२. जीविकसुत्तवण्णना

९१. दुतियं अट्ठुप्पत्तिवसेन देसितं. एकस्मिञ्हि समये भगवति कपिलवत्थुस्मिं निग्रोधारामे विहरन्ते भिक्खू आगन्तुकभिक्खूनं सेनासनानि पञ्ञापेन्ता पत्तचीवरानि पटिसामेन्ता सामणेरा च लाभभाजनीयट्ठाने सम्पत्तसम्पत्तानं लाभं गण्हन्ता उच्चासद्दा महासद्दा अहेसुं. तं सुत्वा भगवा भिक्खू पणामेसि. ते किर सब्बेव नवा अधुनागता इमं धम्मविनयं. तं ञत्वा महाब्रह्मा आगन्त्वा ‘‘अभिनन्दतु, भन्ते, भगवा भिक्खुसङ्घ’’न्ति (म. नि. २.१५८) तेसं पणामितभिक्खूनं अनुग्गण्हनं याचि. भगवा तस्स ओकासं अकासि. अथ महाब्रह्मा ‘‘कतावकासो खोम्हि भगवता’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ भगवा ‘‘भिक्खुसङ्घो आगच्छतू’’ति आनन्दत्थेरस्स आकारं दस्सेसि. अथ ते भिक्खू आनन्दत्थेरेन पक्कोसिता भगवन्तं उपसङ्कमित्वा सारज्जमानरूपा एकमन्तं निसीदिंसु. भगवा तेसं सप्पायदेसनं वीमंसन्तो ‘‘इमे आमिसहेतु पणामिता, पिण्डियालोपधम्मदेसना नेसं सप्पाया’’ति चिन्तेत्वा ‘‘अन्तमिदं, भिक्खवे’’ति इमं देसनं देसेसि.

तत्रायं अन्तसद्दो ‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा पुब्बन्तकप्पिका पुब्बन्तानुदिट्ठिनो’’तिआदीसु (दी. नि. १.२९) कोट्ठासे आगतो. ‘‘अन्तमकासि दुक्खस्स, अन्तवा अयं लोको परिवटुमो’’तिआदीसु (दी. नि. १.५५) परिच्छेदे. ‘‘हरितन्तं वा पथन्तं वा सेलन्तं वा’’तिआदीसु (म. नि. १.३०४) मरियादायं. ‘‘अन्तं अन्तगुण’’न्तिआदीसु (दी. नि. २.३७७; खु. पा. ३.द्वत्तिंसाकार) सरीरावयवे ‘‘चरन्ति लोके परिवारछन्ना, अन्तो असुद्धा बहि सोभमाना’’तिआदीसु (सं. नि. १.१२२; महानि. १९१) चित्ते. ‘‘अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि अन्तो निमुग्गपोसीनी’’तिआदीसु (दी. नि. २.६९; सं. नि. १.१७२; महाव. ९) अब्भन्तरे.

‘‘मिगानं कोट्ठुको अन्तो, पक्खीनं पन वायसो;

एरण्डो अन्तो रुक्खानं, तयो अन्ता समागता’’ति. (जा. १.३.१३५) –

आदीसु लामके. इधापि लामके एव दट्ठब्बो. तस्मा अन्तमिदं भिक्खवे जीविकानन्ति भिक्खवे इदं जीविकानं अन्तं पच्छिमं लामकं, सब्बनिहीनं जीवितन्ति अत्थो. यदिदं पिण्डोल्यन्ति यं इदं पिण्डपरियेसनेन भिक्खाचरियाय जीविकं कप्पेन्तस्स जीवितं. अयं पनेत्थ पदत्थो – पिण्डाय उलतीति पिण्डोलो, तस्स कम्मं पिण्डोल्यं, पिण्डपरियेसनेन जीविकाति अत्थो.

