१. अग्गप्पसादसुत्तवण्णना
९०. पञ्चमवग्गस्स पठमे अग्गप्पसादाति एत्थ अयं अग्गसद्दो आदिकोटिकोट्ठाससेट्ठेसु दिस्सति. तथा हेस ‘‘अज्जतग्गे, सम्म दोवारिक, आवरामि द्वारं निगण्ठानं निगण्ठीनं (म. नि. २.७०). अज्जतग्गे पाणुपेतं सरणं गत’’न्ति (दी. नि. १.२५०; पारा. १५) च आदीसु आदिम्हि दिस्सति. ‘‘तेनेव अङ्गुलग्गेन तं अङ्गुलग्गं परामसेय्य (कथा. ४४१). उच्छग्गं वेळग्ग’’न्ति च आदीसु कोटियं. ‘‘अम्बिलग्गं वा मधुरग्गं वा तित्तकग्गं वा (सं. नि. ५.३७४). अनुजानामि, भिक्खवे, विहारग्गेन वा परिवेणग्गेन वा भाजेतु’’न्ति (चूळव. ३१८) च आदीसु कोट्ठासे. ‘‘अयं इमेसं चतुन्नं पुग्गलानं अग्गो च सेट्ठो च उत्तमो च पवरो च (अ. नि. ४.९५). अग्गोहमस्मि लोकस्सा’’ति च आदीसु (दी. नि. २.३१; म. नि. ३.२०७) सेट्ठे. स्वायमिधापि सेट्ठेयेव दट्ठब्बो. तस्मा अग्गेसु सेट्ठेसु पसादा, अग्गभूता सेट्ठभूता वा पसादा अग्गप्पसादाति अत्थो.
पुरिमस्मिञ्च अत्थे अग्गसद्देन बुद्धादिरतनत्तयं वुच्चति. तेसु भगवा ताव असदिसट्ठेन, गुणविसिट्ठट्ठेन, असमसमट्ठेन च अग्गो. सो हि महाभिनीहारं दसन्नं पारमीनं पविचयञ्च आदिं कत्वा तेहि बोधिसम्भारगुणेहि चेव बुद्धगुणेहि च सेसजनेहि असदिसोति असदिसट्ठेन अग्गो. ये चस्स गुणा महाकरुणादयो, ते सेससत्तानं गुणेहि विसिट्ठाति गुणविसिट्ठट्ठेनपि सब्बसत्तुत्तमताय अग्गो. ये पन पुरिमका सम्मासम्बुद्धा सब्बसत्तेहि असमा, तेहि सद्धिं अयमेव रूपकायगुणेहि चेव धम्मकायगुणेहि च समोति असमसमट्ठेनपि अग्गो. तथा दुल्लभपातुभावतो अच्छरियमनुस्सभावतो बहुजनहितसुखावहतो अदुतियअसहायादिभावतो च भगवा लोके अग्गोति वुच्चति. यथाह –
‘‘एकपुग्गलस्स, भिक्खवे, पातुभावो दुल्लभो लोकस्मिं, कतमस्स एकपुग्गलस्स? तथागतस्स अरहतो सम्मासम्बुद्धस्स.
‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति अच्छरियमनुस्सो.
‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजन…पे… सम्मासम्बुद्धो.
‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति, अदुतियो असहायो अप्पटिमो अप्पटिसमो अप्पटिभागो अप्पटिपुग्गलो असमो असमसमो द्विपदानं अग्गो. कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो’’ति (अ. नि. १.१७०-१७२, १७४).
धम्मसङ्घापि अञ्ञधम्मसङ्घेहि असदिसट्ठेन विसिट्ठगुणताय दुल्लभपातुभावादिना च अग्गा. तथा हि तेसं स्वाक्खाततादिसुप्पटिपन्नतादिगुणविसेसेहि अञ्ञधम्मसङ्घा सदिसा अप्पतरनिहीना वा नत्थि, कुतो सेट्ठा. सयमेव च पन तेहि विसिट्ठगुणताय सेट्ठा. तथा दुल्लभुप्पादअच्छरियभावबहुजनहितसुखावहा अदुतियअसहायादिसभावा च ते. यदग्गेन हि भगवा दुल्लभपातुभावो, तदग्गेन धम्मसङ्घापीति. अच्छरियादिभावेपि एसेव नयो. एवं अग्गेसु सेट्ठेसु उत्तमेसु पवरेसु गुणविसिट्ठेसु पसादाति अग्गप्पसादा.
