१. कुसलत्तिकवण्णना

१. पटिच्चवारवण्णना

१. पच्चयानुलोमं

(१.) विभङ्गवारो

५३. इदानि या एता पण्णत्तिवारे कुसलत्तिकं निस्साय हेतुपच्चयादिवसेन एकूनपञ्ञासं आदिं कत्वा नयमत्तं दस्सेन्तेन अपरिमाणा पुच्छा दस्सिता. तत्थ कुसलाकुसलादीनं सहुप्पत्तिया अभावतो या पुच्छा ‘‘कुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति हेतुपच्चया’’ति एवं विस्सज्जनं न लभन्ति. ता पहाय या विस्सज्जनं लभन्ति, तायेव विस्सज्जेतुं अयं कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चयातिआदिना नयेन पटिच्चवारस्स निद्देसवारो आरद्धो.

तत्थ सिया – सचे इमा हेतुपच्चयादिवसेन एकूनपञ्ञासं पुच्छा सब्बसो विस्सज्जनं न लभन्ति, अथ कस्मा दस्सिता? ननु या लभन्ति, तायेव दस्सेतब्बाति? आम, दस्सेतब्बा सियुं. तथा दस्सियमाना पन सब्बेसु तिकदुकपट्ठानादीसु एकेकस्मिं तिके, दुके, दुकतिके, तिकदुके, तिकतिके, दुकदुके च सङ्खेपं अकत्वा दस्सेतब्बायेव भवेय्युं. कस्मा? यस्मा या कुसलत्तिके लभन्ति, न तायेव वेदनात्तिकादीसु. धम्मानुलोमपच्चनीये च तिकपट्ठाने वितक्कत्तिकपीतित्तिकानं विस्सज्जने सब्बापेता विस्सज्जनं लभन्ति, तस्मा उक्कट्ठपरिच्छेदेन एकेकस्मिं तिके यत्तकाहि पुच्छाहि भवितब्बं सब्बा कुसलत्तिके दस्सिता. एवं दस्सितासु हि या तत्थ विस्सज्जनं न लभन्ति, ता पहाय या लभन्ति, ता वुच्चमाना सक्का सुखेन विजानितुन्ति सुखेन विजाननत्थं सब्बापि कुसलत्तिके दस्सिता. या पनेत्थ विस्सज्जनं न लभन्ति, ता पहाय या लभन्ति, तायेव विस्सज्जिताति वेदितब्बा.

तत्थ कुसलं धम्मं पटिच्चाति चतुभूमककुसलधम्मेसु वेदनाक्खन्धादिभेदं एकं धम्मं पटिच्च पटिगन्त्वा सहुप्पत्तिसङ्खातेन सदिसभावेन पत्वा, तेन सद्धिं एकतो उप्पत्तिभावं उपगन्त्वाति अत्थो. कुसलो धम्मोति चतुभूमककुसलधम्मेसुयेव सञ्ञाक्खन्धादिभेदो एको धम्मो. उप्पज्जतीति उप्पादतो याव निरोधगमना उद्धं पज्जति, निब्बत्ततीतिपि अत्थो. अत्तानं लभति, उप्पादादयो तयोपि खणे पापुणातीति वुत्तं होति. हेतुपच्चयाति कुसलहेतुना हेतुपच्चयभावं साधेन्तेन.

एवं ‘‘उप्पज्जेय्या’’ति पुच्छाय ‘‘उप्पज्जती’’ति विस्सज्जनं वत्वा इदानि यं धम्मं पटिच्च यो धम्मो उप्पज्जति, तं धम्मं खन्धवसेन दस्सेतुं कुसलं एकं खन्धन्तिआदिमाह. तत्थ एकन्ति वेदनादीसु चतूसु यंकिञ्चि एकं. तयो खन्धाति यो यो पच्चयभावेन गहितो, तं तं ठपेत्वा अवसेसा तयो खन्धा. तयो खन्धेति वेदनादीसु यो एको खन्धो उप्पज्जतीति गहितो, तं ठपेत्वा सेसे तयो. द्वे खन्धेति वेदनासञ्ञादुकादीसु छसु दुकेसु येकेचि द्वे खन्धे पटिच्च. द्वे खन्धाति ये ये पच्चयभावेन गहिता, ते ते ठपेत्वा अवसेसा द्वे खन्धा कुसलहेतुना हेतुपच्चयभावं साधेन्तेन उप्पज्जन्तीति अत्थो.

यस्मा पन एको खन्धो एकस्सेव द्विन्नंयेव वा, द्वे वा पन एकस्सेव पच्चयो नाम नत्थि, तस्मा ‘‘एकं खन्धं पटिच्च एको खन्धो, एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो’’ति न वुत्तं. कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जतीतिआदीसुपि वुत्तनयेनेव अत्थो वेदितब्बो. चित्तसमुट्ठानं रूपन्ति इदं पटिच्चत्थस्स सहजातत्थत्ता यं कुसलेन सहजातञ्चेव हेतुपच्चयञ्च लभति, तं दस्सेतुं वुत्तं. परतोपि एवरूपेसु ठानेसु अयमेव नयो.

विपाकाब्याकतं किरियाब्याकतन्ति एत्थ हेतुपच्चयाभावतो अहेतुकं, रूपेन सद्धिं अनुप्पत्तितो आरुप्पविपाकञ्च न गहेतब्बं. पटिसन्धिक्खणेति कटत्तारूपसङ्खातस्स अब्याकतस्स अब्याकतं पटिच्च उप्पत्तिदस्सनत्थं वुत्तं. विपाकाब्याकतन्ति तस्मिं खणे विज्जमानाब्याकतवसेन वुत्तं. खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धाति इदं कटत्तारूपग्गहणेन वत्थुम्हि गहितेपि वत्थुं पटिच्च खन्धानं उप्पत्तिदस्सनत्थं वुत्तं.

एकं महाभूतन्तिआदि रूपाब्याकतं पटिच्च रूपाब्याकतस्स उप्पत्तिदस्सनत्थं वुत्तं. एकं खन्धन्तिआदीसु वुत्तनयेनेव पनेत्थ अत्थयोजना वेदितब्बा. एवं रूपाब्याकतम्हि भूते पटिच्च भूतानं उप्पत्तिं वत्वा इदानि भूते पटिच्च उपादारूपानं उप्पत्तिं दस्सेतुं महाभूते पटिच्च चित्तसमुट्ठानन्तिआदि वुत्तं. एवं सन्ते उपादारूपन्ति एत्तकमेव वत्तब्बं, इतरद्वयं कस्मा वुत्तन्ति? महाभूतेपि पटिच्च उप्पत्तिदस्सनत्थं. यञ्हि हेट्ठा ‘‘चित्तसमुट्ठानञ्च रूपं कटत्ता च रूप’’न्ति दस्सितं, तं न केवलं खन्धेयेव च पटिच्च उप्पज्जति, महाभूतेपि पन पटिच्च उप्पज्जतीति दस्सनत्थमिदं वुत्तन्ति वेदितब्बं. तत्थ चित्तसमुट्ठानं पवत्तेयेव, कटत्तारूपं पटिसन्धियम्पि. उपादारूपन्ति तस्सेव उभयस्स विसेसनं.

कुसले खन्धे च महाभूते च पटिच्चाति एत्थ चित्तसमुट्ठानाव महाभूता गहिता. चित्तसमुट्ठानं रूपन्ति एत्थ पन भूतरूपम्पि उपादारूपम्पि गहितं. ‘‘एकं महाभूतं पटिच्च तयो महाभूता’’तिआदिना नयेन हि भूतरूपम्पि खन्धे च महाभूते च पटिच्च उप्पज्जति. महाभूते पटिच्च उपादारूपन्ति वुत्तनयेन उपादारूपम्पि. अकुसलञ्च अब्याकतञ्चाति पञ्हाविस्सज्जनेसुपि एसेव नयो. एवं हेतुपच्चये नव पुच्छा विस्सज्जिता. एतायेव हि एत्थ लब्भन्ति, सेसा चत्तालीस मोघपुच्छाति न विस्सज्जिता. इमिना उपायेन आरम्मणपच्चयादीसुपि पुच्छाविस्सज्जनानं अत्थो वेदितब्बो. तत्थ तत्थ पन विचारेतब्बयुत्तकमेव विचारयिस्साम.

५४. आरम्मणपच्चये ताव रूपस्स आरम्मणपच्चयवसेन अनुप्पत्तितो तासु नवसु रूपमिस्सका पहाय तिस्सोव पुच्छा विस्सज्जिता. तेनेव च कारणेन ‘‘वत्थुं पटिच्च खन्धा’’ति वत्वा ‘‘खन्धे पटिच्च वत्थू’’ति न वुत्तं. न हि तं आरम्मणपच्चयेन उप्पज्जति.

५५. अधिपतिपच्चये विपाकाब्याकतन्ति लोकुत्तरमेव सन्धाय वुत्तं. तेनेवेत्थ ‘‘पटिसन्धिक्खणे’’ति न गहितं. सेसं हेतुपच्चयसदिसमेव.

५६. अनन्तरसमन्तरेसुपि रूपं न लब्भतीति आरम्मणपच्चये विय तिस्सोव पुच्छा.

५७. सहजातपच्चये पटिसन्धिक्खणेति पञ्चवोकारे पटिसन्धिवसेन वुत्तं. हेट्ठा पन पच्चयविभङ्गे ‘‘ओक्कन्तिक्खणे’’ति आगतं तम्पि इमिना सद्धिं अत्थतो एकं, ब्यञ्जनमत्तमेव हेत्थ नानन्ति. अपिच ‘‘तिण्णं सन्निपाता गब्भस्स अवक्कन्ति होती’’ति (म. नि. १.४०८) वचनतो ओक्कन्तीति पञ्चवोकारपटिसन्धियावेतं नामं. पटिसन्धीति सब्बभवसाधारणं. इध पन ‘‘कटत्ता च रूप’’न्तिआदिवचनतो पञ्चवोकारपटिसन्धियेव अधिप्पेता. सा हि रूपस्सपि अरूपस्सपि पच्चयभावञ्चेव पच्चयुप्पन्नभावञ्च सङ्गण्हाति, तस्मा परिपुण्णविस्सज्जना होतीति गहिता. बाहिरं एकं महाभूतन्ति अनिन्द्रियबद्धेसु पथवीपासाणादीसु महाभूतं सन्धाय वुत्तं. पच्चयविभङ्गवारस्मिञ्हि चत्तारो महाभूताति अज्झत्तिकञ्च बाहिरञ्च एकतो कत्वा गहितं. सङ्खेपदेसना हि सा. अयं पन वित्थारदेसना, तस्मा सब्बं विभजित्वा दस्सेन्तो ‘‘बाहिरं एकं महाभूत’’न्तिआदिमाह. असञ्ञसत्तानं एकं महाभूतं पटिच्चाति द्विसन्ततिसमुट्ठानभूतवसेन वुत्तं. महाभूते पटिच्च कटत्तारूपन्ति इदं पन कम्मसमुट्ठानवसेनेव वुत्तं. उपादारूपन्ति उतुसमुट्ठानवसेनेव.

