६. पठमसेखसुत्तवण्णना

१६. छट्ठे सेखस्साति एत्थ केनट्ठेन सेखो? सेक्खधम्मपटिलाभतो सेखो. वुत्तञ्हेतं –

‘‘कित्तावता नु खो, भन्ते, सेखो होतीति? इध, भिक्खु, सेखाय सम्मादिट्ठिया समन्नागतो होति…पे… सेखेन सम्मासमाधिना समन्नागतो होति. एत्तावता खो, भिक्खु, सेखो होती’’ति (सं. नि. ५.१३).

अपिच सिक्खतीति सेखो. वुत्तम्पि चेतं –

‘‘सिक्खतीति खो, भिक्खु, तस्मा सेखोति वुच्चति. किञ्च सिक्खति? अधिसीलम्पि सिक्खति, अधिचित्तम्पि सिक्खति, अधिपञ्ञम्पि सिक्खति. सिक्खतीति खो, भिक्खु, तस्मा सेखोति वुच्चती’’ति (अ. नि. ३.८६).

योपि कल्याणपुथुज्जनो अनुलोमप्पटिपदाय परिपूरकारी सीलसम्पन्नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियानुयोगमनुयुत्तो पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगमनुयुत्तो विहरति – ‘‘अज्ज वा स्वे वा अञ्ञतरं सामञ्ञफलं अधिगमिस्सामी’’ति, सोपि वुच्चति सिक्खतीति सेखोति. इमस्मिं अत्थे न पटिविज्झन्तोव सेखो अधिप्पेतो, अथ खो कल्याणपुथुज्जनोपि. अप्पत्तं मानसं एतेनाति अप्पत्तमानसो. मानसन्ति ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (सं. नि. १.१५१; महाव. ३३) एत्थ रागो मानसन्ति वुत्तो. ‘‘चित्तं मनो मानस’’न्ति (ध. स. ६३, ६५) एत्थ चित्तं. ‘‘अप्पत्तमानसो सेखो, कालं कयिरा जने सुता’’ति (सं. नि. १.१५९) एत्थ अरहत्तं. इधापि अरहत्तमेव अधिप्पेतं. तेन अप्पत्तअरहत्तस्साति वुत्तं होति.

अनुत्तरन्ति सेट्ठं, असदिसन्ति अत्थो. चतूहि योगेहि खेमं अनुपद्दुतन्ति योगक्खेमं, अरहत्तमेव अधिप्पेतं. पत्थयमानस्साति द्वे पत्थना तण्हापत्थना, कुसलच्छन्दपत्थना च. ‘‘पत्थयमानस्स हि जप्पितानि, पवेधितं वापि पकप्पितेसू’’ति (सु. नि. ९०८; महानि. १३७) एत्थ तण्हापत्थना.

‘‘छिन्नं पापिमतो सोतं, विद्धस्तं विनळीकतं;

पामोज्जबहुला होथ, खेमं पत्थेथ भिक्खवो’’ति. (म. नि. १.३५२);

एत्थ कत्तुकम्यताकुसलच्छन्दपत्थना, अयमेव इधाधिप्पेता. तेन पत्थयमानस्साति तं योगक्खेमं गन्तुकामस्स तन्निन्नस्स तप्पोणस्स तप्पब्भारस्साति अत्थो. विहरतोति एकं इरियापथदुक्खं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरतो. अथ वा ‘‘सब्बे सङ्खारा अनिच्चाति अधिमुच्चन्तो सद्धाय विहरती’’तिआदिना निद्देसनयेन चेत्थ अत्थो दट्ठब्बो. अज्झत्तिकन्ति नियकज्झत्तसङ्खाते अज्झत्ते भवं अज्झत्तिकं. अङ्गन्ति कारणं. इति करित्वाति एवं कत्वा. न अञ्ञं एकङ्गम्पि समनुपस्सामीति एत्थ अयं सङ्खेपत्थो – भिक्खवे, अज्झत्तं अत्तनो सन्ताने समुट्ठितं कारणन्ति कत्वा अञ्ञं एककारणम्पि न समनुपस्सामि यं एवं बहूपकारं, यथयिदं योनिसो मनसिकारोति उपायमनसिकारो, पथमनसिकारो, अनिच्चादीसु अनिच्चादिनयेनेव मनसिकारो, अनिच्चानुलोमिकेन वा चित्तस्स आवट्टना अन्वावट्टना आभोगो समन्नाहारो मनसिकारो. अयं योनिसो मनसिकारो.

इदानि योनिसो मनसिकारस्स आनुभावं दस्सेतुं ‘‘योनिसो, भिक्खवे, भिक्खु मनसि करोन्तो अकुसलं पजहति, कुसलं भावेती’’ति वुत्तं. तत्थ योनिसो मनसि करोन्तोति ‘‘इदं दुक्खं अरियसच्चं, अयं दुक्खसमुदयो अरियसच्चं, अयं दुक्खनिरोधो अरियसच्चं, अयं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’’न्ति चतूसु अरियसच्चेसु योनिसो मनसिकारं पवत्तेन्तो.