दुतियस्मिं पन अत्थे यथावुत्तेसु अग्गेसु बुद्धादीसु उप्पत्तिया अग्गभूता पसादा अग्गप्पसादा. ये पन अरियमग्गेन आगता अवेच्चप्पसादा, ते एकन्तेनेव अग्गभूता पसादाति अग्गप्पसादा. यथाह ‘‘इध, भिक्खवे, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होती’’तिआदि (सं. नि. ५.१०२७). अग्गविपाकत्तापि चेते अग्गप्पसादा. वुत्तञ्हि ‘‘अग्गे खो पन पसन्नानं अग्गो विपाको’’ति.
यावताति यत्तका. सत्ताति पाणिनो. अपदाति अपादका. द्विपदाति द्विपादका. सेसपदद्वयेपि एसेव नयो. वा-सद्दो समुच्चयत्थो, न विकप्पत्थो. यथा ‘‘अनुप्पन्नो वा कामासवो उप्पज्जति, उप्पन्नो वा कामासवो पवड्ढती’’ति (म. नि. १.१७) एत्थ अनुप्पन्नो च उप्पन्नो चाति अत्थो. यथा च ‘‘भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाया’’ति (म. नि. १.४०२; सं. नि. २.१२) एत्थ भूतानञ्च सम्भवेसीनञ्चाति अत्थो. यथा च ‘‘अग्गितो वा उदकतो वा मिथुभेदतो वा’’ति (दी. नि. २.१५२; उदा. ७६; महाव. २८६) एत्थ अग्गितो च उदकतो च मिथुभेदतो चाति अत्थो, एवं ‘‘अपदा वा…पे… अग्गमक्खायती’’ति एत्थापि अपदा च द्विपदा चाति सम्पिण्डनवसेन अत्थो दट्ठब्बो. तेन वुत्तं ‘‘वा-सद्दो समुच्चयत्थो, न विकप्पत्थो’’ति.
रूपिनोति रूपवन्तो. न रूपिनोति अरूपिनो. सञ्ञिनोति सञ्ञावन्तो. न सञ्ञिनोति असञ्ञिनो. नेवसञ्ञिनासञ्ञिनो नाम भवग्गपरियापन्ना. एत्तावता च कामभवो, रूपभवो, अरूपभवो, एकवोकारभवो, चतुवोकारभवो, पञ्चवोकारभवो, सञ्ञीभवो, असञ्ञीभवो, नेवसञ्ञीनासञ्ञीभवोति नवविधेपि भवे सत्ते अनवसेसतो परियादियित्वा दस्सेसि धम्मराजा. एत्थ हि रूपिग्गहणेन कामभवो रूपभवो पञ्चवोकारभवो एकवोकारभवो च दस्सितो, अरूपिग्गहणेन अरूपभवो चतुवोकारभवो च दस्सितो. सञ्ञीभवादयो पन सरूपेनेव दस्सिता. अपदादिग्गहणेन कामभवपञ्चवोकारभवसञ्ञीभवानं एकदेसो दस्सितोति.
