१. पटिच्चवारवण्णना

१. पच्चयानुलोमं

(१.) विभङ्गवारो

५३. इदानि या एता पण्णत्तिवारे कुसलत्तिकं निस्साय हेतुपच्चयादिवसेन एकूनपञ्ञासं आदिं कत्वा नयमत्तं दस्सेन्तेन अपरिमाणा पुच्छा दस्सिता. तत्थ कुसलाकुसलादीनं सहुप्पत्तिया अभावतो या पुच्छा ‘‘कुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति हेतुपच्चया’’ति एवं विस्सज्जनं न लभन्ति. ता पहाय या विस्सज्जनं लभन्ति, तायेव विस्सज्जेतुं अयं कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चयातिआदिना नयेन पटिच्चवारस्स निद्देसवारो आरद्धो.

तत्थ सिया – सचे इमा हेतुपच्चयादिवसेन एकूनपञ्ञासं पुच्छा सब्बसो विस्सज्जनं न लभन्ति, अथ कस्मा दस्सिता? ननु या लभन्ति, तायेव दस्सेतब्बाति? आम, दस्सेतब्बा सियुं. तथा दस्सियमाना पन सब्बेसु तिकदुकपट्ठानादीसु एकेकस्मिं तिके, दुके, दुकतिके, तिकदुके, तिकतिके, दुकदुके च सङ्खेपं अकत्वा दस्सेतब्बायेव भवेय्युं. कस्मा? यस्मा या कुसलत्तिके लभन्ति, न तायेव वेदनात्तिकादीसु. धम्मानुलोमपच्चनीये च तिकपट्ठाने वितक्कत्तिकपीतित्तिकानं विस्सज्जने सब्बापेता विस्सज्जनं लभन्ति, तस्मा उक्कट्ठपरिच्छेदेन एकेकस्मिं तिके यत्तकाहि पुच्छाहि भवितब्बं सब्बा कुसलत्तिके दस्सिता. एवं दस्सितासु हि या तत्थ विस्सज्जनं न लभन्ति, ता पहाय या लभन्ति, ता वुच्चमाना सक्का सुखेन विजानितुन्ति सुखेन विजाननत्थं सब्बापि कुसलत्तिके दस्सिता. या पनेत्थ विस्सज्जनं न लभन्ति, ता पहाय या लभन्ति, तायेव विस्सज्जिताति वेदितब्बा.

तत्थ कुसलं धम्मं पटिच्चाति चतुभूमककुसलधम्मेसु वेदनाक्खन्धादिभेदं एकं धम्मं पटिच्च पटिगन्त्वा सहुप्पत्तिसङ्खातेन सदिसभावेन पत्वा, तेन सद्धिं एकतो उप्पत्तिभावं उपगन्त्वाति अत्थो. कुसलो धम्मोति चतुभूमककुसलधम्मेसुयेव सञ्ञाक्खन्धादिभेदो एको धम्मो. उप्पज्जतीति उप्पादतो याव निरोधगमना उद्धं पज्जति, निब्बत्ततीतिपि अत्थो. अत्तानं लभति, उप्पादादयो तयोपि खणे पापुणातीति वुत्तं होति. हेतुपच्चयाति कुसलहेतुना हेतुपच्चयभावं साधेन्तेन.

एवं ‘‘उप्पज्जेय्या’’ति पुच्छाय ‘‘उप्पज्जती’’ति विस्सज्जनं वत्वा इदानि यं धम्मं पटिच्च यो धम्मो उप्पज्जति, तं धम्मं खन्धवसेन दस्सेतुं कुसलं एकं खन्धन्तिआदिमाह. तत्थ एकन्ति वेदनादीसु चतूसु यंकिञ्चि एकं. तयो खन्धाति यो यो पच्चयभावेन गहितो, तं तं ठपेत्वा अवसेसा तयो खन्धा. तयो खन्धेति वेदनादीसु यो एको खन्धो उप्पज्जतीति गहितो, तं ठपेत्वा सेसे तयो. द्वे खन्धेति वेदनासञ्ञादुकादीसु छसु दुकेसु येकेचि द्वे खन्धे पटिच्च. द्वे खन्धाति ये ये पच्चयभावेन गहिता, ते ते ठपेत्वा अवसेसा द्वे खन्धा कुसलहेतुना हेतुपच्चयभावं साधेन्तेन उप्पज्जन्तीति अत्थो.

यस्मा पन एको खन्धो एकस्सेव द्विन्नंयेव वा, द्वे वा पन एकस्सेव पच्चयो नाम नत्थि, तस्मा ‘‘एकं खन्धं पटिच्च एको खन्धो, एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो’’ति न वुत्तं. कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जतीतिआदीसुपि वुत्तनयेनेव अत्थो वेदितब्बो. चित्तसमुट्ठानं रूपन्ति इदं पटिच्चत्थस्स सहजातत्थत्ता यं कुसलेन सहजातञ्चेव हेतुपच्चयञ्च लभति, तं दस्सेतुं वुत्तं. परतोपि एवरूपेसु ठानेसु अयमेव नयो.

विपाकाब्याकतं किरियाब्याकतन्ति एत्थ हेतुपच्चयाभावतो अहेतुकं, रूपेन सद्धिं अनुप्पत्तितो आरुप्पविपाकञ्च न गहेतब्बं. पटिसन्धिक्खणेति कटत्तारूपसङ्खातस्स अब्याकतस्स अब्याकतं पटिच्च उप्पत्तिदस्सनत्थं वुत्तं. विपाकाब्याकतन्ति तस्मिं खणे विज्जमानाब्याकतवसेन वुत्तं. खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धाति इदं कटत्तारूपग्गहणेन वत्थुम्हि गहितेपि वत्थुं पटिच्च खन्धानं उप्पत्तिदस्सनत्थं वुत्तं.

