५. तण्हासंयोजनसुत्तवण्णना
१५. पञ्चमे यस्स विज्जति, तं पुग्गलं दुक्खेहि, कम्मं वा विपाकेहि, भवयोनिगतिविञ्ञाणट्ठितिसत्तावासे वा भवन्तरादीहि संयोजेतीति संयोजनं. तण्हायनट्ठेन तण्हा, तसति सयं परितसति, तसन्ति वा एतायाति तण्हा. सञ्ञुत्ताति चक्खादीसु अभिनिवेसवत्थूसु बद्धा. सेसं वुत्तनयमेव. कामञ्चेत्थ अविज्जायपि संयोजनभावो तण्हाय च नीवरणभावो अत्थियेव, तथापि अविज्जाय पटिच्छादितादीनवेहि भवेहि तण्हा सत्ते संयोजेतीति इमस्स विसेसस्स दस्सनत्थं पुरिमसुत्ते अविज्जा नीवरणभावेन, इध च तण्हा संयोजनभावेनेव वुत्ता. किञ्च नीवरणसंयोजनप्पधानस्स दस्सनत्थं. यथा हि नीवरणभावेन अविज्जा संकिलेसधम्मानं पधानभूता पुब्बङ्गमा च, एवं संयोजनभावेन नेसं तण्हाति तदधीनप्पधानभावं दस्सेतुं सुत्तद्वये एवमेते धम्मा वुत्ता. अपिच विसेसेन अविज्जा निब्बानसुखं निवारेतीति ‘‘नीवरण’’न्ति वुत्ता, तण्हा संसारदुक्खेन सत्ते संयोजेतीति ‘‘संयोजन’’न्ति.
दस्सनगमनन्तरायकरणतो वा विज्जाचरणविपक्खतो द्वयं द्विधा वुत्तं. विज्जाय हि उजुविपच्चनीकभूता अविज्जा निब्बानदस्सनस्स अविपरीतदस्सनस्स च विसेसतो अन्तरायकरा, चरणधम्मानं उजुविपच्चनीकभूता तण्हा गमनस्स सम्मापटिपत्तिया अन्तरायकराति; एवमयं अविज्जाय निवुतो अन्धीकतो तण्हाय संवुतो बद्धो अस्सुतवा पुथुज्जनो अन्धो विय बद्धो महाकन्तारं, संसारकन्तारं नातिवत्तति. अनत्थुप्पत्तिहेतुद्वयदस्सनत्थम्पि द्वयं द्विधा वुत्तं. अविज्जागतो हि पुग्गलो बालभावेन अत्थं परिहापेति, अनत्थञ्च अत्तनो करोति, अकुसलो विय आतुरो असप्पायकिरियाय. जानन्तोपि बालो बालभावेन अत्थं परिहापेति, अनत्थञ्च करोति जानन्तो विय रोगी असप्पायसेवी. मक्कटालेपोपमसुत्तं चेतस्स अत्थस्स साधकं.
पटिच्चसमुप्पादस्स मूलकारणदस्सनत्थम्पेत्थ द्वयं द्विधा वुत्तं. विसेसेन हि सम्मोहस्स बलवभावतो अविज्जाखेत्तं अतीतो अद्धा, पत्थनाय बलवभावतो तण्हाखेत्तं अनागतो अद्धा. तथा हि बालजनो सम्मोहबहुलो अतीतमनुसोचति, तस्स अविज्जापच्चया सङ्खाराति सब्बं नेतब्बं. पत्थनाबहुलो अनागतं पजप्पति, तस्स तण्हापच्चया उपादानन्तिआदि सब्बं नेतब्बं. तेनेव तासं पुब्बन्ताहरणेन अपरन्तपटिसन्धानेन चस्स यथाक्कमं मूलकारणता दस्सिताति वेदितब्बन्ति.
गाथासु तण्हादुतियोति तण्हासहायो. तण्हा हि निरुदककन्तारे मरीचिकाय उदकसञ्ञा विय पिपासाभिभूतं अप्पटिकारदुक्खाभिभूतम्पि सत्तं अस्सादसन्दस्सनवसेन सहायकिच्चं करोन्ती भवादीसु अनिब्बिन्दं कत्वा परिब्भमापेति, तस्मा तण्हा पुरिसस्स ‘‘दुतिया’’ति वुत्ता. ननु च अञ्ञेपि किलेसादयो भवाभिनिब्बत्तिया पच्चयाव? सच्चमेतं, न पन तथा विसेसप्पच्चयो यथा तण्हा. तथा हि सा कुसलेहि विना अकुसलेहि, कामावचरादिकुसलेहि च विना रूपावचरादिकुसलेहि भवनिब्बत्तिया विसेसप्पच्चयो, यतो समुदयसच्चन्ति वुच्चतीति. इत्थभावञ्ञथाभावन्ति इत्थभावो च अञ्ञथाभावो च इत्थभावञ्ञथाभावो. सो एतस्स अत्थीति इत्थभावञ्ञथाभावो संसारो, तं तत्थ इत्थभावो मनुस्सत्तं, अञ्ञथाभावो ततो अवसिट्ठसत्तावासा. इत्थभावो वा तेसं तेसं सत्तानं पच्चुप्पन्नो अत्तभावो, अञ्ञथाभावो अनागतत्तभावो. एवरूपो वा अञ्ञोपि अत्तभावो इत्थभावो, न एवरूपो अञ्ञथाभावो. तं इत्थभावञ्ञथाभावं संसारं खन्धधातुआयतनपटिपाटिं नातिवत्तति, न अतिक्कमति.
एतमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवन्ति एतं सकलवट्टदुक्खस्स सम्भवं समुदयं तण्हं आदीनवं आदीनवतो ञत्वाति अत्थो. अथ वा एतमादीनवं ञत्वाति एतं यथावुत्तं संसारनातिवत्तनं आदीनवं दोसं ञत्वा. तण्हं दुक्खस्स सम्भवन्ति तण्हञ्च वुत्तनयेन वट्टदुक्खस्स पधानकारणन्ति ञत्वा. वीततण्हो अनादानो, सतो भिक्खु, परिब्बजेति एवं तीहि परिञ्ञाहि परिजानन्तो विपस्सनं वड्ढेत्वा मग्गपटिपाटिया तण्हं विगमेन्तो अग्गमग्गेन सब्बसो वीततण्हो विगततण्हो, ततो एव चतूसु उपादानेसु कस्सचिपि अभावेन आयतिं पटिसन्धिसङ्खातस्स वा आदानस्स अभावेन अनादानो, सतिवेपुल्लप्पत्तिया सब्बत्थ सतोकारिताय सतो भिन्नकिलेसो भिक्खु परिब्बजे चरेय्य, खन्धपरिनिब्बानेन वा सङ्खारप्पवत्तितो अपगच्छेय्याति अत्थो.
पञ्चमसुत्तवण्णना निट्ठिता.