कस्मा पनेत्थ यथा अदुतियसुत्ते ‘‘द्विपदानं अग्गो’’ति द्विपदानं गहणमेव अकत्वा अपदादिग्गहणं कतन्ति? वुच्चते – अदुतियसुत्ते ताव सेट्ठतरवसेन द्विपदग्गहणमेव कतं. इमस्मिञ्हि लोके सेट्ठो नाम उप्पज्जमानो अपदचतुप्पदबहुप्पदेसु न उप्पज्जति, द्विपदेसुयेव उप्पज्जति. कतरेसु द्विपदेसु? मनुस्सेसु चेव देवेसु च. मनुस्सेसु उप्पज्जमानो सकललोकं वसे वत्तेतुं समत्थो बुद्धो हुत्वा उप्पज्जति. अङ्गुत्तरट्ठकथायं पन ‘‘तिसहस्सिमहासहस्सिलोकधातुं वसे वत्तेतुं समत्थो’’ति (अ. नि. अट्ठ. १.१.१७४) वुत्तं. देवेसु उप्पज्जमानो दससहस्सिलोकधातुं वसे वत्तनको महाब्रह्मा हुत्वा उप्पज्जति, सो तस्स कप्पियकारको वा आरामिको वा सम्पज्जति. इति ततोपि सेट्ठतरवसेनेस ‘‘द्विपदानं अग्गो’’ति तत्थ वुत्तो, इध पन अनवसेसपरियादानवसेन एवं वुत्तं. यावत्तका हि सत्ता अत्तभावपरियापन्ना अपदा वा…पे… नेवसञ्ञीनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायतीति. निद्धारणे चेतं सामिवचनं, मकारो पदसन्धिकरो. अग्गो अक्खायतीति पदविभागो.
अग्गो विपाको होतीति अग्गे सम्मासम्बुद्धे पसन्नानं यो पसादो, सो अग्गो सेट्ठो उत्तमो कोटिभूतो वा, तस्मा तस्स विपाकोपि अग्गो सेट्ठो उत्तमो कोटिभूतो उळारतमो पणीततमो होति. सो पन पसादो दुविधो लोकियलोकुत्तरभेदतो. तेसु लोकियस्स ताव –
‘‘ये केचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;
पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ति. (दी. नि. २.३३२; सं. नि. १.३७);
‘‘बुद्धोति कित्तयन्तस्स, काये भवति या पीति;
वरमेव हि सा पीति, कसिणेनपि जम्बुदीपस्स.
‘‘सतं हत्थी सतं अस्सा, सतं अस्सतरी रथा;
सतं कञ्ञासहस्सानि, आमुक्कमणिकुण्डला;
एकस्स पदवीतिहारस्स, कलं नाग्घन्ति सोळसिं’’. (सं. नि. १.२४२; चूळव. ३०५);
‘‘साधु खो, देवानमिन्द, बुद्धं सरणगमनं होति, बुद्धं सरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति (सं. नि. ४.३४१) –
एवमादीनं सुत्तपदानं वसेन पसादस्स फलविसेसयोगो वेदितब्बो. तस्मा सो अपायदुक्खविनिवत्तनेन सद्धिं सम्पत्तिभवेसु सुखविपाकदायकोति दट्ठब्बो. लोकुत्तरो पन सामञ्ञफलविपाकदायको वट्टदुक्खविनिवत्तको च. सब्बोपि चायं पसादो परम्पराय वट्टदुक्खं विनिवत्तेतियेव. वुत्तञ्हेतं –
‘‘यस्मिं, भिक्खवे, समये अरियसावको अत्तनो सद्धं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं, न मोहपरियुट्ठितं चित्तं होति, उजुगतमेवस्स तस्मिं समये चित्तं होति. उजुगतचित्तस्स पामोज्जं जायति, पमुदितस्स पीति जायति…पे… नापरं इत्थत्तायाति पजानाती’’ति (अ. नि. ६.१०; २६).