५८. अञ्ञमञ्ञपच्चये खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धाति चतुन्नम्पि खन्धानं एकतो वत्थुना अञ्ञमञ्ञपच्चयतं दस्सेतुं वुत्तं.

५९. निस्सयपच्चये यस्मा पटिच्चत्थो नाम सहजातत्थो, तस्मा या हेट्ठा पच्चयविभङ्गवारे चक्खायतनादीनं निस्सयपच्चयता दस्सिता, न सा गहिता. चक्खायतनादीनि हि पुरेजातानि हुत्वा पच्चया होन्ति, इध सहजातमेव लब्भति. तेनेव वुत्तं – ‘‘निस्सयपच्चयो सहजातपच्चयसदिसो’’ति.

६०. उपनिस्सयपच्चये रूपस्स उपनिस्सयपच्चयाभावा तीणेव विस्सज्जनानि लब्भन्ति, तेन वुत्तं ‘‘आरम्मणपच्चयसदिस’’न्ति. तत्थ किञ्चापि न सब्बे कुसलाकुसलाब्याकता आरम्मणूपनिस्सयं लभन्ति, ये पन लभन्ति, तेसं वसेनेतं वुत्तन्ति वेदितब्बं.

६१. पुरेजातपच्चये वत्थुं पुरेजातपच्चयाति वत्थुं पटिच्च वत्थुना पुरेजातपच्चयतं साधेन्तेन उप्पज्जन्तीति अत्थो. विपाकाब्याकतं एकं खन्धन्ति एत्थ यं विपाकाब्याकतस्स वत्थु ओक्कन्तिक्खणे सहजातपच्चयो होति, तं पुरेजातपच्चयभाजनियत्ता इध न गहेतब्बं. येपि कुसलादयो आरुप्पे पुरेजातपच्चयं न लभन्ति, तेपि पुरेजातपच्चयभाजनियतोयेव इध न गहेतब्बा. आरम्मणं पन नियमतो पुरेजातपच्चयभावं न लभति. रूपायतनादीनि हि चक्खुविञ्ञाणादीनंयेव पुरेजातपच्चयतं साधेन्ति, मनोविञ्ञाणधातुया अतीतानागतानिपि आरम्मणं होन्तियेव. तस्मा इध न गहितं. खन्धवसेन हि अयं देसना, न विञ्ञाणधातुवसेन. ‘‘विपाकाब्याकतं एकं खन्ध’’न्ति देसनाय च सब्बापि विञ्ञाणधातुयो गहिता, न चक्खुविञ्ञाणधातुआदयो एवाति.

पच्छाजातो कुसलाकुसलानं पच्चयो न होति, अब्याकतस्सपि उपत्थम्भकोव न जनको, तस्मा ‘‘उप्पज्जति पच्छाजातपच्चया’’ति एवं वत्तब्बो एकधम्मोपि नत्थीति पच्छाजातपच्चयवसेन विस्सज्जनं न कतं.

६२. आसेवनपच्चये कामं सब्बा किरिया आसेवनपच्चयं न लभन्ति, लब्भमानवसेन पन ‘‘किरियाब्याकत’’न्ति वुत्तं. तस्मा जवनकिरियावेत्थ गहिताति वेदितब्बा.

६३. कम्मपच्चये कुसलाकुसलेसु एकक्खणिको कम्मपच्चयो वेदितब्बो, तथा किरियाब्याकते. विपाकाब्याकते पन नानाक्खणिकोपि, तथा पटिसन्धिक्खणे महाभूतानं. चित्तसमुट्ठानानं पन एकक्खणिको. कटत्तारूपानं नानाक्खणिकोव तथा असञ्ञसत्तरूपानं. कटत्तारूपं पनेत्थ जीवितिन्द्रियं. सेसं न एकन्ततो कम्मसमुट्ठानत्ता उपादारूपन्ति वुत्तं. एवं सन्तेपि इध कम्मसमुट्ठानमेव अधिप्पेतं.

६४. विपाकपच्चये कुसलाकुसलं किरियञ्च न लब्भतीति अब्याकतवसेनेव विस्सज्जनं कतं. चित्तसमुट्ठानन्ति विपाकचित्तसमुट्ठानमेव. कटत्तारूपन्ति यथालाभवसेन इन्द्रियरूपञ्च वत्थुरूपञ्च. उपादारूपन्ति तदवसेसं तस्मिं समये विज्जमानकं उपादारूपं.

६५. आहारपच्चये सब्बेसम्पि कुसलादीनं खन्धानं चित्तसमुट्ठानरूपस्स च अरूपाहारवसेन उप्पत्ति वेदितब्बा, तथा पटिसन्धिक्खणे महाभूतानं. चित्तसमुट्ठानन्ति भवङ्गादिचित्तसमुट्ठानं. आहारसमुट्ठानन्ति कबळीकाराहारसमुट्ठानं. चित्तसमुट्ठानन्ति कुसलाकुसलचित्तसमुट्ठानमेव. पच्चयविभङ्गवारे आहारपटिपाटिया पठमं कबळीकारो आहारो दस्सितो, इध पन कुसलं धम्मन्ति पुच्छावसेन पठमं अरूपाहारा दस्सिताति वेदितब्बा.

६६. इन्द्रियपच्चये पच्चयविभङ्गे इन्द्रियपटिपाटिया पठमं चक्खुन्द्रियादीनि दस्सितानि, इध पन कुसलादिपुच्छावसेन पठमं अरूपिन्द्रियानं पच्चयता दस्सिता. तत्थ कुसलादीसु यथालाभवसेन अरूपिन्द्रिया गहेतब्बा. असञ्ञसत्तानं भूतरूपेसुपि जीवितिन्द्रियन्ति.

६७. झानमग्गपच्चयेसु हेतुपच्चयसदिसमेव विस्सज्जनं, तेनेवेत्थ ‘‘हेतुपच्चयसदिस’’न्ति वुत्तं.

६८. सम्पयुत्तपच्चये विस्सज्जनं आरम्मणपच्चयगतिकं, तेनेवेत्थ ‘‘आरम्मणपच्चयसदिस’’न्ति वुत्तं.

६९. विप्पयुत्तपच्चये वत्थुं विप्पयुत्तपच्चयाति वत्थुं पटिच्च विप्पयुत्तपच्चया, वत्थुना विप्पयुत्तपच्चयतं साधेन्तेन उप्पज्जन्तीति अत्थो. खन्धे विप्पयुत्तपच्चयाति खन्धे पटिच्च विप्पयुत्तपच्चया, खन्धेहि विप्पयुत्तपच्चयतं साधेन्तेहि उप्पज्जतीति अत्थो. खन्धा वत्थुं विप्पयुत्तपच्चयाति वत्थुं पटिच्च खन्धा विप्पयुत्तपच्चया. वत्थुना विप्पयुत्तपच्चयतं साधेन्तेन उप्पज्जन्तीति अत्थो. चित्तसमुट्ठानरूपं खन्धे विप्पयुत्तपच्चयाति खन्धे पटिच्च विप्पयुत्तपच्चया चित्तसमुट्ठानं रूपं खन्धेहि विप्पयुत्तपच्चयतं साधेन्तेहि उप्पज्जतीति अत्थो. सेसविस्सज्जनेसुपि वत्थुं विप्पयुत्तपच्चयातिआदीसुपि वुत्तनयेनेवत्थो वेदितब्बो. विपाकाब्याकते चेत्थ वत्थुग्गहणेन चक्खादीनि सङ्गहितब्बानि. एकं महाभूतन्तिआदि रूपाब्याकतस्स पच्चयभावं दस्सेतुं वुत्तं. चित्तसमुट्ठानन्ति अब्याकतचित्तसमुट्ठानम्पि कुसलाकुसलचित्तसमुट्ठानम्पि.

७०. अत्थिपच्चये सब्बं सहजातपच्चयगतिकं. तेनेवेत्थ ‘‘सहजातपच्चयसदिस’’न्ति वुत्तं.

७१-७२. नत्थिविगता आरम्मणपच्चयगतिका, अविगतं सहजातगतिकं. तेनेवेत्थ ‘‘आरम्मणपच्चयसदिसं, सहजातपच्चयसदिस’’न्ति वुत्तं. इमे तेवीसति पच्चयाति सङ्खिपित्वा दस्सितानं वसेनेतं वुत्तं. वित्थारेतब्बाति या पुच्छा विस्सज्जनं लभन्ति, तासं वसेन वित्थारेतब्बा. अयं हेतुपच्चयं आदिं कत्वा एकमूलके पच्चयानुलोमे पटिच्चवारस्स कुसलत्तिकविस्सज्जने अत्थवण्णना.

(२.) सङ्ख्यावारो

७३. इदानि ये एत्थ हेतुपच्चयादीसु एकेकस्मिं पच्चये विस्सज्जनवारा लद्धा, ते गणनवसेन दस्सेतुं हेतुया नवातिआदि आरद्धं. तत्थ हेतुया नवाति हेतुपच्चये नव पुच्छाविस्सज्जनवारा होन्ति. सेय्यथिदं – कुसलेन कुसलं, कुसलेन अब्याकतं, कुसलेन कुसलाब्याकतं; अकुसलेन अकुसलं, अकुसलेन अब्याकतं, अकुसलेन अकुसलाब्याकतं, अब्याकतेन अब्याकतं, कुसलाब्याकतेन अब्याकतं, अकुसलाब्याकतेन अब्याकतन्ति.

आरम्मणे तीणीति कुसलेन कुसलं, अकुसलेन अकुसलं, अब्याकतेन अब्याकतं. अधिपतिया नवाति हेतुया वुत्तसदिसाव. द्वादससु हि पच्चयेसु नव नवाति वुत्तं. सब्बेसुपि पुच्छाविस्सज्जनानि हेतुपच्चयसदिसानेव. विभङ्गे पन अत्थि विसेसो. दससु पच्चयेसु तीणि तीणीति वुत्तं. सब्बेसुपि पुच्छाविस्सज्जनानि आरम्मणसदिसानेव. विभङ्गे पन अत्थि विसेसो. अञ्ञमञ्ञपच्चयस्मिञ्हि अब्याकतपदस्स विस्सज्जने रूपम्पि लब्भति, तथा पुरेजातपच्चये. आसेवनपच्चये विपाकानि चेव वीथिचित्तानि च न लब्भन्ति. विपाके एकन्ति अब्याकतमेव. एवमेत्थ सङ्खेपतो नव तीणि एकन्ति, तिविधोव वारपरिच्छेदो. वित्थारतो द्वादस नवका, दस तिका, एकं एककन्ति सब्बेसुपि तेवीसतिया पच्चयेसु एकूनचत्तालीसाधिकं वारसतं होति, एकूनचत्तालीसाधिकञ्च पुच्छासतं. एकूनचत्तालीसाधिकं पुच्छाविस्सज्जनसतन्तिपि तस्सेव नामं.