अभिसापोति अक्कोसो. कुपिता हि मनुस्सा अत्तनो पच्चत्थिकं ‘‘पिलोतिकखण्डं निवासेत्वा कपालहत्थो पिण्डं परियेसमानो चरेय्यासी’’ति अक्कोसन्ति. अथ वा ‘‘किं तुय्हं अकातब्बं अत्थि, यो त्वं एवं बलवीरियूपपन्नोपि हिरोत्तप्पं पहाय कपणो पिण्डोलो विचरसि पत्तपाणी’’ति एवम्पि अक्कोसन्तियेव. तञ्च खो एतन्ति तं एतं अभिसपम्पि समानं पिण्डोल्यं. कुलपुत्ता उपेन्ति अत्थवसिकाति मम सासने जातिकुलपुत्ता च आचारकुलपुत्ता च अत्थवसिका कारणवसिका हुत्वा कारणवसं पटिच्च उपेन्ति उपगच्छन्ति.

राजाभिनीतातिआदीसु ये रञ्ञो सन्तकं खादित्वा रञ्ञा बन्धनागारे बन्धापिता पलायित्वा पब्बजन्ति, ते रञ्ञा बन्धनं अभिनीतत्ता राजाभिनीता नाम. ये पन चोरेहि अटवियं गहेत्वा एकच्चेसु मारियमानेसु एकच्चे ‘‘मयं सामि तुम्हेहि विस्सट्ठा गेहं अनज्झावसित्वा पब्बजिस्साम, तत्थ तत्थ यं यं बुद्धपूजादिपुञ्ञं करिस्साम, ततो ततो तुम्हाकं पत्तिं दस्सामा’’ति तेहि विस्सट्ठा पब्बजन्ति, ते चोराभिनीता नाम चोरेहि मारेतब्बतं अभिनीतत्ता. ये पन इणं गहेत्वा पटिदातुं असक्कोन्ता पलायित्वा पब्बजन्ति, ते इणट्टा नाम. तञ्च खो एतं पिण्डोल्यं कुलपुत्ता मम सासने नेव राजाभिनीता…पे… न आजीविकापकता उपेन्ति, अपिच खो ‘‘ओतिण्णम्हा जातिया…पे… पञ्ञायेथा’’ति उपेन्तीति पदसम्बन्धो.

तत्थ ओतिण्णम्हाति ओतिण्णा अम्हा. जातियातिआदीसु तम्हि तम्हि सत्तनिकाये खन्धानं पठमाभिनिब्बत्ति जाति, परिपाको जरा, भेदो मरणं. ञातिरोगभोगसीलदिट्ठिब्यसनेहि फुट्ठस्स सन्तापो अन्तो निज्झानं सोको, तेहि फुट्ठस्स वचीविप्पलापो परिदेवो. अनिट्ठफोट्ठब्बपटिहतकायस्स कायपीळनं दुक्खं, आघातवत्थूसु उपहतचित्तस्स चेतोपीळनं दोमनस्सं. ञातिब्यसनादीहि एव फुट्ठस्स परिदेवेनपि अधिवासेतुं असमत्थस्स चित्तसन्तापसमुट्ठितो भुसो आयासो उपायासो. एतेहि जातिआदीहि ओतिण्णा दुक्खोतिण्णा, तेहि जातिआदिदुक्खेहि अन्तो अनुपविट्ठा. दुक्खपरेताति तेहि दुक्खदुक्खवत्थूहि अभिभूता. जातिआदयो हि दुक्खस्स वत्थुभावतो दुक्खा, दुक्खभावतो च सोकपरिदेवदुक्खदोमनस्सुपायासा दुक्खाति. अप्पेव नाम…पे… पञ्ञायेथाति इमस्स सकलस्स वट्टदुक्खरासिस्स परिच्छेदकरणं ओसानकिरिया अपि नाम पञ्ञायेय्य.