धम्माति सभावधम्मा. सङ्खताति समेच्च सम्भुय्य पच्चयेहि कताति सङ्खता, सप्पच्चयधम्मा. हेतूहि पच्चयेहि च न केहिचि कताति असङ्खता, अप्पच्चयनिब्बानं. सङ्खतानं पटियोगिभावेन ‘‘असङ्खता’’ति पुथुवचनं. विरागो तेसं अग्गमक्खायतीति तेसं सङ्खतासङ्खतधम्मानं यो विरागसङ्खातो असङ्खतधम्मो, सो सभावेनेव सण्हसुखुमभावतो सन्ततरपणीततरभावतो गम्भीरादिभावतो मदनिम्मदनादिभावतो च अग्गं सेट्ठं उत्तमं पवरन्ति वुच्चति. यदिदन्ति निपातो, यो अयन्ति अत्थो. मदनिम्मदनोतिआदीनि सब्बानि निब्बानवेवचनानियेव. तथा हि तं आगम्म मानमदपुरिसमदादिको सब्बो मदो निम्मदीयति पमद्दीयति, कामपिपासादिका सब्बा पिपासा विनीयति, कामालयादिका सब्बेपि आलया समुग्घातीयन्ति, सब्बेपि कम्मवट्टकिलेसवट्टविपाकवट्टा उपच्छिज्जन्ति, अट्ठसतभेदा सब्बापि तण्हा खीयति, सब्बेपि किलेसा विरज्जन्ति, सब्बं दुक्खं निरुज्झति, तस्मा मदनिम्मदनो…पे… निरोधोति वुच्चति. या पनेसा तण्हा भवेन भवं, फलेन कम्मं विनति संसिब्बतीति कत्वा वानन्ति वुच्चति. तं वानं एत्थ नत्थि, एतस्मिं वा अधिगते अरियपुग्गलस्स न होतीति निब्बानं.
अग्गो विपाको होतीति एत्थापि –
‘‘ये केचि धम्मं सरणं गतासे…पे…. (दी. नि. २.३३२; सं. नि. १.३७);
‘‘धम्मोति कित्तयन्तस्स, काये भवति या पीति…पे….
‘‘साधु खो, देवानमिन्द, धम्मं सरणगमनं होति. धम्मं सरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे…पे… दिब्बेहि फोट्ठब्बेही’’ति (सं. नि. ४.३४१) –
एवमादीनं सुत्तपदानं वसेन धम्मे पसादस्स फलविसेसयोगो वेदितब्बो. एवमेत्थ असङ्खतधम्मवसेनेव अग्गभावो आगतो, सब्बसङ्खतनिस्सरणदस्सनत्थं अरियमग्गवसेनपि अयमत्थो लब्भतेव. वुत्तञ्हेतं –
‘‘यावता, भिक्खवे, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायती’’ति (अ. नि. ४.३४).
‘‘मग्गानट्ठङ्गिको सेट्ठो’’ति च. (ध. प. २७३).
सङ्घा वा गणा वाति जनसमूहसङ्खाता यावता लोके सङ्घा वा गणा वा. तथागतसावकसङ्घोति अट्ठअरियपुग्गलसमूहसङ्खातो दिट्ठिसीलसामञ्ञेन संहतो तथागतस्स सावकसङ्घो. तेसं अग्गमक्खायतीति अत्तनो सीलसमाधिपञ्ञाविमुत्तिआदिगुणविसेसेन तेसं सङ्घानं अग्गो सेट्ठो उत्तमो पवरोति वुच्चति. यदिदन्ति यानि इमानि. चत्तारि पुरिसयुगानीति युगळवसेन पठममग्गट्ठो पठमफलट्ठोति इदमेकं युगळं, याव चतुत्थमग्गट्ठो चतुत्थफलट्ठोति इदमेकं युगळन्ति एवं चत्तारि पुरिसयुगानि. अट्ठ पुरिसपुग्गलाति पुरिसपुग्गलवसेन एको पठममग्गट्ठो एको पठमफलट्ठोति इमिना नयेन अट्ठ पुरिसपुग्गला. एत्थ च पुरिसोति वा पुग्गलोति वा एकत्थानि एतानि पदानि, वेनेय्यवसेन पनेवं वुत्तं. एस भगवतो सावकसङ्घोति यानिमानि युगवसेन चत्तारि पुरिसयुगानि, पाटेक्कतो अट्ठ पुरिसपुग्गला, एस भगवतो सावकसङ्घो.