७४. एवं हेतुपच्चयादिके एकमूलके गणनं दस्सेत्वा इतो परेसु दुमूलकादीसु वित्थारदेसनं सङ्खिपित्वा एकमूलके दस्सिताय देसनाय लब्भमानगणनञ्ञेव आदाय वारपरिच्छेदं दस्सेतुं दुमूलके ताव हेतुपच्चया आरम्मणे तीणीतिआदिमाह. तत्रिदं लक्खणं – बहुगणनोपि पच्चयो अबहुगणनेन सद्धिं युत्तो तेन समानगणनोव होति. तेन वुत्तं ‘‘हेतुपच्चया आरम्मणे तीणी’’ति. हेतुआरम्मणदुके आरम्मणे वुत्तानि तीणेव विस्सज्जनानि लब्भन्तीति अत्थो. समानगणनो पन समानगणनेन सद्धिं युत्तो अपरिहीनगणनोव होति. तेन वुत्तं ‘‘हेतुपच्चया अधिपतिया नवा’’ति. हेताधिपतिदुके नवेव विस्सज्जनानि लब्भन्तीति अत्थो. विपाके एकन्ति हेतुविपाकदुके विपाके वुत्तं एकमेव विस्सज्जनं लब्भतीति एवं ताव दुमूलके वारपरिच्छेदो वेदितब्बो.

७५. तिमूलकादीसुपि इदमेव लक्खणं. तेनेवाह – हेतुपच्चया आरम्मणपच्चया अधिपतिया तीणीति. हेतारम्मणाधिपति तिके आरम्मणे वुत्तानि तीणेव विस्सज्जनानि लब्भन्तीति अत्थो. एवं सब्बत्थ नयो नेतब्बो.

७६-७९. द्वादसमूलके पन विपाकपच्चयो न लब्भति, तस्मा आसेवनपच्चया कम्मे तीणीति वत्वा विपाकं अपरामसित्वा आहारे तीणीति वुत्तं. तेरसमूलकादीसुपि एसेव नयो. ते पन सङ्खिपित्वा तेवीसतिमूलकोवेत्थ दस्सितो. सो दुविधो होति – सासेवनो वा सविपाको वा. तत्थ पठमं सासेवनो दस्सितो, सो तीणेव विस्सज्जनानि लभति. तेन वुत्तं ‘‘आसेवनपच्चया अविगते तीणी’’ति. सविपाको पन आसेवनं न लभति, तस्मा तं पहाय विपाकवसेन गणनाय दस्सनत्थं अनन्तरायेव ‘‘हेतुपच्चया…पे… विपाकपच्चया आहारे एक’’न्ति एकं नयं दस्सेत्वा पच्छा तेवीसतिमूलकोव दस्सितो. एतेसु पन द्वीसु तेवीसतिमूलकेसु किञ्चापि एकस्मिं विपाकपच्चयो नत्थि, एकस्मिं आसेवनपच्चयो, पच्छाजातपच्चयो पन उभयत्थापि. रुळ्हीसद्देन पनेते तेवीसतिमूलकात्वेव वेदितब्बा. तेसु सासेवने आसेवनस्स वसेन सब्बत्थ तीणेव विस्सज्जनानि, सविपाके विपाकपच्चयस्स वसेन एकमेवाति अयं हेतुपच्चयं आदिं कत्वा एकमूलकादीसु गणना.

यं पनेतं हेतुमूलकानन्तरं ‘‘आरम्मणे ठितेन सब्बत्थ तीणेव पञ्हा’’ति वुत्तं, तं आरम्मणपच्चयं आदिं कत्वा एकमूलकेपि दुमूलकादीसुपि सब्बत्थ आरम्मणपदे चेव आरम्मणेन सद्धिं सेसपच्चययोजनासु च यत्थ नवहि भवितब्बं, तत्थ तयोव पञ्हा होन्तीति दस्सनत्थं वुत्तं. विपाकपदे पन विपाकपदेन सद्धिं सेसपच्चययोजनासु च एकोव पञ्हो होतीति. इति यं हेट्ठा अवोचुम्ह ‘‘बहुगणनोपि पच्चयो अबहुगणनेन सद्धिं युत्तो तेन समानगणनो होती’’ति, तं सुवुत्तमेव.

८०-८५. इदानि ये आरम्मणादीनं पच्चयानं वसेन एकमूलकादयो दस्सेतब्बा, तेसु एकमूलको ताव हेतुएकमूलकेनेव सदिसोति एकस्मिम्पि पच्चये न दस्सितो. आरम्मणपच्चयवसेन पन दुमूलके गणनं दस्सेतुं आरम्मणपच्चया हेतुया तीणि, अधिपतिया तीणि…पे… अविगते तीणीति वुत्तं. एत्थ च ‘‘आरम्मणपच्चया अधिपतिया तीणि…पे… अविगते तीणी’’ति वत्तब्बे ये हेतुपच्चयादयो पच्चया बहुगणना, तेसं ऊनतरगणनेहि च समानगणनेहि च सद्धिं संसन्दने या गणना लब्भति, तं दस्सेतुं आरम्मणपच्चयस्स पुरिमभागे ठितम्पि हेतुपच्चयं पच्छिमभागेव ठपेत्वा ‘‘आरम्मणपच्चया हेतुया तीणी’’ति वुत्तं. तेनेतं आवि करोति – आरम्मणपच्चयो येन येन बहुतरगणनेन वा समानगणनेन वा पच्चयेन सद्धिं दुकतिकादिभेदं गच्छति, सब्बत्थ तीणेव पञ्हाविस्सज्जनानि वेदितब्बानि. विपाकपच्चयेन पन सद्धिं संसन्दने एकमेव लब्भति, तं विपाकपच्चयादिकाय गणनाय आवि भविस्सतीति इध न दस्सितं. या चेसा दुमूलके गणना दस्सिता, तिमूलकादीसुपि एसाव गणनाति आरम्मणपच्चयवसेन तिमूलकादयो न वित्थारिता.

इदानि अधिपतिपच्चयादिवसेन दुमूलकादीसु गणनं दस्सेतुं अधिपतिपच्चया हेतुया नवातिआदि वुत्तं. तत्थापि वुत्तनयेनेव पच्चयसन्निवेसो वेदितब्बो. यथा च अधिपतिपच्चया हेतुया नव, एवं सेसेसुपि हेतुना समानगणनासु नवेव. इति यो यो पच्चयो आदिम्हि तिट्ठति, तेन तेन सद्धिं समानगणनानं संसन्दने आदिम्हि ठितस्स वसेन गणना होति. तेन पन सद्धिं ऊनतरगणनानं संसन्दने ऊनतरगणनानंयेव वसेन गणना होतीति वेदितब्बो. यथा च आरम्मणपच्चयवसेन एवं अधिपतिपच्चयवसेनापि ततो परेसं अनन्तरादीनं वसेनापि तिमूलकादयो न वित्थारिता. तस्मा दुमूलके दस्सितगणनावसेनेव सब्बत्थ साधेतब्बा. तेनेव वुत्तं ‘‘एकेकं पच्चयं मूलकं कातुन सज्झायमग्गेन गणेतब्बा’’ति.

पच्चयानुलोमवण्णना.

पटिच्चवारो

पच्चयपच्चनीयवण्णना

८६-८७. पच्चयपच्चनीयं पन यस्मा कुसलपदे न लब्भति कुसलधम्मस्स हेतुपच्चयेन विना अनुप्पत्तितो, तस्मा अकुसलं धम्मं पटिच्चातिआदि आरद्धं. तत्थ नहेतुपच्चयाति हेतुपच्चयपटिक्खेपो हेतुपच्चयं विना अञ्ञेन पच्चयेन उप्पज्जतीति अत्थो. विचिकिच्छासहगतो उद्धच्चसहगतो मोहोति अयञ्हि सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च सयं हेतुपच्चयो होति, अञ्ञस्स पन सम्पयुत्तहेतुनो अभावा न हेतुपच्चया उप्पज्जतीति ठपेत्वा हेतुपच्चयं सेसेहि अत्तनो अनुरूपपच्चयेहि उप्पज्जति. इमिना नयेन सब्बपच्चयपटिक्खेपेसु अत्थो वेदितब्बो. अहेतुकं विपाकाब्याकतन्ति इदं रूपसमुट्ठापकवसेनेव वेदितब्बं. अञ्ञेसुपि एवरूपेसु एसेव नयो.

८८. नअधिपतिपच्चये कामं अधिपतिपि अत्तना सद्धिं दुतियस्स अधिपतिनो अभावा नअधिपतिपच्चयं लभति, यथा पन विचिकिच्छुद्धच्चसहगतो मोहो अहेतुको, न तथा अधिपतयो एव निराधिपति. छन्दादीसु पन अञ्ञतरं अधिपतिं अकत्वा कुसलादीनं उप्पत्तिकाले सब्बेपि कुसलादयो निराधिपतिनो. तस्मा मोहं विय विसुं अधिपतिमत्तमेव अनुद्धरित्वा सब्बसङ्गाहिकवसेन एसा ‘‘एकं खन्धं पटिच्च तयो खन्धा’’तिआदिका देसना कताति वेदितब्बा.

८९. नानन्तरनसमनन्तरेसु नारम्मणे विय रूपमेव पच्चयुप्पन्नं. तेन वुत्तं ‘‘नारम्मणपच्चयसदिस’’न्ति. सहजातपच्चयो परिहीनो. यथा चेस, तथा निस्सयअत्थिअविगतपच्चयापि. किं कारणा? एतेहि विना कस्सचि अनुप्पत्तितो. सहजातनिस्सयअत्थिअविगतपच्चयेपि हि पच्चक्खाय एकोपि रूपारूपधम्मो नुप्पज्जति, तस्मा ते परिहीना.

९०. नअञ्ञमञ्ञपच्चयविभङ्गे पटिसन्धिक्खणे विपाकाब्याकते खन्धे पटिच्च कटत्तारूपन्ति हदयवत्थुवज्जं वेदितब्बं.

९१. नउपनिस्सयपच्चयविभङ्गे रूपमेव पच्चयुप्पन्नं, तञ्हि उपनिस्सयं न लभति. अरूपं पन किञ्चापि आरम्मणूपनिस्सयपकतूपनिस्सये न लभेय्य, अनन्तरूपनिस्सयमुत्तकं पन नत्थि. तेन वुत्तं ‘‘नारम्मणपच्चयसदिस’’न्ति.

९२. नपुरेजाते चित्तसमुट्ठानरूपन्ति पञ्चवोकारवसेन वुत्तं.

९३. नपच्छाजातपच्चयाति एत्थ सहजातपुरेजातपच्चया सङ्गहं गच्छन्ति. तस्मा सहजातपच्चयसदिसा एत्थ पाळि, सा नअधिपतिपच्चये वित्थारिताति इध सङ्खित्ता. नासेवनपच्चये कुसलाकुसला पठमजवनवसेन वेदितब्बा, तथा किरियाब्याकतं. पाळि पन इधापि नअधिपतिपच्चये वित्थारितवसेन वेदितब्बा. तेनेवाह – ‘‘नपच्छाजातपच्चयम्पि नासेवनपच्चयम्पि नाधिपतिपच्चयसदिस’’न्ति.

९४-९७. नकम्मपच्चये विपाकचेतना नानाक्खणिककम्मपच्चयं लभतीति न गहिता. नाहारपच्चये एकच्चं रूपमेव पच्चयुप्पन्नं, तथा नइन्द्रियपच्चये.