एकं महाभूतन्तिआदि रूपाब्याकतं पटिच्च रूपाब्याकतस्स उप्पत्तिदस्सनत्थं वुत्तं. एकं खन्धन्तिआदीसु वुत्तनयेनेव पनेत्थ अत्थयोजना वेदितब्बा. एवं रूपाब्याकतम्हि भूते पटिच्च भूतानं उप्पत्तिं वत्वा इदानि भूते पटिच्च उपादारूपानं उप्पत्तिं दस्सेतुं महाभूते पटिच्च चित्तसमुट्ठानन्तिआदि वुत्तं. एवं सन्ते उपादारूपन्ति एत्तकमेव वत्तब्बं, इतरद्वयं कस्मा वुत्तन्ति? महाभूतेपि पटिच्च उप्पत्तिदस्सनत्थं. यञ्हि हेट्ठा ‘‘चित्तसमुट्ठानञ्च रूपं कटत्ता च रूप’’न्ति दस्सितं, तं न केवलं खन्धेयेव च पटिच्च उप्पज्जति, महाभूतेपि पन पटिच्च उप्पज्जतीति दस्सनत्थमिदं वुत्तन्ति वेदितब्बं. तत्थ चित्तसमुट्ठानं पवत्तेयेव, कटत्तारूपं पटिसन्धियम्पि. उपादारूपन्ति तस्सेव उभयस्स विसेसनं.

कुसले खन्धे च महाभूते च पटिच्चाति एत्थ चित्तसमुट्ठानाव महाभूता गहिता. चित्तसमुट्ठानं रूपन्ति एत्थ पन भूतरूपम्पि उपादारूपम्पि गहितं. ‘‘एकं महाभूतं पटिच्च तयो महाभूता’’तिआदिना नयेन हि भूतरूपम्पि खन्धे च महाभूते च पटिच्च उप्पज्जति. महाभूते पटिच्च उपादारूपन्ति वुत्तनयेन उपादारूपम्पि. अकुसलञ्च अब्याकतञ्चाति पञ्हाविस्सज्जनेसुपि एसेव नयो. एवं हेतुपच्चये नव पुच्छा विस्सज्जिता. एतायेव हि एत्थ लब्भन्ति, सेसा चत्तालीस मोघपुच्छाति न विस्सज्जिता. इमिना उपायेन आरम्मणपच्चयादीसुपि पुच्छाविस्सज्जनानं अत्थो वेदितब्बो. तत्थ तत्थ पन विचारेतब्बयुत्तकमेव विचारयिस्साम.

५४. आरम्मणपच्चये ताव रूपस्स आरम्मणपच्चयवसेन अनुप्पत्तितो तासु नवसु रूपमिस्सका पहाय तिस्सोव पुच्छा विस्सज्जिता. तेनेव च कारणेन ‘‘वत्थुं पटिच्च खन्धा’’ति वत्वा ‘‘खन्धे पटिच्च वत्थू’’ति न वुत्तं. न हि तं आरम्मणपच्चयेन उप्पज्जति.

५५. अधिपतिपच्चये विपाकाब्याकतन्ति लोकुत्तरमेव सन्धाय वुत्तं. तेनेवेत्थ ‘‘पटिसन्धिक्खणे’’ति न गहितं. सेसं हेतुपच्चयसदिसमेव.

५६. अनन्तरसमन्तरेसुपि रूपं न लब्भतीति आरम्मणपच्चये विय तिस्सोव पुच्छा.

५७. सहजातपच्चये पटिसन्धिक्खणेति पञ्चवोकारे पटिसन्धिवसेन वुत्तं. हेट्ठा पन पच्चयविभङ्गे ‘‘ओक्कन्तिक्खणे’’ति आगतं तम्पि इमिना सद्धिं अत्थतो एकं, ब्यञ्जनमत्तमेव हेत्थ नानन्ति. अपिच ‘‘तिण्णं सन्निपाता गब्भस्स अवक्कन्ति होती’’ति (म. नि. १.४०८) वचनतो ओक्कन्तीति पञ्चवोकारपटिसन्धियावेतं नामं. पटिसन्धीति सब्बभवसाधारणं. इध पन ‘‘कटत्ता च रूप’’न्तिआदिवचनतो पञ्चवोकारपटिसन्धियेव अधिप्पेता. सा हि रूपस्सपि अरूपस्सपि पच्चयभावञ्चेव पच्चयुप्पन्नभावञ्च सङ्गण्हाति, तस्मा परिपुण्णविस्सज्जना होतीति गहिता. बाहिरं एकं महाभूतन्ति अनिन्द्रियबद्धेसु पथवीपासाणादीसु महाभूतं सन्धाय वुत्तं. पच्चयविभङ्गवारस्मिञ्हि चत्तारो महाभूताति अज्झत्तिकञ्च बाहिरञ्च एकतो कत्वा गहितं. सङ्खेपदेसना हि सा. अयं पन वित्थारदेसना, तस्मा सब्बं विभजित्वा दस्सेन्तो ‘‘बाहिरं एकं महाभूत’’न्तिआदिमाह. असञ्ञसत्तानं एकं महाभूतं पटिच्चाति द्विसन्ततिसमुट्ठानभूतवसेन वुत्तं. महाभूते पटिच्च कटत्तारूपन्ति इदं पन कम्मसमुट्ठानवसेनेव वुत्तं. उपादारूपन्ति उतुसमुट्ठानवसेनेव.

५८. अञ्ञमञ्ञपच्चये खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धाति चतुन्नम्पि खन्धानं एकतो वत्थुना अञ्ञमञ्ञपच्चयतं दस्सेतुं वुत्तं.

५९. निस्सयपच्चये यस्मा पटिच्चत्थो नाम सहजातत्थो, तस्मा या हेट्ठा पच्चयविभङ्गवारे चक्खायतनादीनं निस्सयपच्चयता दस्सिता, न सा गहिता. चक्खायतनादीनि हि पुरेजातानि हुत्वा पच्चया होन्ति, इध सहजातमेव लब्भति. तेनेव वुत्तं – ‘‘निस्सयपच्चयो सहजातपच्चयसदिसो’’ति.