सो च होति अभिज्झालूति इदं यो कुलपुत्तो ‘‘दुक्खस्सन्तं करिस्सामी’’ति पुब्बे चित्तं उप्पादेत्वा पब्बजितो अपरभागे तं पब्बज्जं तथारूपं कातुं न सक्कोति, तं दस्सेतुं वुत्तं. तत्थ अभिज्झालूति परभण्डानं अभिज्झायिता. तिब्बसारागोति बलवरागो. ब्यापन्नचित्तोति ब्यापादेन पूतिभूतत्ता विपन्नचित्तो. पदुट्ठमनसङ्कप्पोति तिखिणसिङ्गो विय चण्डगोणो परेसं उपघातवसेन दुट्ठचित्तो. मुट्ठस्सतीति भत्तनिक्खित्तकाको विय, मंसनिक्खित्तसुनखो विय च नट्ठस्सति, इध कतं एत्थ न सरति. असम्पजानोति निप्पञ्ञो खन्धादिपरिच्छेदरहितो. असमाहितोति चण्डसोते बद्धनावा विय असण्ठितो. विब्भन्तचित्तोति पन्थारुळ्हमिगो विय भन्तमनो. पाकतिन्द्रियोति यथा गिही संवराभावेन परिग्गहपरिजने ओलोकेन्ति असंवुतिन्द्रिया, एवं असंवुतिन्द्रियो होति.

छवालातन्ति छवानं दड्ढट्ठाने अलातं. उभतोपदित्तं मज्झे गूथगतन्ति पमाणेन अट्ठङ्गुलमत्तं उभतो द्वीसु कोटीसु आदित्तं मज्झे गूथमक्खितं. नेव गामेति सचे हि तं युगनङ्गलगोपानसिपक्खपासकादीनं अत्थाय उपनेतुं सक्का अस्स गामे कट्ठत्थं फरेय्य. सचे खेत्तकुटिया कट्ठत्थरमञ्चकादीनं अत्थाय उपनेतुं सक्का अस्स, अरञ्ञे कट्ठत्थं फरेय्य. यस्मा पन उभयत्थापि न सक्का, तस्मा एवं वुत्तं. तथूपमाहन्ति तथूपमं छवालातसदिसं अहं इमं यथावुत्तपुग्गलं वदामि. गिहिभोगा च परिहीनोति यो अगारे वसन्तेहि गिहीहि दायज्जे भाजियमाने अञ्ञथा च भोगो लद्धब्बो अस्स, ततो च परिहीनो. सामञ्ञत्थञ्चाति आचरियुपज्झायानं ओवादे ठत्वा परियत्तिपटिवेधवसेन पत्तब्बं सामञ्ञत्थञ्च न परिपूरेति. इमं पन उपमं सत्था न दुस्सीलस्स वसेन आहरि, परिसुद्धसीलस्स पन अलसस्स अभिज्झादीहि दोसेहि दूसितचित्तस्स पुग्गलस्स वसेन आहरीति वेदितब्बं.

गाथासु गिहिभोगाति कामसुखसम्भोगतो. परिहीनोति जीनो. सामञ्ञत्थन्ति पटिवेधबाहुसच्चञ्चेव परियत्तिबाहुसच्चञ्च. तादिसो हि असुतं सोतुं सुतं परियोदापेतुं न सक्कोति अलसभावतो. दुट्ठु भगोति दुब्भगो, अलक्खिको काळकण्णिपुरिसो. परिधंसमानोति विनस्समानो. पकिरेतीति विकिरेति विद्धंसेति. सब्बमेतं भाविनो सामञ्ञत्थस्स अनुप्पादनमेव सन्धाय वुत्तं. छवालातंव नस्सतीति सो तादिसो पुग्गलो यथावुत्तं छवालातं विय कस्सचि अनुपयुज्जमानो एव नस्सति उभतो परिभट्ठभावतो. एवं ‘‘कायवाचाहि अकतवीतिक्कमोपि चित्तं अविसोधेन्तो नस्सति, पगेव कतवीतिक्कमो दुस्सीलो’’ति तस्स अपायदुक्खभागिभावदस्सनेन दुस्सीले आदीनवं दस्सेत्वा ततो सत्ते विवेचेतुकामो ‘‘कासावकण्ठा’’तिआदिना गाथाद्वयमाह. तस्सत्थो हेट्ठा वुत्तो एव.

दुतियसुत्तवण्णना निट्ठिता.