९८. नझानपच्चये पञ्चविञ्ञाणधम्मा चेव एकच्चञ्च रूपं पच्चयुप्पन्नं. पञ्चविञ्ञाणस्मिञ्हि वेदना च चित्तेकग्गता च दुब्बलत्ता उपनिज्झानलक्खणं न पापुणन्तीति झानपच्चये न गहिता.

९९-१०२. नमग्गपच्चये अहेतुकविपाककिरियञ्चेव एकच्चञ्च रूपं पच्चयुप्पन्नं. नसम्पयुत्तनोनत्थिनोविगतेसु रूपमेव पच्चयुप्पन्नं. तेन वुत्तं ‘‘नारम्मणपच्चयसदिस’’न्ति.

१०३. नहेतुया द्वेति एकमूलकगणनाय यथापाळिमेव निय्याति.

१०४. दुमूलके नहेतुपच्चया नारम्मणे एकन्ति एत्थ किञ्चापि बहुगणनेन सद्धिं ऊनतरगणनस्स संसन्दने ऊनतरगणनवसेन नहेतुया विय द्वीहि भवितब्बं. नारम्मणवसेन पन अरूपधम्मानं परिहीनत्ता अब्याकतं पटिच्च रूपाब्याकतस्स उप्पत्तिं सन्धाय ‘‘एक’’न्ति वुत्तं. सब्बेसु एककेसुपि एसेव नयो. द्वेति वुत्तट्ठाने पन नहेतुया लद्धवसेन वारद्वयं वेदितब्बं.

१०५-१०६. तिमूलकादीसु पन सब्बेसु नारम्मणपच्चयस्स अपरिहीनत्ता एकमेव विस्सज्जनन्ति अयं पच्चनीये नहेतुपच्चयं आदिं कत्वा एकमूलकादीसु गणना.

१०७-१३०. नारम्मणपच्चयादयो पन एकमूलके ताव पुरिमेन सदिसत्ता इधापि न दस्सितायेव. नारम्मणपच्चयवसेन दुमूलके नारम्मणपच्चया, नहेतुया एकन्ति नहेतुदुमूलके वुत्तमेव. नाधिपतिया पञ्चाति नारम्मणपच्चये लद्धवसेन वेदितब्बाति एवं सब्बसंसन्दनेसु ऊनतरगणनस्सेव पच्चयस्स वसेन गणना वेदितब्बा. यत्थ यत्थ च नारम्मणपच्चयो पविसति, तत्थ तत्थ रूपमेव पच्चयुप्पन्नं. नानन्तरनसमनन्तरनअञ्ञमञ्ञनउपनिस्सयनाहारनइन्द्रियनसम्पयुत्तनोनत्थिनोविगतपच्चयानं पविट्ठट्ठानेपि एसेव नयो. नाहारनइन्द्रियनझाननमग्गपच्चया सब्बत्थ सदिसविस्सज्जना. नसहजातादिचतुक्कं इधापि परिहीनमेवाति इदमेत्थ लक्खणं. इमिना पन लक्खणेन सब्बेसु दुमूलकादीसु ‘‘अयं पच्चयो मूलं, अयमेत्थ दुमूलको, अयं तिमूलको, अयं सब्बमूलको’’ति सल्लक्खेत्वा ऊनतरगणनस्स पच्चयस्स वसेन गणना वेदितब्बाति.

पच्चयपच्चनीयवण्णना.

पच्चयानुलोमपच्चनीयवण्णना

१३१-१८९. इदानि अनुलोमपच्चनीये गणनं दस्सेतुं हेतुपच्चया नारम्मणे पञ्चातिआदि आरद्धं. तत्थ हेताधिपतिमग्गपच्चयेसु अनुलोमतो ठितेसु सहजातादयो चत्तारो सब्बट्ठानिकपच्चया, आहारिन्द्रियझानमग्गपच्चया चत्तारोति इमे अट्ठ पच्चनीयतो न लब्भन्ति. हेतुपच्चयादिवसेन हि उप्पज्जमानो धम्मो इमे अट्ठ पच्चये अलभन्तो नाम नत्थि. आरम्मणअनन्तरसमनन्तरउपनिस्सयसम्पयुत्तनत्थिविगतपच्चयेसु पन अनुलोमतो ठितेसु अरूपट्ठानिका पच्चनीकतो न लब्भन्ति. न हि आरम्मणपच्चयादीहि उप्पज्जमाना अनन्तरसमनन्तरपच्चयादयो न लभन्ति. सहजातअञ्ञमञ्ञनिस्सयकम्माहारिन्द्रियअत्थिअविगतपच्चयेसु पन अनुलोमतो ठितेसु चत्तारो सब्बट्ठानिकायेव, पच्चनीकतो न लब्भन्ति. एतेसञ्हि पच्चयानं वसेन उप्पज्जमानो सब्बट्ठानिके अलभन्तो नाम नत्थि. पच्छाजातपच्चयस्स अनुलोमतो ठानं नाम नत्थि. एवं सेसेसु अनुलोमतो ठितेसु ये च लब्भन्ति, ये च न लब्भन्ति, ते सल्लक्खेत्वा सब्बेसुपि दुमूलकादीसु नयेसु तेसं तेसं पच्चयानं संसन्दने ऊनतरगणनानंयेव वसेन गणना वेदितब्बाति.

पच्चयानुलोमपच्चनीयवण्णना.

पच्चयपच्चनीयानुलोमवण्णना

१९०. इदानि पच्चनीयानुलोमे गणनं दस्सेतुं नहेतुपच्चया आरम्मणे द्वेतिआदि आरद्धं. तत्थ हेतुम्हि पच्चनीकतो ठिते ठपेत्वा अधिपतिं अवसेसा अनुलोमतो लब्भन्ति. पच्छाजातो पन अनुलोमतो सब्बत्थेव न लब्भति, ये नव पच्चया ‘‘अरूपानञ्ञेवा’’ति वुत्ता, तेसु पुरेजातञ्च आसेवनञ्च ठपेत्वा अवसेसेसु सत्तसु पच्चनीकतो ठितेसु सेसा अरूपट्ठानिका अनुलोमतो न लब्भन्ति. यो हि आरम्मणादीहि नुप्पज्जति, न सो अनन्तरादयो लभति. पटिसन्धिविपाको पन पुरेजाततो, सब्बविपाको च सद्धिं किरियमनोधातुया आसेवनतो अनुप्पज्जमानोपि अनन्तरादयो लभति, तस्मा ‘‘पुरेजातञ्च आसेवनञ्च ठपेत्वा’’ति वुत्तं.

पुरेजातपच्छाजातआसेवनविपाकविप्पयुत्तेसु पच्चनीकतो ठितेसु एकं ठपेत्वा अवसेसा अनुलोमतो लब्भन्ति. कम्मपच्चये पच्चनीकतो ठिते ठपेत्वा विपाकपच्चयं अवसेसा अनुलोमतो लब्भन्ति. आहारिन्द्रियेसु पच्चनीकतो ठितेसु ठपेत्वा सब्बट्ठानिके चेव अञ्ञमञ्ञकम्माहारिन्द्रियपच्चये च अवसेसा अनुलोमतो न लब्भन्ति, इतरे युज्जमानकवसेन लब्भन्ति. झानपच्चये पच्चनीकतो ठिते. हेताधिपतिआसेवनमग्गपच्चया अनुलोमतो न लब्भन्ति. मग्गपच्चये पच्चनीकतो ठिते हेताधिपतिपच्चया अनुलोमतो न लब्भन्ति. विप्पयुत्तपच्चये पच्चनीकतो ठिते पुरेजातपच्चयं ठपेत्वा अवसेसा अनुलोमतो लब्भन्ति. एवं तेसु तेसु पच्चयेसु पच्चनीकतो ठितेसु ये ये अनुलोमतो न लब्भन्ति, ते ते ञत्वा तेसं तेसं पच्चयानं संसन्दने ऊनतरगणनानं वसेन गणना वेदितब्बा.

१९१-१९५. दुमूलकादीसु च नयेसु यं यं पच्चयं आदिं कत्वा ये ये दुकादयो दस्सिता, ते ते लब्भमानालब्भमानपच्चयवसेन यथा यथा दस्सिता, तथा तथा साधुकं सल्लक्खेतब्बा. तत्थ यं नहेतुवसेन दुमूलकादयो नये दस्सेन्तेन नहेतुपच्चया नारम्मणपच्चया…पे… नासेवनपच्चयाति वत्वा ‘‘याव आसेवना सब्बं सदिस’’न्ति वुत्तं. तस्स, ‘‘नअञ्ञमञ्ञपच्चया सहजाते एक’’न्तिआदीहि सदिसता वेदितब्बा. यं पन ‘‘नकम्मे गणिते पञ्च गण्हाती’’ति सीहळभासाय लिखितं, तस्सत्थो – नहेतुपच्चयं आदिं कत्वा नकम्मपच्चयाति एवं नकम्मपच्चयेन घटिते सहजाते एकन्ति एवं दस्सिता पञ्चेव पच्चया अनुलोमतो लब्भन्ति, न अञ्ञेति. एवं अञ्ञेसुपि एवरूपेसु ठानेसु ब्यञ्जनं अनादियित्वा अधिप्पेतत्थोयेव गहेतब्बो. एवरूपञ्हि ब्यञ्जनं अत्तनो सञ्ञानिबन्धनत्थं पोराणेहि सकसकभासाय लिखितं.

अपिच इमस्मिं पच्चनीयानुलोमे पच्चयुप्पन्नधम्मेसुपि अत्थि धम्मो कम्मपच्चयं लभति, न इन्द्रियपच्चयं. सो असञ्ञेसु चेव पञ्चवोकारे पवत्ते च रूपजीवितिन्द्रियवसेन वेदितब्बो. अत्थि धम्मो मग्गपच्चयं लभति, नहेतुपच्चयं. सो विचिकिच्छुद्धच्चसहजातमोहवसेन वेदितब्बो. अत्थि धम्मो झानपच्चयं लभति, नमग्गपच्चयं. सो मनोधातुअहेतुकमनोविञ्ञाणधातुवसेन वेदितब्बो. यत्थ कटत्तारूपानि नानाक्खणिककम्मवसेनेव कम्मपच्चयं लभन्ति, तत्थ रूपधम्मा हेताधिपतिविपाकिन्द्रियझानमग्गपच्चये न लभन्ति, सब्बट्ठानिका पच्चनीया न होन्ति. अहेतुके अधिपतिपच्चयो नत्थीति इमेसम्पि पकिण्णकानं वसेनेत्थ गणनवारो असम्मोहतो वेदितब्बो.

तत्रायं नयो – नहेतुपच्चया आरम्मणे द्वेति एत्थ ताव अहेतुकमोहो चेव अहेतुकविपाककिरिया च पच्चयुप्पन्नं, तस्मा अकुसलेनाकुसलं, अब्याकतेन अब्याकतं सन्धायेत्थ द्वेति वुत्तं. सेसेसुपि एसेव नयो. आसेवने पन विपाकं न लब्भति, तथा किरियमनोधातु. तस्मा किरियाहेतुमनोविञ्ञाणधातुवसेनेत्थ अब्याकतेन अब्याकतं वेदितब्बं. विपाके एकन्ति अब्याकतेन अब्याकतमेव. मग्गे एकन्ति अकुसलेन अकुसलमेव.