६०. उपनिस्सयपच्चये रूपस्स उपनिस्सयपच्चयाभावा तीणेव विस्सज्जनानि लब्भन्ति, तेन वुत्तं ‘‘आरम्मणपच्चयसदिस’’न्ति. तत्थ किञ्चापि न सब्बे कुसलाकुसलाब्याकता आरम्मणूपनिस्सयं लभन्ति, ये पन लभन्ति, तेसं वसेनेतं वुत्तन्ति वेदितब्बं.

६१. पुरेजातपच्चये वत्थुं पुरेजातपच्चयाति वत्थुं पटिच्च वत्थुना पुरेजातपच्चयतं साधेन्तेन उप्पज्जन्तीति अत्थो. विपाकाब्याकतं एकं खन्धन्ति एत्थ यं विपाकाब्याकतस्स वत्थु ओक्कन्तिक्खणे सहजातपच्चयो होति, तं पुरेजातपच्चयभाजनियत्ता इध न गहेतब्बं. येपि कुसलादयो आरुप्पे पुरेजातपच्चयं न लभन्ति, तेपि पुरेजातपच्चयभाजनियतोयेव इध न गहेतब्बा. आरम्मणं पन नियमतो पुरेजातपच्चयभावं न लभति. रूपायतनादीनि हि चक्खुविञ्ञाणादीनंयेव पुरेजातपच्चयतं साधेन्ति, मनोविञ्ञाणधातुया अतीतानागतानिपि आरम्मणं होन्तियेव. तस्मा इध न गहितं. खन्धवसेन हि अयं देसना, न विञ्ञाणधातुवसेन. ‘‘विपाकाब्याकतं एकं खन्ध’’न्ति देसनाय च सब्बापि विञ्ञाणधातुयो गहिता, न चक्खुविञ्ञाणधातुआदयो एवाति.

पच्छाजातो कुसलाकुसलानं पच्चयो न होति, अब्याकतस्सपि उपत्थम्भकोव न जनको, तस्मा ‘‘उप्पज्जति पच्छाजातपच्चया’’ति एवं वत्तब्बो एकधम्मोपि नत्थीति पच्छाजातपच्चयवसेन विस्सज्जनं न कतं.

६२. आसेवनपच्चये कामं सब्बा किरिया आसेवनपच्चयं न लभन्ति, लब्भमानवसेन पन ‘‘किरियाब्याकत’’न्ति वुत्तं. तस्मा जवनकिरियावेत्थ गहिताति वेदितब्बा.

६३. कम्मपच्चये कुसलाकुसलेसु एकक्खणिको कम्मपच्चयो वेदितब्बो, तथा किरियाब्याकते. विपाकाब्याकते पन नानाक्खणिकोपि, तथा पटिसन्धिक्खणे महाभूतानं. चित्तसमुट्ठानानं पन एकक्खणिको. कटत्तारूपानं नानाक्खणिकोव तथा असञ्ञसत्तरूपानं. कटत्तारूपं पनेत्थ जीवितिन्द्रियं. सेसं न एकन्ततो कम्मसमुट्ठानत्ता उपादारूपन्ति वुत्तं. एवं सन्तेपि इध कम्मसमुट्ठानमेव अधिप्पेतं.

६४. विपाकपच्चये कुसलाकुसलं किरियञ्च न लब्भतीति अब्याकतवसेनेव विस्सज्जनं कतं. चित्तसमुट्ठानन्ति विपाकचित्तसमुट्ठानमेव. कटत्तारूपन्ति यथालाभवसेन इन्द्रियरूपञ्च वत्थुरूपञ्च. उपादारूपन्ति तदवसेसं तस्मिं समये विज्जमानकं उपादारूपं.

६५. आहारपच्चये सब्बेसम्पि कुसलादीनं खन्धानं चित्तसमुट्ठानरूपस्स च अरूपाहारवसेन उप्पत्ति वेदितब्बा, तथा पटिसन्धिक्खणे महाभूतानं. चित्तसमुट्ठानन्ति भवङ्गादिचित्तसमुट्ठानं. आहारसमुट्ठानन्ति कबळीकाराहारसमुट्ठानं. चित्तसमुट्ठानन्ति कुसलाकुसलचित्तसमुट्ठानमेव. पच्चयविभङ्गवारे आहारपटिपाटिया पठमं कबळीकारो आहारो दस्सितो, इध पन कुसलं धम्मन्ति पुच्छावसेन पठमं अरूपाहारा दस्सिताति वेदितब्बा.

६६. इन्द्रियपच्चये पच्चयविभङ्गे इन्द्रियपटिपाटिया पठमं चक्खुन्द्रियादीनि दस्सितानि, इध पन कुसलादिपुच्छावसेन पठमं अरूपिन्द्रियानं पच्चयता दस्सिता. तत्थ कुसलादीसु यथालाभवसेन अरूपिन्द्रिया गहेतब्बा. असञ्ञसत्तानं भूतरूपेसुपि जीवितिन्द्रियन्ति.

६७. झानमग्गपच्चयेसु हेतुपच्चयसदिसमेव विस्सज्जनं, तेनेवेत्थ ‘‘हेतुपच्चयसदिस’’न्ति वुत्तं.

६८. सम्पयुत्तपच्चये विस्सज्जनं आरम्मणपच्चयगतिकं, तेनेवेत्थ ‘‘आरम्मणपच्चयसदिस’’न्ति वुत्तं.