तत्रायं अत्थविभावना – यदिपि इदं सुत्तं अविसेसेन सेक्खपुग्गलवसेन आगतं, चतुमग्गसाधारणवसेन पन सङ्खेपेनेव कम्मट्ठानं कथयिस्साम. यो चतुसच्चकम्मट्ठानिको योगावचरो ‘‘तण्हावज्जा तेभूमका खन्धा दुक्खं, तण्हा समुदयो, उभिन्नं अप्पवत्ति निरोधो, निरोधसम्पापको मग्गो’’ति एवं पुब्बे एव आचरियसन्तिके उग्गहितचतुसच्चकम्मट्ठानो. सो अपरेन समयेन विपस्सनामग्गं समारुळ्हो समानो तेभूमके खन्धे ‘‘इदं दुक्ख’’न्ति योनिसो मनसि करोति, उपायेन पथेन समन्नाहरति चेव विपस्सति च. विपस्सना हि इध मनसिकारसीसेन वुत्ता. या पनायं तस्स दुक्खस्स समुट्ठापिका पुरिमभविका तण्हा, अयं दुक्खसमुदयोति योनिसो मनसि करोति. यस्मा पन इदं दुक्खं, अयञ्च समुदयो इदं ठानं पत्वा निरुज्झन्ति न पवत्तन्ति, तस्मा यदिदं निब्बानं नाम, अयं दुक्खनिरोधोति योनिसो मनसि करोति. निरोधसम्पापकं अट्ठङ्गिकं मग्गं, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति योनिसो मनसि करोति, उपायेन पथेन समन्नाहरति चेव विपस्सति च.

तत्रायं उपायो – अभिनिवेसो नाम खन्धे होति, न विवट्टे, तस्मा अयमत्थो – ‘‘इमस्मिं काये पथवीधातु, आपोधातू’’तिआदिना (दी. नि. २.३७८) नयेन चत्तारि महाभूतानि तदनुसारेन उपादारूपानि च परिग्गहेत्वा ‘‘अयं रूपक्खन्धो’’ति ववत्थपेति. तं ववत्थापयतो उप्पन्ने तदारम्मणे चित्तचेतसिकधम्मे ‘‘इमे चत्तारो अरूपक्खन्धा’’ति ववत्थपेति. ततो ‘‘इमे पञ्चक्खन्धा दुक्ख’’न्ति ववत्थपेति. ते पन सङ्खेपतो नामञ्च रूपञ्चाति द्वे भागा होन्ति. इदञ्च नामरूपं सहेतु सप्पच्चयं उप्पज्जति, तस्स अयं अविज्जाभवतण्हादिको हेतु, अयं आहारादिको पच्चयोति हेतुप्पच्चये ववत्थपेति. सो तेसं पच्चयानञ्च पच्चयुप्पन्नानञ्च याथावसरसलक्खणं ववत्थपेत्वा ‘‘इमे धम्मा अहुत्वा भवन्ति, हुत्वा निरुज्झन्ति, तस्मा अनिच्चा’’ति अनिच्चलक्खणं आरोपेति, ‘‘उदयब्बयपटिपीळितत्ता दुक्खा’’ति दुक्खलक्खणं आरोपेति, ‘‘अवसवत्तनतो अनत्ता’’ति अनत्तलक्खणं आरोपेति.

एवं तिलक्खणानि आरोपेत्वा विपस्सन्तो उदयब्बयञाणुप्पत्तिया उप्पन्ने ओभासादिके विपस्सनुपक्किलेसे ‘अमग्गो’ति उदयब्बयञाणमेव ‘‘अरियमग्गस्स उपायभूतो पुब्बभागमग्गो’’ति मग्गामग्गं ववत्थपेत्वा पुन उदयब्बयञाणं पटिपाटिया भङ्गञाणादीनि च उप्पादेन्तो सोतापत्तिमग्गादयो पापुणाति. तस्मिं खणे चत्तारि सच्चानि एकप्पटिवेधेनेव पटिविज्झति, एकाभिसमयेन अभिसमेति. तत्थ दुक्खं परिञ्ञापटिवेधेन पटिविज्झन्तो, समुदयं पहानप्पटिवेधेन पटिविज्झन्तो सब्बं अकुसलं पजहति, निरोधं सच्छिकिरियापटिवेधेन पटिविज्झन्तो मग्गं भावनापटिवेधेन पटिविज्झन्तो सब्बं कुसलं भावेति. अरियमग्गो हि निप्परियायतो कुच्छितसलनादिअत्थेन कुसलो, तस्मिञ्च भाविते सब्बेपि कुसला अनवज्जबोधिपक्खियधम्मा भावनापारिपूरिं गच्छन्तीति. एवं योनिसो मनसि करोन्तो अकुसलं पजहति, कुसलं भावेति. तथा हि वुत्तं – ‘‘इदं दुक्खन्ति योनिसो मनसि करोति, अयं दुक्खसमुदयोति योनिसो मनसि करोती’’तिआदि (म. नि. १.२१). अपरम्पि वुत्तं ‘‘योनिसो मनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सती’’ति (सं. नि. ५.५५).

योनिसो मनसिकारोति गाथाय अयं सङ्खेपत्थो – सिक्खति, सिक्खापदानि तस्स अत्थि, सिक्खनसीलोति वा सेखो. संसारे भयं इक्खतीति भिक्खु. तस्स सेखस्स भिक्खुनो उत्तमत्थस्स अरहत्तस्स पत्तिया अधिगमाय यथा योनिसो मनसिकारो, एवं बहुकारो बहूपकारो अञ्ञो कोचि धम्मो नत्थि. कस्मा? यस्मा योनिसो उपायेन मनसिकारं पुरक्खत्वा पदहं चतुब्बिधसम्मप्पधानवसेन पदहन्तो, खयं दुक्खस्स पापुणे संकिलेसवट्टदुक्खस्स परिक्खयं परियोसानं निब्बानं पापुणे अधिगच्छेय्य, तस्मा योनिसो मनसिकारो बहुकारोति.

छट्ठसुत्तवण्णना निट्ठिता.