१९६-१९७. नारम्मणमूलके हेतुया पञ्चाति रूपमेव सन्धाय वुत्तं. तञ्हि कुसलं अकुसलं अब्याकतं कुसलाब्याकतं अकुसलाब्याकतञ्चाति पञ्च कोट्ठासे पटिच्च उप्पज्जति. सब्बपञ्चकेसु एसेव नयो. अञ्ञमञ्ञे एकन्ति भूतरूपानि चेव वत्थुञ्च सन्धाय वुत्तं. तानि हि नारम्मणपच्चया अञ्ञमञ्ञपच्चया उप्पज्जन्ति. तिमूलकेपि एसेव नयो.

१९८-२०२. नाधिपतिमूलके हेतुया नवाति अनुलोमे हेतुम्हि वुत्तानेव. तीणीतिआदीनिपि हेट्ठा अनुलोमे वुत्तसदिसानेव. तिमूलके द्वेति हेट्ठा नहेतुपच्चया आरम्मणे वुत्तसदिसानेव.

२०३-२३३. नपुरेजातमूलके हेतुया सत्ताति हेट्ठा ‘‘आरुप्पे कुसलं एकं खन्धं पटिच्चा’’तिआदिना नयेन पुरेजाते दस्सितानेव. सब्बसत्तकेसु एसेव नयो. नकम्ममूलके हेतुया तीणीतिआदीसु चेतनाव पच्चयुप्पन्ना. तस्मा कुसलं अकुसलं अब्याकतञ्च पटिच्च उप्पत्तिं सन्धाय तीणीति वुत्तं. इमिना नयेन ‘‘एकं द्वे तीणि पञ्च सत्त नवा’’ति आगतट्ठानेसु गणना वेदितब्बा. ‘‘चत्तारि छ अट्ठा’’ति इमा पन तिस्सो गणना नत्थेवाति.

पच्चयपच्चनीयानुलोमवण्णना.

निट्ठिता च पटिच्चवारस्स अत्थवण्णना.

२. सहजातवारवण्णना

२३४-२४२. सहजातवारे कुसलं धम्मं सहजातोति कुसलं धम्मं पटिच्च तेन सहजातो हुत्वाति अत्थो. सेसमेत्थ पटिच्चवारे वुत्तनयेनेव वेदितब्बं. अवसाने पनस्स ‘‘पटिच्चत्तं नाम सहजातत्तं, सहजातत्तं नाम पटिच्चत्त’’न्ति इदं उभिन्नम्पि एतेसं वारानं अत्थतो निन्नानाकरणभावदस्सनत्थं वुत्तं. अत्थतो हि एते द्वेपि निन्नानाकरणा. एवं सन्तेपि अञ्ञमञ्ञस्स अत्थनियमनत्थं वुत्ता. ‘‘चक्खुञ्च पटिच्च रूपे चा’’तिआदीसु हि असहजातम्पि पटिच्च उप्पज्जतीति वुच्चति. सहजातम्पि च उपादारूपं भूतरूपस्स पच्चयो न होति. इति पटिच्चवारेन सहजातपच्चयभावं, सहजातवारेन च पटिच्चाति वुत्तस्स सहजातभावं नियमेतुं उभोपेते वुत्ता. अपिच तथा बुज्झनकानं अज्झासयवसेन देसनाविलासेन निरुत्तिपटिसम्भिदाप्पभेदजाननवसेन चापि एते उभोपि वुत्ताति.

सहजातवारवण्णना निट्ठिता.

३. पच्चयवारवण्णना

२४३. पच्चयवारे कुसलं धम्मं पच्चयाति कुसलधम्मे पतिट्ठितो हुत्वा कुसलं धम्मं निस्सयट्ठेन पच्चयं कत्वाति अत्थो. कुसलं एकं खन्धं पच्चयाति कुसलं एकं खन्धं निस्सयपच्चयं कत्वा तयो खन्धा उप्पज्जन्ति हेतुपच्चयाति वुत्तं होति. इमिनावुपायेन सब्बपदेसु अत्थो वेदितब्बो. वत्थुं पच्चया विपाकाब्याकता किरियाब्याकता खन्धाति इदं पञ्चवोकारे पवत्तिवसेन वुत्तं. पञ्चवोकारे पवत्तियञ्हि खन्धानं पुरेजातं वत्थु निस्सयपच्चयो होति. पटिच्चट्ठस्स पन सहजातट्ठत्ता पटिच्चवारे एस नयो न लब्भतीति पटिसन्धियं सहजातमेव वत्थुं सन्धाय ‘‘वत्थुं पटिच्च खन्धा’’ति वुत्तं. कुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धातिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो.

अब्याकतं धम्मं पच्चया कुसलो च अब्याकतो चाति कुसलाब्याकतानं हेतुपच्चयवसेन एकतो उप्पत्तिं सन्धाय वुत्तं. कुसलुप्पत्तिक्खणस्मिञ्हि वत्थुं निस्साय कुसला खन्धा, चित्तसमुट्ठाने च महाभूते निस्साय चित्तसमुट्ठानं उपादारूपं हेतुपच्चयवसेन एकतो उप्पज्जति. इति पच्चयभूतस्स अब्याकतस्स नानत्तेपि पच्चयुप्पन्नानं हेतुपच्चयवसेन एकतो उप्पत्तिं सन्धायेतं वुत्तन्ति वेदितब्बं. अञ्ञेसुपि एवरूपेसु ठानेसु एसेव नयो. एवं इमस्मिं हेतुपच्चये सहजातञ्च पुरेजातञ्च निस्सयट्ठेन पच्चयं कत्वा सत्तरस पञ्हा विस्सज्जिता. तत्थ खन्धा चेव भूता च सहजातवसेन, वत्थु सहजातपुरेजातवसेन गहितं. पटिच्चवारे पन सहजातवसेन पच्चयो लब्भति, तस्मा तत्थ नवेव पञ्हा विस्सज्जिता. ये पनेते एत्थ सत्तरस पञ्हा विस्सज्जिता, तेसु एकादिके एकावसाने विस्सज्जने कुसलादीसु एकपच्चयतो एको पच्चयुप्पन्नो. एकादिके दुकावसाने एकपच्चयतो नानापच्चयुप्पन्नो. दुकादिके एकावसाने नानापच्चयतो एको पच्चयुप्पन्नो. दुकादिके दुकावसाने नानापच्चयतो नानापच्चयुप्पन्नो.

२४८-२५२. आरम्मणपच्चयादीसुपि इमिनावुपायेन पञ्हाविस्सज्जनप्पभेदो वेदितब्बो. यं पनेतं आरम्मणपच्चये वत्थुं पच्चया खन्धाति वुत्तं, तं पटिसन्धिक्खणे विपाकक्खन्धेयेव सन्धाय वुत्तं. चक्खुविञ्ञाणादीनि अब्याकतं निस्साय आरम्मणपच्चयेन उप्पज्जन्तानं पभेददस्सनत्थं वुत्तानि. पुन वत्थुं पच्चयाति पवत्ते विपाककिरियाब्याकतानं उप्पत्तिदस्सनत्थं वुत्तं. सेसं पुरिमनयेनेव वेदितब्बं. एवं इमस्मिं आरम्मणपच्चये सहजातञ्च पुरेजातञ्च पच्चयं कत्वा सत्त पञ्हा विस्सज्जिता. तत्थ खन्धा सहजातवसेन, वत्थु सहजातपुरेजातवसेन, चक्खायतनादीनि पुरेजातवसेनेव गहितानि. पटिच्चवारे पन सहजातवसेनेव पच्चयो लब्भति. तस्मा तत्थ तयोव पञ्हा विस्सज्जिता.

२५३-२५४. अधिपतिपच्चये विपाकाब्याकतं लोकुत्तरमेव वेदितब्बं. अनन्तरसमनन्तरा रूपाभावेन आरम्मणसदिसा. परतो आसेवननत्थिविगतेसुपि एसेव नयो.

२५५. सहजातपच्चये कटत्तारूपं उपादारूपन्ति उपादारूपसङ्खातं कटत्तारूपं. इदं असञ्ञसत्तानञ्ञेव रूपं सन्धाय वुत्तं. चक्खायतनादीनि पञ्चवोकारवसेन वुत्तानि.

२५६-२५७. अञ्ञमञ्ञपच्चये च यथा आरम्मणपच्चया एवन्ति विस्सज्जनसमतं सन्धाय वुत्तं. पच्चयुप्पन्नेसु पन नानत्तं अत्थि.

२५८. उपनिस्सयपच्चये आरम्मणपच्चयसदिसन्ति रूपाभावतोपि विस्सज्जनसमतायपि वुत्तं.

२५९-२६०. वत्थुं पुरेजातपच्चयातिआदीनं पटिच्चवारे वुत्तनयेनेवत्थो गहेतब्बो.

२६१-२६६. कम्मपच्चये तीणीति कुसलं पच्चया कुसलो अब्याकतो कुसलाब्याकतो चाति एवं तीणि वेदितब्बानि. अकुसलेपि एसेव नयो.

२६७-२६८. विप्पयुत्तपच्चये खन्धे विप्पयुत्तपच्चयाति खन्धे निस्साय विप्पयुत्तपच्चया उप्पज्जन्तीति अत्थो. खन्धा वत्थुं विप्पयुत्तपच्चयाति खन्धा वत्थुं निस्साय विप्पयुत्तपच्चया उप्पज्जन्तीति अत्थो. सेसं हेट्ठा वुत्तनयेनेव वेदितब्बं.

२६९-२७६. इदानि यथालद्धानि विस्सज्जनानि गणनवसेन दस्सेतुं हेतुया सत्तरसातिआदिमाह. तत्थ हेतुया सत्तरसाति कुसलेन कुसलं, कुसलेन अब्याकतं, कुसलेन कुसलाब्याकतन्ति एवं कुसलवसेन एकादिकानि एकावसानानि द्वे, दुकावसानं एकन्ति तीणि वुत्तानि होन्ति, तथा अकुसलवसेन. अब्याकतेन अब्याकतं, तेनेव कुसलं, अकुसलं, कुसलाब्याकतं अकुसलाब्याकतञ्च; कुसलाब्याकतेहि कुसलं, अब्याकतं, कुसलाब्याकतं; अकुसलाब्याकतेहि अकुसलं, अब्याकतं, अकुसलाब्याकतन्ति एवं सत्तरस वेदितब्बानि.

आरम्मणे सत्ताति कुसलेन कुसलं; अकुसलेन अकुसलं, अब्याकतेन अब्याकतं, कुसलं, अकुसलं; कुसलाब्याकतेन कुसलं; अकुसलाब्याकतेन अकुसलन्ति एवं सत्त.