६९. विप्पयुत्तपच्चये वत्थुं विप्पयुत्तपच्चयाति वत्थुं पटिच्च विप्पयुत्तपच्चया, वत्थुना विप्पयुत्तपच्चयतं साधेन्तेन उप्पज्जन्तीति अत्थो. खन्धे विप्पयुत्तपच्चयाति खन्धे पटिच्च विप्पयुत्तपच्चया, खन्धेहि विप्पयुत्तपच्चयतं साधेन्तेहि उप्पज्जतीति अत्थो. खन्धा वत्थुं विप्पयुत्तपच्चयाति वत्थुं पटिच्च खन्धा विप्पयुत्तपच्चया. वत्थुना विप्पयुत्तपच्चयतं साधेन्तेन उप्पज्जन्तीति अत्थो. चित्तसमुट्ठानरूपं खन्धे विप्पयुत्तपच्चयाति खन्धे पटिच्च विप्पयुत्तपच्चया चित्तसमुट्ठानं रूपं खन्धेहि विप्पयुत्तपच्चयतं साधेन्तेहि उप्पज्जतीति अत्थो. सेसविस्सज्जनेसुपि वत्थुं विप्पयुत्तपच्चयातिआदीसुपि वुत्तनयेनेवत्थो वेदितब्बो. विपाकाब्याकते चेत्थ वत्थुग्गहणेन चक्खादीनि सङ्गहितब्बानि. एकं महाभूतन्तिआदि रूपाब्याकतस्स पच्चयभावं दस्सेतुं वुत्तं. चित्तसमुट्ठानन्ति अब्याकतचित्तसमुट्ठानम्पि कुसलाकुसलचित्तसमुट्ठानम्पि.

७०. अत्थिपच्चये सब्बं सहजातपच्चयगतिकं. तेनेवेत्थ ‘‘सहजातपच्चयसदिस’’न्ति वुत्तं.

७१-७२. नत्थिविगता आरम्मणपच्चयगतिका, अविगतं सहजातगतिकं. तेनेवेत्थ ‘‘आरम्मणपच्चयसदिसं, सहजातपच्चयसदिस’’न्ति वुत्तं. इमे तेवीसति पच्चयाति सङ्खिपित्वा दस्सितानं वसेनेतं वुत्तं. वित्थारेतब्बाति या पुच्छा विस्सज्जनं लभन्ति, तासं वसेन वित्थारेतब्बा. अयं हेतुपच्चयं आदिं कत्वा एकमूलके पच्चयानुलोमे पटिच्चवारस्स कुसलत्तिकविस्सज्जने अत्थवण्णना.

(२.) सङ्ख्यावारो

७३. इदानि ये एत्थ हेतुपच्चयादीसु एकेकस्मिं पच्चये विस्सज्जनवारा लद्धा, ते गणनवसेन दस्सेतुं हेतुया नवातिआदि आरद्धं. तत्थ हेतुया नवाति हेतुपच्चये नव पुच्छाविस्सज्जनवारा होन्ति. सेय्यथिदं – कुसलेन कुसलं, कुसलेन अब्याकतं, कुसलेन कुसलाब्याकतं; अकुसलेन अकुसलं, अकुसलेन अब्याकतं, अकुसलेन अकुसलाब्याकतं, अब्याकतेन अब्याकतं, कुसलाब्याकतेन अब्याकतं, अकुसलाब्याकतेन अब्याकतन्ति.

आरम्मणे तीणीति कुसलेन कुसलं, अकुसलेन अकुसलं, अब्याकतेन अब्याकतं. अधिपतिया नवाति हेतुया वुत्तसदिसाव. द्वादससु हि पच्चयेसु नव नवाति वुत्तं. सब्बेसुपि पुच्छाविस्सज्जनानि हेतुपच्चयसदिसानेव. विभङ्गे पन अत्थि विसेसो. दससु पच्चयेसु तीणि तीणीति वुत्तं. सब्बेसुपि पुच्छाविस्सज्जनानि आरम्मणसदिसानेव. विभङ्गे पन अत्थि विसेसो. अञ्ञमञ्ञपच्चयस्मिञ्हि अब्याकतपदस्स विस्सज्जने रूपम्पि लब्भति, तथा पुरेजातपच्चये. आसेवनपच्चये विपाकानि चेव वीथिचित्तानि च न लब्भन्ति. विपाके एकन्ति अब्याकतमेव. एवमेत्थ सङ्खेपतो नव तीणि एकन्ति, तिविधोव वारपरिच्छेदो. वित्थारतो द्वादस नवका, दस तिका, एकं एककन्ति सब्बेसुपि तेवीसतिया पच्चयेसु एकूनचत्तालीसाधिकं वारसतं होति, एकूनचत्तालीसाधिकञ्च पुच्छासतं. एकूनचत्तालीसाधिकं पुच्छाविस्सज्जनसतन्तिपि तस्सेव नामं.

७४. एवं हेतुपच्चयादिके एकमूलके गणनं दस्सेत्वा इतो परेसु दुमूलकादीसु वित्थारदेसनं सङ्खिपित्वा एकमूलके दस्सिताय देसनाय लब्भमानगणनञ्ञेव आदाय वारपरिच्छेदं दस्सेतुं दुमूलके ताव हेतुपच्चया आरम्मणे तीणीतिआदिमाह. तत्रिदं लक्खणं – बहुगणनोपि पच्चयो अबहुगणनेन सद्धिं युत्तो तेन समानगणनोव होति. तेन वुत्तं ‘‘हेतुपच्चया आरम्मणे तीणी’’ति. हेतुआरम्मणदुके आरम्मणे वुत्तानि तीणेव विस्सज्जनानि लब्भन्तीति अत्थो. समानगणनो पन समानगणनेन सद्धिं युत्तो अपरिहीनगणनोव होति. तेन वुत्तं ‘‘हेतुपच्चया अधिपतिया नवा’’ति. हेताधिपतिदुके नवेव विस्सज्जनानि लब्भन्तीति अत्थो. विपाके एकन्ति हेतुविपाकदुके विपाके वुत्तं एकमेव विस्सज्जनं लब्भतीति एवं ताव दुमूलके वारपरिच्छेदो वेदितब्बो.