आहुनेय्योतिआदीसु आनेत्वा हुनितब्बन्ति आहुनं, दूरतोपि आगन्त्वा सीलवन्तेसु दातब्बन्ति अत्थो. चतुन्नं पच्चयानमेतं अधिवचनं. महप्फलभावकरणतो तं आहुनं पटिग्गहेतुं युत्तोति आहुनेय्यो. अथ वा दूरतोपि आगन्त्वा सब्बं सापतेय्यम्पि एत्थ हुनितब्बं, सक्कादीनम्पि आहवनं अरहतीति वा आहवनीयो. यो चायं ब्राह्मणानं आहवनीयो नाम अग्गि, यत्थ हुतं महप्फलन्ति तेसं लद्धि, सो चे हुतस्स महप्फलताय आहवनीयो, सङ्घोव आहवनीयो. सङ्घे हुतञ्हि महप्फलं होति. यथाह –
‘‘यो च वस्ससतं जन्तु, अग्गिं परिचरे वने;
एकञ्च भावितत्तानं, मुहुत्तमपि पूजये;
सा एव पूजना सेय्यो, यञ्चे वस्ससतं हुत’’न्ति. (ध. प. १०७);
तयिदं निकायन्तरे ‘‘आहवनीयो’’ति पदं इध ‘‘आहुनेय्यो’’ति इमिना पदेन अत्थतो एकं, ब्यञ्जनतो पन किञ्चिमत्तमेव नानं, तस्मा एवमत्थवण्णना कता.
पाहुनेय्योति एत्थ पन पाहुनं वुच्चति दिसाविदिसतो आगतानं पियमनापानं ञातिमित्तानं अत्थाय सक्कारेन पटियत्तं आगन्तुकदानं, तम्पि ठपेत्वा ते तथारूपे पाहुनके सङ्घस्सेव दातुं युत्तं. तथा हेस एकबुद्धन्तरेपि दिस्सति अब्बोकिण्णञ्च. अयं पनेत्थ पदत्थो – ‘‘पियमनापत्तकरेहि धम्मेहि समन्नागतो’’ति एवं पाहुनमस्स दातुं युत्तं, पाहुनञ्च पटिग्गहेतुं युत्तोति पाहुनेय्यो. येसं पन पाहवनीयोति पाळि, तेसं यस्मा सङ्घो पुब्बकारं अरहति, तस्मा सङ्घो सब्बपठमं आनेत्वा एत्थ हुनितब्बन्ति पाहवनीयो, सब्बप्पकारेन वा आहवनं अरहतीति पाहवनीयो. स्वायमिध तेनेव अत्थेन पाहुनेय्योति वुच्चति.
‘‘दक्खिणा’’ति परलोकं सद्दहित्वा दातब्बदानं, तं दक्खिणं अरहति दक्खिणाय वा हितो महप्फलभावकरणेन विसोधनतोति दक्खिणेय्यो. उभो हत्थे सिरसि पतिट्ठपेत्वा सब्बलोकेन करियमानं अञ्जलिकम्मं अरहतीति अञ्जलिकरणीयो. अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति सब्बलोकस्स असदिसं पुञ्ञविरूहनट्ठानं. यथा हि रत्तसालीनं वा यवानं वा विरूहनट्ठानं ‘‘रत्तसालिक्खेत्तं यवक्खेत्त’’न्ति वुच्चति, एवं सङ्घो सदेवकस्स लोकस्स पुञ्ञविरूहनट्ठानं. सङ्घं निस्साय हि लोकस्स नानप्पकारहितसुखनिब्बत्तकानि पुञ्ञानि विरूहन्ति, तस्मा सङ्घो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. इधापि –
‘‘ये केचि सङ्घं सरणं गतासे…पे…. (दी. नि. २.३३२; सं. नि. १.३७);
‘‘सङ्घोति कित्तयन्तस्स, काये भवति या पीति…पे…’’.
‘‘साधु खो, देवानमिन्द, सङ्घं सरणगमनं होति, सङ्घं सरणगमनहेतु खो देवानमिन्द…पे… दिब्बेहि फोट्ठब्बेही’’ति (सं. नि. ४.३४१) –
आदीनं सुत्तपदानं वसेन सङ्घे पसादस्स फलविसेसयोगो, तेनस्स अग्गता अग्गविपाकता च वेदितब्बा. तथा अनुत्तरियपटिलाभो सत्तमभवादितो पट्ठाय वट्टदुक्खसमुच्छेदो अनुत्तरसुखाधिगमोति एवमादिउळारफलनिप्फादनवसेन अग्गविपाकता वेदितब्बा.