विपाके एकन्ति अब्याकतेन अब्याकतमेव. एवमेत्थ सत्तरस, सत्त, एकन्ति तयो वारपरिच्छेदा होन्ति. तेसु द्वादस सत्तरसका, दस सत्तका, एकं एककन्ति ते सब्बे साधुकं सल्लक्खेत्वा परतो दुकतिकादिवसेन पच्चयसंसन्दने ऊनतरगणनस्स वसेन गणना वेदितब्बा. सक्का हि इमाय गणनाय दुकमूलादीसु वारपरिच्छेदे जानितुन्ति पुन ‘‘कुसलं धम्मं पच्चया कुसलो धम्मो’’ति अनामसित्वा गणनवसेनेव वारपरिच्छेदं दस्सेतुं हेतुपच्चया आरम्मणे सत्तातिआदि आरद्धं.

तत्थ कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति हेतुपच्चया आरम्मणपच्चया. कुसलं एकं खन्धं पच्चया तयो खन्धाति इमिना नयेन आरम्मणे लद्धविस्सज्जनानि वित्थारेतब्बानि. अयं ताव अनुलोमे नयो.

२७७-२८५. पच्चनीये पन कुसलं न लब्भतीति अकुसलं धम्मं पच्चयाति अकुसलमेव आदिं कत्वा विस्सज्जनं आरद्धं. तं यथापाळिमेव निय्याति. यञ्हेत्थ वत्तब्बं सिया, तं पटिच्चवारस्स पच्चनीये वुत्तमेव.

२८६-२८७. यं पनेतं पच्चनीये लद्धविस्सज्जनपरिच्छेदं गणनतो दस्सेतुं नहेतुया चत्तारीतिआदि वुत्तं, तत्थ चत्तारि, सत्तरस, सत्त, पञ्च, तीणि, एकन्ति छ परिच्छेदा. तेसं वसेन दुकतिकादीसु पच्चयसंसन्दने गणना वेदितब्बा. यो हि पच्चयो सत्तरस विस्सज्जनानि लभति, तेन सद्धिं सदिससंसन्दने सत्तरस, ऊनतरसंसन्दने सेसा छपि परिच्छेदा लब्भन्ति. एवं सेसेसुपि अधिकपरिच्छेदं ठपेत्वा समसमा ऊनतरा च लब्भन्तीति.

एत्थ च अधिकतरा न लब्भन्तीति अयमेत्थ नियमो. समसमा पन ऊनतरा च अत्था विरोधे सति लब्भन्ति. तेनेत्थ ‘‘नहेतुपच्चया नारम्मणे एक’’न्तिआदि वुत्तं. एत्थ हि नहेतुया चतुन्नं, नारम्मणे पञ्चन्नं आगतत्ता नहेतुवसेन चत्तारीति वत्तब्बं सिया, नारम्मणेन सद्धिं घटितत्ता पन आरम्मणधम्मो विरुज्झतीति अकुसलं धम्मं पच्चया अकुसलो धम्मो, अब्याकतं धम्मं पच्चया अकुसलो, अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अकुसलोति तीणि विस्सज्जनानि परिहीनानि. अब्याकतं धम्मं पच्चया अब्याकतोति रूपवसेन एकमेव वुत्तं. एवं सब्बत्थ विरुद्धाविरुद्धं ञत्वा लब्भमानपरिच्छेदो वेदितब्बो. अपिचेत्थ इदं नयमत्तदस्सनं. नाधिपतिया चत्तारीति नहेतुया लद्धानेव. सेसचतुक्केसुपि एसेव नयो.

नानन्तरे एकन्ति अहेतुकचित्तसमुट्ठानस्स चेव सेसरूपस्स च वसेन अब्याकतेन अब्याकतं. एवं सब्बेसु एककेसु युज्जमानकरूपं जानितब्बं. नपुरेजाते द्वेति इधापि नहेतुवसेन चत्तारीति वत्तब्बं सिया, नपुरेजातेन सद्धिं घटितत्ता पन अब्याकतं धम्मं पच्चया अकुसलो, अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अकुसलोति वत्थुपुरेजातवसेन द्वे विस्सज्जनानि परिहीनानि. आरुप्पे पन अहेतुकमोहस्स अहेतुककिरियस्स च वसेन द्वे वुत्तानि. नविप्पयुत्ते द्वेति आरुप्पे अहेतुकाकुसलकिरियवसेन द्वे. नोनत्थि नोविगतेसु एकन्ति सब्बस्स रूपस्स वसेन अब्याकतेन अब्याकतं दट्ठब्बं. तिकादीसु अपुब्बं नत्थि.

२८८. नारम्मणमूलके पन नअधिपतिया पञ्चाति नारम्मणे लद्धानेव. नकम्मे एकन्ति एत्थ चित्तसमुट्ठानञ्च कटत्तारूपञ्च अग्गहेत्वा सेसरूपवसेन अब्याकतेन अब्याकतं वेदितब्बं.

२८९-२९६. नाधिपतिमूलके नपुरेजाते सत्ताति नपुरेजाते लद्धानेव. नपच्छाजाते सत्तरसाति इमानिपि तत्थ लद्धानि सत्तरसेव. नानन्तरनसमनन्तरनअञ्ञमञ्ञनउपनिस्सयनसम्पयुत्तनोनत्थिनोविगतमूलकानि नारम्मणमूलकसदिसानेव. इमिनाव नयमत्तदस्सनेन सब्बत्थ आगतानागतं लब्भमानालब्भमानञ्च वेदितब्बन्ति.

पच्चनीयवण्णना निट्ठिता.

२९७-३२८. इमिनायेव पन लक्खणेन अनुलोमं पुरतो कत्वा अनुलोमपच्चनीये पच्चनीयं पुरतो कत्वा पच्चनीयानुलोमे च गणनपरिच्छेदो आगतानागतं लब्भमानालब्भमानञ्च वेदितब्बन्ति.

पच्चयवारवण्णना निट्ठिता.

४. निस्सयवारवण्णना

३२९-३३७. निस्सयवारे कुसलं धम्मं निस्सायाति कुसलं धम्मं पतिट्ठट्ठेन निस्सयं कत्वाति अत्थो. सेसमेत्थ पच्चयवारे वुत्तनयेनेव वेदितब्बं. अवसाने पनस्स ‘‘पच्चयत्तं नाम निस्सयत्तं, निस्सयत्तं नाम पच्चयत्त’’न्ति इदं उभिन्नम्पि एतेसं वारानं अत्थतो निन्नानाकरणभावदस्सनत्थं वुत्तं. अत्थतो हि एतेपि पटिच्चसहजाता विय निन्नानाकरणा. एवं सन्तेपि अञ्ञमञ्ञस्स अत्थनियमनत्थं वुत्ता. अविज्जापच्चया सङ्खारातिआदीसु हि अनिस्साय वत्तमानं नानाक्खणिकम्पि ‘‘पच्चया उप्पज्जती’’ति वुत्तं. अञ्ञमञ्ञं अल्लीयित्वा ठितकट्ठादीसु च एकं एकस्स निस्सयपच्चयो न होति, तथा उपादारूपं महाभूतस्स निस्सयपच्चयो न होतियेव. इति पच्चयवारेन निस्सयपच्चयभावं निस्सयवारेन च पच्चयाति वुत्तस्स सहजातपुरेजातभावं नियमेतुं उभोपेते वुत्ता. अपिच तथा बुज्झनकानं अज्झासयवसेन देसनाविलासेन निरुत्तिपटिसम्भिदापभेदजाननवसेन चापि एते उभोपि वुत्ताति.

निस्सयवारवण्णना.

५. संसट्ठवारवण्णना

३३८-३४६. संसट्ठवारे कुसलं धम्मं संसट्ठोति कुसलं धम्मं एकुप्पादादिलक्खणेन सम्पयोगट्ठेन पच्चयं कत्वाति अत्थो. कुसलं एकं खन्धं संसट्ठोति कुसलं एकं खन्धं सम्पयुत्तपच्चयं कत्वा तयो खन्धा उप्पज्जन्ति हेतुपच्चयाति वुत्तं होति. इमिना उपायेन सब्बपदेसु अत्थो वेदितब्बो. इमस्मिं पन हेतुपच्चये अरूपधम्मस्सेव सम्पयोगट्ठेन पच्चयं कत्वा तयो पञ्हा विस्सज्जिता. यथा च हेतुपच्चये, तथा आरम्मणपच्चयादीसुपि, केवलं विपाकपच्चये एकमेव विस्सज्जनं.

३४७-३५०. इदानि यथालद्धानि विस्सज्जनानि गणनवसेन दस्सेतुं हेतुया तीणीतिआदि वुत्तं. तत्थ सब्बतिकेसु कुसलेन कुसलं, अकुसलेन अकुसलं, अब्याकतेन अब्याकतन्ति अयमेव नियमो. एकके पन अब्याकतेन अब्याकतमेव लब्भतीति एवमेत्थ बावीसतिया पच्चयेसु तीणि, विपाके एकन्ति द्वे परिच्छेदा. पच्छाजाते अनुलोमं नत्थि. तस्मा तीणि एकन्ति इमेसञ्ञेव वसेन दुकतिकादीसु पच्चयसंसन्दने यत्थ विपाकपच्चयो पविसति; तत्थ एकं, सेसेसु तीणीति एवं गणना वेदितब्बा. सेसमेत्थ अनुलोमे उत्तानत्थमेव.

३५१-३५४. पच्चनीये पन कुसलं न लब्भतीति अकुसलमेव आदिं कत्वा विस्सज्जनं कतं, तं उत्तानत्थमेव.

३५९. यं पनेत्थ पच्चनीये विस्सज्जनपरिच्छेदं गणनतो दस्सेतुं नहेतुया द्वेतिआदि वुत्तं, तत्थ द्वे तीणि एकन्ति तयो परिच्छेदा. तेसं वसेन दुकतिकादीसु पच्चयसंसन्दने गणना वेदितब्बा. इधापि अधिकतरगणनानं ऊनतरगणनेन सद्धिं संसन्दने ऊनतरगणनमेव लब्भति, समगणनेन सद्धिं समगणनं. यस्मा चेत्थ अरूपधम्मायेव पच्चयुप्पन्ना, तस्मा नहेतुनाधिपतिनपुरेजातनपच्छाजातनासेवननकम्मनविपाकनझाननमग्गनविप्पयुत्तवसेन दसेव पच्चया पच्चनीकतो दस्सिता, सेसा चुद्दस न लब्भन्ति. येपि लब्भन्ति, तेसुपि विपाके पच्चयुप्पन्ने नकम्मनविपाका न लब्भन्ति.

३६०-३६८. नहेतुपच्चया नाधिपतिया द्वेति नहेतुया लद्धं द्वयमेव. सेसद्वयेसुपि एसेव नयो. नकम्मे एकन्ति अहेतुककिरियचेतनं पच्चयुप्पन्नं कत्वा अब्याकतेन अब्याकतं. नविपाके द्वेति अहेतुकमोहकिरियवसेन द्वे. नझाने एकन्ति अहेतुकपञ्चविञ्ञाणवसेन अब्याकतविस्सज्जनं वेदितब्बं. नमग्गे एकन्ति अहेतुकविपाककिरियवसेन अब्याकतविस्सज्जनं. इमिनावुपायेन सब्बसंसन्दनेसु अत्थो वेदितब्बोति.