७५. तिमूलकादीसुपि इदमेव लक्खणं. तेनेवाह – हेतुपच्चया आरम्मणपच्चया अधिपतिया तीणीति. हेतारम्मणाधिपति तिके आरम्मणे वुत्तानि तीणेव विस्सज्जनानि लब्भन्तीति अत्थो. एवं सब्बत्थ नयो नेतब्बो.

७६-७९. द्वादसमूलके पन विपाकपच्चयो न लब्भति, तस्मा आसेवनपच्चया कम्मे तीणीति वत्वा विपाकं अपरामसित्वा आहारे तीणीति वुत्तं. तेरसमूलकादीसुपि एसेव नयो. ते पन सङ्खिपित्वा तेवीसतिमूलकोवेत्थ दस्सितो. सो दुविधो होति – सासेवनो वा सविपाको वा. तत्थ पठमं सासेवनो दस्सितो, सो तीणेव विस्सज्जनानि लभति. तेन वुत्तं ‘‘आसेवनपच्चया अविगते तीणी’’ति. सविपाको पन आसेवनं न लभति, तस्मा तं पहाय विपाकवसेन गणनाय दस्सनत्थं अनन्तरायेव ‘‘हेतुपच्चया…पे… विपाकपच्चया आहारे एक’’न्ति एकं नयं दस्सेत्वा पच्छा तेवीसतिमूलकोव दस्सितो. एतेसु पन द्वीसु तेवीसतिमूलकेसु किञ्चापि एकस्मिं विपाकपच्चयो नत्थि, एकस्मिं आसेवनपच्चयो, पच्छाजातपच्चयो पन उभयत्थापि. रुळ्हीसद्देन पनेते तेवीसतिमूलकात्वेव वेदितब्बा. तेसु सासेवने आसेवनस्स वसेन सब्बत्थ तीणेव विस्सज्जनानि, सविपाके विपाकपच्चयस्स वसेन एकमेवाति अयं हेतुपच्चयं आदिं कत्वा एकमूलकादीसु गणना.

यं पनेतं हेतुमूलकानन्तरं ‘‘आरम्मणे ठितेन सब्बत्थ तीणेव पञ्हा’’ति वुत्तं, तं आरम्मणपच्चयं आदिं कत्वा एकमूलकेपि दुमूलकादीसुपि सब्बत्थ आरम्मणपदे चेव आरम्मणेन सद्धिं सेसपच्चययोजनासु च यत्थ नवहि भवितब्बं, तत्थ तयोव पञ्हा होन्तीति दस्सनत्थं वुत्तं. विपाकपदे पन विपाकपदेन सद्धिं सेसपच्चययोजनासु च एकोव पञ्हो होतीति. इति यं हेट्ठा अवोचुम्ह ‘‘बहुगणनोपि पच्चयो अबहुगणनेन सद्धिं युत्तो तेन समानगणनो होती’’ति, तं सुवुत्तमेव.

८०-८५. इदानि ये आरम्मणादीनं पच्चयानं वसेन एकमूलकादयो दस्सेतब्बा, तेसु एकमूलको ताव हेतुएकमूलकेनेव सदिसोति एकस्मिम्पि पच्चये न दस्सितो. आरम्मणपच्चयवसेन पन दुमूलके गणनं दस्सेतुं आरम्मणपच्चया हेतुया तीणि, अधिपतिया तीणि…पे… अविगते तीणीति वुत्तं. एत्थ च ‘‘आरम्मणपच्चया अधिपतिया तीणि…पे… अविगते तीणी’’ति वत्तब्बे ये हेतुपच्चयादयो पच्चया बहुगणना, तेसं ऊनतरगणनेहि च समानगणनेहि च सद्धिं संसन्दने या गणना लब्भति, तं दस्सेतुं आरम्मणपच्चयस्स पुरिमभागे ठितम्पि हेतुपच्चयं पच्छिमभागेव ठपेत्वा ‘‘आरम्मणपच्चया हेतुया तीणी’’ति वुत्तं. तेनेतं आवि करोति – आरम्मणपच्चयो येन येन बहुतरगणनेन वा समानगणनेन वा पच्चयेन सद्धिं दुकतिकादिभेदं गच्छति, सब्बत्थ तीणेव पञ्हाविस्सज्जनानि वेदितब्बानि. विपाकपच्चयेन पन सद्धिं संसन्दने एकमेव लब्भति, तं विपाकपच्चयादिकाय गणनाय आवि भविस्सतीति इध न दस्सितं. या चेसा दुमूलके गणना दस्सिता, तिमूलकादीसुपि एसाव गणनाति आरम्मणपच्चयवसेन तिमूलकादयो न वित्थारिता.

इदानि अधिपतिपच्चयादिवसेन दुमूलकादीसु गणनं दस्सेतुं अधिपतिपच्चया हेतुया नवातिआदि वुत्तं. तत्थापि वुत्तनयेनेव पच्चयसन्निवेसो वेदितब्बो. यथा च अधिपतिपच्चया हेतुया नव, एवं सेसेसुपि हेतुना समानगणनासु नवेव. इति यो यो पच्चयो आदिम्हि तिट्ठति, तेन तेन सद्धिं समानगणनानं संसन्दने आदिम्हि ठितस्स वसेन गणना होति. तेन पन सद्धिं ऊनतरगणनानं संसन्दने ऊनतरगणनानंयेव वसेन गणना होतीति वेदितब्बो. यथा च आरम्मणपच्चयवसेन एवं अधिपतिपच्चयवसेनापि ततो परेसं अनन्तरादीनं वसेनापि तिमूलकादयो न वित्थारिता. तस्मा दुमूलके दस्सितगणनावसेनेव सब्बत्थ साधेतब्बा. तेनेव वुत्तं ‘‘एकेकं पच्चयं मूलकं कातुन सज्झायमग्गेन गणेतब्बा’’ति.

पच्चयानुलोमवण्णना.

