अच्चगुं अतिक्कमंसु.
एवं ये रागग्गिआदिके निब्बापेन्ति, तेसं अनुपादिसेसनिब्बानेन निब्बुतिं दस्सेत्वा इदानि पटिविद्धगुणेहि थोमेन्तो ओसानगाथमाह. तत्थ अरियद्दसाति अरियेहि बुद्धादीहि पस्सितब्बं किलेसेहि वा आरकत्ता अरियं निब्बानं, अरियं चतुसच्चमेव वा दिट्ठवन्तोति अरियद्दसा. वेदस्स मग्गञाणस्स, तेन वा वेदेन संसारस्स परियोसानं गताति वेदगुनो. सम्मदञ्ञायाति सम्मदेव सब्बं आजानितब्बं कुसलादिं खन्धादिञ्च जानित्वा. सेसं वुत्तनयमेव.
चतुत्थसुत्तवण्णना निट्ठिता.