गाथासु अग्गतोति अग्गे रतनत्तये, अग्गभावतो वा पसन्नानं. अग्गं धम्मन्ति अग्गसभावं बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपत्तिं रतनत्तयस्स अनञ्ञसाधारणं उत्तमसभावं, दसबलादिस्वाक्खाततादिसुप्पटिपन्नतादिगुणसभावं वा विजानतं विजानन्तानं. एवं साधारणतो अग्गप्पसादवत्थुं दस्सेत्वा इदानि असाधारणतो तं विभागेन दस्सेतुं ‘‘अग्गे बुद्धे’’तिआदि वुत्तं. तत्थ पसन्नानन्ति अवेच्चप्पसादेन इतरप्पसादेन च पसन्नानं अधिमुत्तानं. विरागूपसमेति विरागे उपसमे च, सब्बस्स रागस्स सब्बेसं किलेसानं अच्चन्तविरागहेतुभूते अच्चन्तउपसमहेतुभूते चाति अत्थो. सुखेति वट्टदुक्खक्खयभावेन सङ्खारूपसमसुखभावेन च सुखे.
अग्गस्मिं दानं ददतन्ति अग्गे रतनत्तये दानं देन्तानं देय्यधम्मं परिच्चजन्तानं. तत्थ धरमानं भगवन्तं चतूहि पच्चयेहि उपट्ठहन्ता पूजेन्ता सक्करोन्ता परिनिब्बुतञ्च भगवन्तं उद्दिस्स धातुचेतियादिके उपट्ठहन्ता पूजेन्ता सक्करोन्ता बुद्धे दानं ददन्ति नाम. ‘‘धम्मं पूजेस्सामा’’ति धम्मधरे पुग्गले चतूहि पच्चयेहि उपट्ठहन्ता पूजेन्ता सक्करोन्ता धम्मञ्च चिरट्ठितिकं करोन्ता धम्मे दानं ददन्ति नाम. तथा अरियसङ्घं चतूहि पच्चयेहि उपट्ठहन्ता पूजेन्ता सक्करोन्ता तं उद्दिस्स इतरस्मिम्पि तथा पटिपज्जन्ता सङ्घे दानं ददन्ति नाम. अग्गं पुञ्ञं पवड्ढतीति एवं रतनत्तये पसन्नेन चेतसा उळारं परिच्चागं उळारञ्च पूजासक्कारं पवत्तेन्तानं दिवसे दिवसे अग्गं उळारं कुसलं उपचीयति. इदानि तस्स पुञ्ञस्स अग्गविपाकताय अग्गभावं दस्सेतुं ‘‘अग्गं आयू’’तिआदि वुत्तं. तत्थ अग्गं आयूति दिब्बं वा मानुसं वा अग्गं उळारतमं आयु. पवड्ढतीति उपरूपरि ब्रूहति. वण्णोति रूपसम्पदा. यसोति परिवारसम्पदा. कित्तीति थुतिघोसो. सुखन्ति कायिकं चेतसिकञ्च सुखं. बलन्ति कायबलं ञाणबलञ्च.
अग्गस्स दाताति अग्गस्स रतनत्तयस्स दाता, अथ वा अग्गस्स देय्यधम्मस्स दानं उळारं कत्वा तत्थ पुञ्ञं पवत्तेता. अग्गधम्मसमाहितोति अग्गेन पसादधम्मेन दानादिधम्मेन च समाहितो समन्नागतो अचलप्पसादयुत्तो, तस्स वा विपाकभूतेहि बहुजनस्स पियमनापतादिधम्मेहि युत्तो. अग्गप्पत्तो पमोदतीति यत्थ यत्थ सत्तनिकाये उप्पन्नो, तत्थ तत्थ अग्गभावं सेट्ठभावं अधिगतो, अग्गभावं वा लोकुत्तरमग्गफलं अधिगतो पमोदति अभिरमति परितुस्सतीति.
पठमसुत्तवण्णना निट्ठिता.