पटिच्चवारो

पच्चयपच्चनीयवण्णना

८६-८७. पच्चयपच्चनीयं पन यस्मा कुसलपदे न लब्भति कुसलधम्मस्स हेतुपच्चयेन विना अनुप्पत्तितो, तस्मा अकुसलं धम्मं पटिच्चातिआदि आरद्धं. तत्थ नहेतुपच्चयाति हेतुपच्चयपटिक्खेपो हेतुपच्चयं विना अञ्ञेन पच्चयेन उप्पज्जतीति अत्थो. विचिकिच्छासहगतो उद्धच्चसहगतो मोहोति अयञ्हि सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च सयं हेतुपच्चयो होति, अञ्ञस्स पन सम्पयुत्तहेतुनो अभावा न हेतुपच्चया उप्पज्जतीति ठपेत्वा हेतुपच्चयं सेसेहि अत्तनो अनुरूपपच्चयेहि उप्पज्जति. इमिना नयेन सब्बपच्चयपटिक्खेपेसु अत्थो वेदितब्बो. अहेतुकं विपाकाब्याकतन्ति इदं रूपसमुट्ठापकवसेनेव वेदितब्बं. अञ्ञेसुपि एवरूपेसु एसेव नयो.

८८. नअधिपतिपच्चये कामं अधिपतिपि अत्तना सद्धिं दुतियस्स अधिपतिनो अभावा नअधिपतिपच्चयं लभति, यथा पन विचिकिच्छुद्धच्चसहगतो मोहो अहेतुको, न तथा अधिपतयो एव निराधिपति. छन्दादीसु पन अञ्ञतरं अधिपतिं अकत्वा कुसलादीनं उप्पत्तिकाले सब्बेपि कुसलादयो निराधिपतिनो. तस्मा मोहं विय विसुं अधिपतिमत्तमेव अनुद्धरित्वा सब्बसङ्गाहिकवसेन एसा ‘‘एकं खन्धं पटिच्च तयो खन्धा’’तिआदिका देसना कताति वेदितब्बा.

८९. नानन्तरनसमनन्तरेसु नारम्मणे विय रूपमेव पच्चयुप्पन्नं. तेन वुत्तं ‘‘नारम्मणपच्चयसदिस’’न्ति. सहजातपच्चयो परिहीनो. यथा चेस, तथा निस्सयअत्थिअविगतपच्चयापि. किं कारणा? एतेहि विना कस्सचि अनुप्पत्तितो. सहजातनिस्सयअत्थिअविगतपच्चयेपि हि पच्चक्खाय एकोपि रूपारूपधम्मो नुप्पज्जति, तस्मा ते परिहीना.

९०. नअञ्ञमञ्ञपच्चयविभङ्गे पटिसन्धिक्खणे विपाकाब्याकते खन्धे पटिच्च कटत्तारूपन्ति हदयवत्थुवज्जं वेदितब्बं.

९१. नउपनिस्सयपच्चयविभङ्गे रूपमेव पच्चयुप्पन्नं, तञ्हि उपनिस्सयं न लभति. अरूपं पन किञ्चापि आरम्मणूपनिस्सयपकतूपनिस्सये न लभेय्य, अनन्तरूपनिस्सयमुत्तकं पन नत्थि. तेन वुत्तं ‘‘नारम्मणपच्चयसदिस’’न्ति.

९२. नपुरेजाते चित्तसमुट्ठानरूपन्ति पञ्चवोकारवसेन वुत्तं.

९३. नपच्छाजातपच्चयाति एत्थ सहजातपुरेजातपच्चया सङ्गहं गच्छन्ति. तस्मा सहजातपच्चयसदिसा एत्थ पाळि, सा नअधिपतिपच्चये वित्थारिताति इध सङ्खित्ता. नासेवनपच्चये कुसलाकुसला पठमजवनवसेन वेदितब्बा, तथा किरियाब्याकतं. पाळि पन इधापि नअधिपतिपच्चये वित्थारितवसेन वेदितब्बा. तेनेवाह – ‘‘नपच्छाजातपच्चयम्पि नासेवनपच्चयम्पि नाधिपतिपच्चयसदिस’’न्ति.

९४-९७. नकम्मपच्चये विपाकचेतना नानाक्खणिककम्मपच्चयं लभतीति न गहिता. नाहारपच्चये एकच्चं रूपमेव पच्चयुप्पन्नं, तथा नइन्द्रियपच्चये.

९८. नझानपच्चये पञ्चविञ्ञाणधम्मा चेव एकच्चञ्च रूपं पच्चयुप्पन्नं. पञ्चविञ्ञाणस्मिञ्हि वेदना च चित्तेकग्गता च दुब्बलत्ता उपनिज्झानलक्खणं न पापुणन्तीति झानपच्चये न गहिता.

९९-१०२. नमग्गपच्चये अहेतुकविपाककिरियञ्चेव एकच्चञ्च रूपं पच्चयुप्पन्नं. नसम्पयुत्तनोनत्थिनोविगतेसु रूपमेव पच्चयुप्पन्नं. तेन वुत्तं ‘‘नारम्मणपच्चयसदिस’’न्ति.

१०३. नहेतुया द्वेति एकमूलकगणनाय यथापाळिमेव निय्याति.

१०४. दुमूलके नहेतुपच्चया नारम्मणे एकन्ति एत्थ किञ्चापि बहुगणनेन सद्धिं ऊनतरगणनस्स संसन्दने ऊनतरगणनवसेन नहेतुया विय द्वीहि भवितब्बं. नारम्मणवसेन पन अरूपधम्मानं परिहीनत्ता अब्याकतं पटिच्च रूपाब्याकतस्स उप्पत्तिं सन्धाय ‘‘एक’’न्ति वुत्तं. सब्बेसु एककेसुपि एसेव नयो. द्वेति वुत्तट्ठाने पन नहेतुया लद्धवसेन वारद्वयं वेदितब्बं.