३६९-३८३. अनुलोमपच्चनीये हेट्ठा वुत्ता नहेतुआदयो दसेव पच्चनीयतो लब्भन्ति, न सेसा. येपि लब्भन्ति, तेसु हेतुम्हि अनुलोमतो ठिते झानमग्गा पच्चनीयतो न लब्भन्तीति सब्बं हेट्ठा वुत्तनयेनेव वेदितब्बन्ति.

३८४-३९१. पच्चनीयानुलोमे नहेतुपच्चयुप्पन्नेसु अहेतुकमोहोव झानमग्गपच्चयं लभति, सेसा न लभन्ति. नझानपच्चये अट्ठाहेतुकचित्तानिपि. नकम्मपच्चया नहेतुपच्चया नाधिपतिपच्चया नपुरेजातपच्चया आरम्मणे एकन्ति आरुप्पे अहेतुककिरियचेतनावसेन अब्याकतेन अब्याकतं. इमिना उपायेन यं लब्भति, यञ्च न लब्भति, तस्स वसेन सब्बत्थ गणना वेदितब्बाति.

संसट्ठवारवण्णना.

६. सम्पयुत्तवारवण्णना

३९२-४००. सम्पयुत्तवारे कुसलं धम्मं सम्पयुत्तोति कुसलं धम्मं सम्पयुत्तपच्चयं कत्वाति अत्थो. सेसमेत्थ संसट्ठवारे वुत्तनयेनेव वेदितब्बं. अवसाने पनस्स ‘‘संसट्ठत्तं नाम सम्पयुत्तत्तं, सम्पयुत्तत्तं नाम संसट्ठत्त’’न्ति इदं उभिन्नम्पि एतेसं वारानं अत्थतो निन्नानाकरणभावदस्सनत्थं वुत्तं. अत्थतो हि एतेपि पटिच्चसहजाता विय पच्चयनिस्सया विय च निन्नानाकरणा. एवं सन्तेपि अञ्ञमञ्ञस्स अत्थनियमनत्थं वुत्ता. ‘‘संसट्ठा योजिता हया’’तिआदीसु (जा. २.२२.७०) हि असम्पयुत्तम्पि संसट्ठन्ति वुच्चति. ‘‘या सा वीमंसा कोसज्जसहगता कोसज्जसम्पयुत्ता’’तिआदीसु (सं. नि. ५.८३२) असंसट्ठं वोकिण्णम्पि सम्पयुत्तन्ति. इति संसट्ठवारेन एकुप्पादलक्खणस्स सम्पयुत्तस्स संसट्ठभावं सम्पयुत्तवारेन च संसट्ठस्स एकुप्पादादिलक्खणस्स सम्पयुत्तभावं नियमेतुं उभोपेते वुत्ता. अपिच तथा बुज्झनकानं अज्झासयवसेन देसनाविलासेन निरुत्तिपटिसम्भिदापभेदजाननवसेन चापि एते उभोपि वुत्ताति.

सम्पयुत्तवारवण्णना.

एतेसु पन छसु वारेसु अत्थि कोचि पच्चयो एकन्तं अनुलोमतो न तिट्ठति, पच्चनीकतोव तिट्ठति; अत्थि एकन्तं पच्चनीकतो न तिट्ठति, अनुलोमतोव तिट्ठति; अत्थि अनेकन्तं अनुलोमतो चेव तिट्ठति, पच्चनीकतो चाति इदं पकिण्णकं वेदितब्बं. तत्थ पठमो पञ्हो पच्छाजातस्स, दुतियो महाचतुक्कस्स, ततियो युज्जमानकानं सेसानं वसेन वेदितब्बोति.

७. पञ्हावारविभङ्गवण्णना

४०१-४०३. पञ्हावारे ‘‘सिया कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो’’तिआदिना कुसलत्तिके उद्धरितब्बपुच्छानं लब्भमानवसेन विस्सज्जनं दस्सेतुं कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयोतिआदि वुत्तं. कुसलो च नामेस सयं उप्पज्जन्तो ठपेत्वा पच्छाजातञ्च विपाकञ्च सेसेहि द्वावीसतिया पच्चयेहि उप्पज्जति. कुसलस्स पच्चयो होन्तो ठपेत्वा पुरेजातपच्छाजातविपाकविप्पयुत्ते सेसेहि वीसतिया पच्चयेहि पच्चयो होति. तस्मा येहि पच्चयेहि कुसलो कुसलस्स पच्चयो होति, ते पच्चये पटिपाटिया दस्सेतुं हेतुपच्चयेनातिआदि आरद्धं.

तत्थ या एसा पच्चयविभङ्गवारे विय ‘‘हेतुसम्पयुत्तकानं धम्मान’’न्ति अकत्वा ‘‘हेतू सम्पयुत्तकानं खन्धान’’न्ति देसना कता, तस्सा एव करणे इदं पयोजनं – तत्थ हि सुञ्ञट्ठं दीपेतुं धम्मानन्ति वुत्तं. इध पच्चयतो उप्पज्जमाना धम्मा रासितो उप्पज्जन्ति, न एकेकतोति रासट्ठं दीपेतुं खन्धानन्ति वुत्तं. पटिच्चवारादीसु वा खन्धवसेन पच्चयुप्पन्नदेसना आरुळ्हाति तेनेवानुक्कमेन इधापि आरुळ्हाति. कस्मा पनेतेसु एवं आरुळ्हाति? असङ्करतो विभागदस्सनत्थं. ‘‘एकं धम्मं पटिच्च सेसा धम्मा’’ति हि आदिना नयेन वुच्चमाने असुकधम्मं नाम निस्साय असुकधम्माति न सक्का असङ्करतो पच्चये पच्चयुप्पन्ने च जानितुं, एवं सन्ते उद्देसनिद्देसा निब्बिसेसा सियुं. तस्मा असङ्करतो विभागदस्सनत्थं एवं आरुळ्हाति वेदितब्बा. चित्तसमुट्ठानानन्ति इदं यस्स अब्याकतस्स कुसलो हेतुपच्चयेन पच्चयो होति, तमेव दस्सेतुं वुत्तं. पच्चयविभङ्गे पन कुसलादिवसेन विभागं अकत्वा सामञ्ञतो सब्बेसं हेतूनं वसेन उप्पन्नरूपदस्सनत्थं चित्तसमुट्ठानानन्ति अवत्वा तंसमुट्ठानानन्ति वुत्तं. तस्मा तत्थ अब्याकतहेतुसमुट्ठानरूपं, ओक्कन्तिक्खणे कटत्तारूपम्पि सङ्गहं गतं. इमिना उपायेन सेसेसुपि एवरूपेसु विस्सज्जनेसु अत्थो वेदितब्बो.

४०४. दानं दत्वाति देय्यधम्मं चजित्वा. याय वा चेतनाय सो दिय्यति, सा चेतना दानं. दत्वाति तं चेतनं परियोदापेत्वा विसुद्धं कत्वा. सीलं समादियित्वाति पञ्चङ्गादिवसेन निच्चसीलं गण्हित्वा. इमिना समादानविरतियेव दस्सिता. सम्पत्तविरतिसमुच्छेदविरतियो पन लोके सीलन्ति अपाकटत्ता न वुत्ता. किञ्चापि न वुत्ता, आरम्मणपच्चया पन होन्तियेव. तत्थ समुच्छेदविरति सेक्खानंयेव कुसलस्स आरम्मणं होति, न इतरेसं. उपोसथकम्मं कत्वाति ‘‘पाणं न हने, न चादिन्नमादिये’’ति (अ. नि. ३.७१) एवं वुत्तं उपोसथदिवसेसु अट्ठङ्गउपोसथकिरियं कत्वा. तं पच्चवेक्खतीति तं कुसलं सेक्खोपि पुथुज्जनोपि पच्चवेक्खति, अरहापि पच्चवेक्खतेव. अरहतोपि हि पुब्बे कतं कुसलं कुसलमेव, येन पन चित्तेन पच्चवेक्खति, तं किरियचित्तं नाम होति. तस्मा ‘‘एतं कुसलो धम्मो कुसलस्स धम्मस्सा’’ति इमस्मिं अधिकारे न लब्भति. पुब्बे सुचिण्णानीति ‘‘दत्वा समादियित्वा कत्वा’’ति हि आसन्ने कतानि वुत्तानि, इमानि न आसन्ने कतानीति वेदितब्बानि. दानादीहि वा सेसानि कामावचरकुसलानि दस्सेतुं इदं वुत्तं. झाना वुट्ठहित्वाति झाना वुट्ठहित्वा. अयमेव वा पाळि. सेक्खा गोत्रभुन्ति सोतापन्नं सन्धाय वुत्तं. सो हि गोत्रभुं पच्चवेक्खति. वोदानन्ति इदं पन सकदागामिअनागामिनो सन्धाय वुत्तं. तेसञ्हि तं चित्तं वोदानं नाम होति. सेक्खाति सोतापन्नसकदागामिअनागामिनो. मग्गा वुट्ठहित्वाति मग्गफलभवङ्गातिक्कमवसेन अत्तना पटिलद्धा मग्गा वुट्ठहित्वा, सुद्धमग्गतोयेव पन वुट्ठाय पच्चवेक्खणं नाम नत्थि.

कुसलं अनिच्चतोति एत्थ विपस्सनूपगं तेभूमककुसलमेव वेदितब्बं, विपस्सनाकुसलं पन कामावचरमेव. चेतोपरियञाणेनाति रूपावचरकुसलं दस्सेति. आकासानञ्चायतनन्तिआदीहि अरूपावचरकुसलारम्मणवसेन उप्पज्जमानं अरूपावचरकुसलमेव. कुसला खन्धा इद्धिविधञाणस्सातिआदीहि पुग्गलं अनामसित्वा धम्मवसेन दस्सेति. तेनेवेत्थ हेट्ठा गहितम्पि चेतोपरियञाणं पुन वुत्तं.

४०५. अस्सादेतीति सोमनस्ससहगतलोभसम्पयुत्तचित्तेहि अनुभवति चेव रज्जति च. अभिनन्दतीति सप्पीतिकतण्हावसेन नन्दति हट्ठपहट्ठो होति, दिट्ठाभिनन्दनाय वा अभिनन्दति. रागो उप्पज्जतीति अस्सादेन्तस्स रागो उप्पज्जति नाम. इदं अट्ठपि लोभसहगतानि गहेत्वा वुत्तं. दिट्ठि उप्पज्जतीति अभिनन्दन्तस्स अत्ता अत्तनियन्तिआदिवसेन चतूहिपि चित्तेहि सम्पयुत्ता दिट्ठि उप्पज्जति. असन्निट्ठानगतस्स पनेत्थ विचिकिच्छा उप्पज्जति. विक्खेपगतस्स उद्धच्चं, अकतं वत मे कल्याणन्ति विप्पटिसारिनो दोमनस्सं. तं आरब्भाति तानि सुचिण्णानि आरम्मणं कत्वाति अत्थो. बहुवचनस्स हेस एकवचनादेसो, जातिवसेन वा एकवचनमेवेतं.