१०५-१०६. तिमूलकादीसु पन सब्बेसु नारम्मणपच्चयस्स अपरिहीनत्ता एकमेव विस्सज्जनन्ति अयं पच्चनीये नहेतुपच्चयं आदिं कत्वा एकमूलकादीसु गणना.

१०७-१३०. नारम्मणपच्चयादयो पन एकमूलके ताव पुरिमेन सदिसत्ता इधापि न दस्सितायेव. नारम्मणपच्चयवसेन दुमूलके नारम्मणपच्चया, नहेतुया एकन्ति नहेतुदुमूलके वुत्तमेव. नाधिपतिया पञ्चाति नारम्मणपच्चये लद्धवसेन वेदितब्बाति एवं सब्बसंसन्दनेसु ऊनतरगणनस्सेव पच्चयस्स वसेन गणना वेदितब्बा. यत्थ यत्थ च नारम्मणपच्चयो पविसति, तत्थ तत्थ रूपमेव पच्चयुप्पन्नं. नानन्तरनसमनन्तरनअञ्ञमञ्ञनउपनिस्सयनाहारनइन्द्रियनसम्पयुत्तनोनत्थिनोविगतपच्चयानं पविट्ठट्ठानेपि एसेव नयो. नाहारनइन्द्रियनझाननमग्गपच्चया सब्बत्थ सदिसविस्सज्जना. नसहजातादिचतुक्कं इधापि परिहीनमेवाति इदमेत्थ लक्खणं. इमिना पन लक्खणेन सब्बेसु दुमूलकादीसु ‘‘अयं पच्चयो मूलं, अयमेत्थ दुमूलको, अयं तिमूलको, अयं सब्बमूलको’’ति सल्लक्खेत्वा ऊनतरगणनस्स पच्चयस्स वसेन गणना वेदितब्बाति.

पच्चयपच्चनीयवण्णना.

पच्चयानुलोमपच्चनीयवण्णना

१३१-१८९. इदानि अनुलोमपच्चनीये गणनं दस्सेतुं हेतुपच्चया नारम्मणे पञ्चातिआदि आरद्धं. तत्थ हेताधिपतिमग्गपच्चयेसु अनुलोमतो ठितेसु सहजातादयो चत्तारो सब्बट्ठानिकपच्चया, आहारिन्द्रियझानमग्गपच्चया चत्तारोति इमे अट्ठ पच्चनीयतो न लब्भन्ति. हेतुपच्चयादिवसेन हि उप्पज्जमानो धम्मो इमे अट्ठ पच्चये अलभन्तो नाम नत्थि. आरम्मणअनन्तरसमनन्तरउपनिस्सयसम्पयुत्तनत्थिविगतपच्चयेसु पन अनुलोमतो ठितेसु अरूपट्ठानिका पच्चनीकतो न लब्भन्ति. न हि आरम्मणपच्चयादीहि उप्पज्जमाना अनन्तरसमनन्तरपच्चयादयो न लभन्ति. सहजातअञ्ञमञ्ञनिस्सयकम्माहारिन्द्रियअत्थिअविगतपच्चयेसु पन अनुलोमतो ठितेसु चत्तारो सब्बट्ठानिकायेव, पच्चनीकतो न लब्भन्ति. एतेसञ्हि पच्चयानं वसेन उप्पज्जमानो सब्बट्ठानिके अलभन्तो नाम नत्थि. पच्छाजातपच्चयस्स अनुलोमतो ठानं नाम नत्थि. एवं सेसेसु अनुलोमतो ठितेसु ये च लब्भन्ति, ये च न लब्भन्ति, ते सल्लक्खेत्वा सब्बेसुपि दुमूलकादीसु नयेसु तेसं तेसं पच्चयानं संसन्दने ऊनतरगणनानंयेव वसेन गणना वेदितब्बाति.

पच्चयानुलोमपच्चनीयवण्णना.

पच्चयपच्चनीयानुलोमवण्णना

१९०. इदानि पच्चनीयानुलोमे गणनं दस्सेतुं नहेतुपच्चया आरम्मणे द्वेतिआदि आरद्धं. तत्थ हेतुम्हि पच्चनीकतो ठिते ठपेत्वा अधिपतिं अवसेसा अनुलोमतो लब्भन्ति. पच्छाजातो पन अनुलोमतो सब्बत्थेव न लब्भति, ये नव पच्चया ‘‘अरूपानञ्ञेवा’’ति वुत्ता, तेसु पुरेजातञ्च आसेवनञ्च ठपेत्वा अवसेसेसु सत्तसु पच्चनीकतो ठितेसु सेसा अरूपट्ठानिका अनुलोमतो न लब्भन्ति. यो हि आरम्मणादीहि नुप्पज्जति, न सो अनन्तरादयो लभति. पटिसन्धिविपाको पन पुरेजाततो, सब्बविपाको च सद्धिं किरियमनोधातुया आसेवनतो अनुप्पज्जमानोपि अनन्तरादयो लभति, तस्मा ‘‘पुरेजातञ्च आसेवनञ्च ठपेत्वा’’ति वुत्तं.

पुरेजातपच्छाजातआसेवनविपाकविप्पयुत्तेसु पच्चनीकतो ठितेसु एकं ठपेत्वा अवसेसा अनुलोमतो लब्भन्ति. कम्मपच्चये पच्चनीकतो ठिते ठपेत्वा विपाकपच्चयं अवसेसा अनुलोमतो लब्भन्ति. आहारिन्द्रियेसु पच्चनीकतो ठितेसु ठपेत्वा सब्बट्ठानिके चेव अञ्ञमञ्ञकम्माहारिन्द्रियपच्चये च अवसेसा अनुलोमतो न लब्भन्ति, इतरे युज्जमानकवसेन लब्भन्ति. झानपच्चये पच्चनीकतो ठिते. हेताधिपतिआसेवनमग्गपच्चया अनुलोमतो न लब्भन्ति. मग्गपच्चये पच्चनीकतो ठिते हेताधिपतिपच्चया अनुलोमतो न लब्भन्ति. विप्पयुत्तपच्चये पच्चनीकतो ठिते पुरेजातपच्चयं ठपेत्वा अवसेसा अनुलोमतो लब्भन्ति. एवं तेसु तेसु पच्चयेसु पच्चनीकतो ठितेसु ये ये अनुलोमतो न लब्भन्ति, ते ते ञत्वा तेसं तेसं पच्चयानं संसन्दने ऊनतरगणनानं वसेन गणना वेदितब्बा.

१९१-१९५. दुमूलकादीसु च नयेसु यं यं पच्चयं आदिं कत्वा ये ये दुकादयो दस्सिता, ते ते लब्भमानालब्भमानपच्चयवसेन यथा यथा दस्सिता, तथा तथा साधुकं सल्लक्खेतब्बा. तत्थ यं नहेतुवसेन दुमूलकादयो नये दस्सेन्तेन नहेतुपच्चया नारम्मणपच्चया…पे… नासेवनपच्चयाति वत्वा ‘‘याव आसेवना सब्बं सदिस’’न्ति वुत्तं. तस्स, ‘‘नअञ्ञमञ्ञपच्चया सहजाते एक’’न्तिआदीहि सदिसता वेदितब्बा. यं पन ‘‘नकम्मे गणिते पञ्च गण्हाती’’ति सीहळभासाय लिखितं, तस्सत्थो – नहेतुपच्चयं आदिं कत्वा नकम्मपच्चयाति एवं नकम्मपच्चयेन घटिते सहजाते एकन्ति एवं दस्सिता पञ्चेव पच्चया अनुलोमतो लब्भन्ति, न अञ्ञेति. एवं अञ्ञेसुपि एवरूपेसु ठानेसु ब्यञ्जनं अनादियित्वा अधिप्पेतत्थोयेव गहेतब्बो. एवरूपञ्हि ब्यञ्जनं अत्तनो सञ्ञानिबन्धनत्थं पोराणेहि सकसकभासाय लिखितं.

अपिच इमस्मिं पच्चनीयानुलोमे पच्चयुप्पन्नधम्मेसुपि अत्थि धम्मो कम्मपच्चयं लभति, न इन्द्रियपच्चयं. सो असञ्ञेसु चेव पञ्चवोकारे पवत्ते च रूपजीवितिन्द्रियवसेन वेदितब्बो. अत्थि धम्मो मग्गपच्चयं लभति, नहेतुपच्चयं. सो विचिकिच्छुद्धच्चसहजातमोहवसेन वेदितब्बो. अत्थि धम्मो झानपच्चयं लभति, नमग्गपच्चयं. सो मनोधातुअहेतुकमनोविञ्ञाणधातुवसेन वेदितब्बो. यत्थ कटत्तारूपानि नानाक्खणिककम्मवसेनेव कम्मपच्चयं लभन्ति, तत्थ रूपधम्मा हेताधिपतिविपाकिन्द्रियझानमग्गपच्चये न लभन्ति, सब्बट्ठानिका पच्चनीया न होन्ति. अहेतुके अधिपतिपच्चयो नत्थीति इमेसम्पि पकिण्णकानं वसेनेत्थ गणनवारो असम्मोहतो वेदितब्बो.

तत्रायं नयो – नहेतुपच्चया आरम्मणे द्वेति एत्थ ताव अहेतुकमोहो चेव अहेतुकविपाककिरिया च पच्चयुप्पन्नं, तस्मा अकुसलेनाकुसलं, अब्याकतेन अब्याकतं सन्धायेत्थ द्वेति वुत्तं. सेसेसुपि एसेव नयो. आसेवने पन विपाकं न लब्भति, तथा किरियमनोधातु. तस्मा किरियाहेतुमनोविञ्ञाणधातुवसेनेत्थ अब्याकतेन अब्याकतं वेदितब्बं. विपाके एकन्ति अब्याकतेन अब्याकतमेव. मग्गे एकन्ति अकुसलेन अकुसलमेव.

१९६-१९७. नारम्मणमूलके हेतुया पञ्चाति रूपमेव सन्धाय वुत्तं. तञ्हि कुसलं अकुसलं अब्याकतं कुसलाब्याकतं अकुसलाब्याकतञ्चाति पञ्च कोट्ठासे पटिच्च उप्पज्जति. सब्बपञ्चकेसु एसेव नयो. अञ्ञमञ्ञे एकन्ति भूतरूपानि चेव वत्थुञ्च सन्धाय वुत्तं. तानि हि नारम्मणपच्चया अञ्ञमञ्ञपच्चया उप्पज्जन्ति. तिमूलकेपि एसेव नयो.

१९८-२०२. नाधिपतिमूलके हेतुया नवाति अनुलोमे हेतुम्हि वुत्तानेव. तीणीतिआदीनिपि हेट्ठा अनुलोमे वुत्तसदिसानेव. तिमूलके द्वेति हेट्ठा नहेतुपच्चया आरम्मणे वुत्तसदिसानेव.

२०३-२३३. नपुरेजातमूलके हेतुया सत्ताति हेट्ठा ‘‘आरुप्पे कुसलं एकं खन्धं पटिच्चा’’तिआदिना नयेन पुरेजाते दस्सितानेव. सब्बसत्तकेसु एसेव नयो. नकम्ममूलके हेतुया तीणीतिआदीसु चेतनाव पच्चयुप्पन्ना. तस्मा कुसलं अकुसलं अब्याकतञ्च पटिच्च उप्पत्तिं सन्धाय तीणीति वुत्तं. इमिना नयेन ‘‘एकं द्वे तीणि पञ्च सत्त नवा’’ति आगतट्ठानेसु गणना वेदितब्बा. ‘‘चत्तारि छ अट्ठा’’ति इमा पन तिस्सो गणना नत्थेवाति.

पच्चयपच्चनीयानुलोमवण्णना.

निट्ठिता च पटिच्चवारस्स अत्थवण्णना.