४०६. अरहा मग्गा वुट्ठहित्वाति मग्गवीथियं फलानन्तरस्स भवङ्गस्स अतिक्कमवसेन वुट्ठहित्वा. पच्चवेक्खणचित्तानि पनस्स किरियाब्याकतानि. एवं किरियाब्याकतस्स आरम्मणपच्चयं दस्सेत्वा पुन विपाकाब्याकतस्स दस्सेतुं सेक्खा वातिआदिमाह. कुसले निरुद्धेति विपस्सनाजवनवीथिया पच्छिन्नाय. विपाकोति कामावचरविपाको. तदारम्मणताति तदारम्मणताय, तं कुसलस्स जवनस्स आरम्मणभूतं विपस्सितकुसलं आरम्मणं कत्वा उप्पज्जतीति अत्थो. न केवलञ्च तदारम्मणवसेनेव, पटिसन्धिभवङ्गचुतिवसेनापि. विपाको हि कम्मं आरम्मणं कत्वा गहितपटिसन्धिकस्स कुसलारम्मणो होतियेव, सो पन दुब्बिञ्ञेय्यत्ता इध न दस्सितो.

कुसलं अस्सादेतीतिआदि अकुसलजवनावसाने कुसलारम्मणविपाकं दस्सेतुं वुत्तं. विञ्ञाणञ्चायतनविपाकस्साति इदं दुब्बिञ्ञेय्यम्पि समानं महग्गतविपाकस्स तदारम्मणभावेन अनुप्पत्तितो लब्भमानकवसेन वुत्तं. किरियस्साति अरहत्तं पत्वा असमापन्नपुब्बे आकासानञ्चायतने पटिलोमतो वा एकन्तरिकवसेन वा समापन्नकिरियाय. चेतोपरियञाणस्सातिआदीनि परतो आवज्जनाय योजेतब्बानि. या एतेसं आवज्जना, तस्सा कुसला खन्धा आरम्मणपच्चयेन पच्चयोति अयञ्हेत्थ अत्थो.

४०७-४०९. रागन्ति अत्तनो वा परस्स वा रागं. अत्तनो रागवसेन पनेत्थ वण्णना पाकटा होति. अस्सादेतीतिआदीनि वुत्तत्थानेव. विचिकिच्छादीसु पन तीसु अस्सादेतब्बताय अभावेन ‘‘अस्सादेती’’ति न वुत्तं. दिट्ठि पनेत्थ उप्पज्जति, सा अस्सादेतीति पदस्स परिहीनत्ता आगतपटिपाटिया पठमं न वुत्ता. विचिकिच्छादीसुयेव तं तं सभागं पठमं वत्वा तस्स तस्स अनन्तरा वुत्ता. इमेसु च पन रागादीसु ‘‘किं मे पापधम्मा उप्पज्जन्ती’’ति अक्खन्तिवसेन वा, ‘‘कतं पापं कतं लुद्ध’’न्ति विप्पटिसारादिवसेन वा दोमनस्सुप्पत्ति वेदितब्बा.

४१०. चक्खुं अनिच्चतोति विपस्सनानुक्कमेन ओळारिकायतनानि वत्थुरूपञ्चाति एकादस रूपानि पाकटत्ता गहितानि. पुन रूपायतनादीनि चक्खुविञ्ञाणादीनं आरम्मणत्ता गहितानि. यस्मा पनेसा विञ्ञाणकायवसेन देसना, न धातुवसेन, तस्मा मनोधातु न गहिता. एवं सब्बत्थ गहितागहितं वेदितब्बं.

४११. फलं पच्चवेक्खन्ति निब्बानं पच्चवेक्खन्तीति पच्चवेक्खणकुसलस्स आरम्मणदस्सनत्थं वुत्तं.

४१३-४१६. आरम्मणाधिपतिनिद्देसे सेक्खपुथुज्जनानं वसेन चतुभूमककुसलं दस्सितं, तथा सहजाताधिपतिनिद्देसे. अरहतो उत्तमधम्मं अधिगतत्ता लोकियकुसलेसु गरुकारो नत्थीति अग्गमग्गोव दस्सितो.

४१७. अनन्तरपच्चये पुरिमा पुरिमाति एकभूमकापि नानाभूमकापि कुसला एकतो कत्वा वुत्ता. अनुलोमं गोत्रभुस्स, अनुलोमं वोदानस्साति नानारम्मणवसेन. गोत्रभु मग्गस्स, वोदानं मग्गस्साति नानाभूमिवसेन. कुसलं वुट्ठानस्साति एत्थ पन कुसलन्ति तेभूमककुसलं. वुट्ठानन्ति तेभूमकविपाकं. तेहि कुसलजवनवीथितो वुट्ठहन्ति, तस्मा वुट्ठानन्ति वुच्चति. तं दुविधं होति – तदारम्मणं भवङ्गञ्च. तत्थ कामावचरकुसलस्स उभयम्पि वुट्ठानं होति, महग्गतस्स भवङ्गमेव. मग्गो फलस्साति इदं यस्मा लोकुत्तरविपाकं जवनवीथिपरियापन्नत्ता वुट्ठानं नाम न होति, तस्मा विसुं वुत्तं. अनुलोमं सेक्खायाति असेक्खाय कुसलं अनन्तरं न होति, तस्मा विभागं करोति. फलसमापत्तियाति सोतापत्तिफलसकदागामिफलअनागामिफलसमापत्तियापि. फलसमापत्तियाति अनागामिफलसमापत्तिया. अकुसले दुविधम्पि वुट्ठानं लब्भति. विपाकाब्याकता किरियाब्याकताति एत्थ विपाकाब्याकता विपाकाब्याकतानंयेव, किरियाब्याकता किरियाब्याकतानंयेव वेदितब्बा. भवङ्गं आवज्जनायातिआदि वोमिस्सकवसेन वुत्तं. तत्थ किरियाति कामावचरकिरिया. सा दुविधस्सापि वुट्ठानस्स अनन्तरपच्चयो होति, महग्गता भवङ्गस्सेव. इति ये हेट्ठा पच्चयविभङ्गनिद्देसे ‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं अनन्तरपच्चयेन पच्चयो’’ति आरभित्वा कुसलं कुसलस्स, कुसलं अब्याकतस्स, अकुसलं अकुसलस्स, अकुसलं अब्याकतस्स, अब्याकतं अब्याकतस्स, अब्याकतं कुसलस्स, अब्याकतं अकुसलस्साति सत्त वारा दस्सिता; तेसं वसेन इध सङ्खेपतो अनन्तरपच्चयो विभत्तो.

वित्थारतो पनेत्थ –

दसधा सत्तरसधा, समसट्ठिविधेन च;

बहुधापि च निद्देसं, साधुकं उपलक्खये.

अयञ्हि अनन्तरपच्चयो न केवलं सत्तधाव निद्देसं लभति, कुसलं पन कुसलस्स विपाकस्स; अकुसलं अकुसलस्स विपाकस्स; विपाकं विपाकस्स किरियस्स; किरियं कुसलस्स अकुसलस्स विपाकस्स किरियस्साति एवं दसधापि निद्देसं लभति. न केवलं दसधायेव, कुसलं पन कुसलस्स कुसलविपाकस्स अकुसलविपाकस्स; अकुसलं अकुसलस्स अकुसलविपाकस्स कुसलविपाकस्स; कुसलविपाकं कुसलविपाकस्स अकुसलविपाकस्स किरियस्स; अकुसलविपाकं अकुसलविपाकस्स कुसलविपाकस्स किरियस्स; किरियं किरियस्स कुसलस्स अकुसलस्स कुसलविपाकस्स अकुसलविपाकस्साति एवं सत्तरसधा निद्देसं लभति.

न केवलञ्च सत्तरसधाव समसट्ठिविधेनापि निद्देसं लभतेव. कथं? कामावचरकुसलञ्हि भूमिभेदेन चतुब्बिधस्स कुसलस्स अनन्तरपच्चयो होति, रूपावचरारूपावचरं सकसकभूमिकस्सेवाति कुसलं कुसलस्स छब्बिधेन अनन्तरपच्चयो. कामावचरकुसलं पन कामावचरकुसलविपाकस्स अकुसलविपाकस्स रूपावचरविपाकस्स अरूपावचरविपाकस्स लोकुत्तरविपाकस्स; रूपावचरकुसलं रूपावचरविपाकस्स कामावचरकुसलविपाकस्स; अरूपावचरकुसलं कामावचरकुसलविपाकस्स रूपावचरअरूपावचरलोकुत्तरविपाकस्स; लोकुत्तरकुसलं लोकुत्तरविपाकस्साति कुसलं विपाकस्स द्वादसविधेन अनन्तरपच्चयो. अकुसलं अकुसलस्स अकुसलविपाकस्स तेभूमककुसलविपाकस्साति पञ्चविधेन अनन्तरपच्चयो.

कामावचरकुसलविपाकं कामावचरकुसलविपाकस्स अकुसलविपाकस्स रूपावचरविपाकस्स अरूपावचरविपाकस्साति कामावचरकुसलविपाकं विपाकस्स चतुब्बिधेन अनन्तरपच्चयो. रूपावचरविपाकं तेभूमककुसलविपाकस्साति तिविधेन अनन्तरपच्चयो. अरूपावचरविपाकं अरूपावचरविपाकस्स कामावचरकुसलविपाकस्साति दुविधेन अनन्तरपच्चयो. लोकुत्तरविपाकं चतुभूमककुसलविपाकस्साति चतुब्बिधेन अनन्तरपच्चयो. एवं कुसलविपाकं विपाकस्स तेरसधापि अनन्तरपच्चयो. अकुसलविपाकं अकुसलविपाकस्स कामावचरकुसलविपाकस्साति दुविधेन अनन्तरपच्चयो. एवं सब्बथापि विपाकं विपाकस्स पञ्चदसविधेन अनन्तरपच्चयो. कामावचरकुसलविपाकं पन कामावचरकिरियस्स, तथा अकुसलविपाकं, तथा रूपावचरविपाकं, तथा अरूपावचरविपाकञ्चाति विपाकं किरियस्स च चतुब्बिधेन अनन्तरपच्चयो.

कामावचरकिरियं तेभूमककिरियस्स, रूपावचरारूपावचरकिरियं रूपावचरारूपावचरानञ्ञेवाति किरियं किरियस्स पञ्चविधेन अनन्तरपच्चयो. कामावचरकिरियं अकुसलविपाकस्स चेव चतुभूमककुसलविपाकस्स च, रूपावचरकिरियं कामावचरकुसलविपाकरूपावचरविपाकानं अरूपावचरकिरियं चतुभूमककुसलविपाकस्सापीति किरियं विपाकस्स एकादसविधेन अनन्तरपच्चयो. कामावचरकिरियं पन कामावचरकुसलस्स अकुसलस्साति कुसलाकुसलानं दुविधेन अनन्तरपच्चयो होति. एवं समसट्ठिविधेनापि निद्देसं लभति.

न केवलञ्च समसट्ठिविधेनेव, बहुविधेनापि लभतेव. कथं? कामावचरपठममहाकुसलचित्तं ताव अत्तनो, चतुन्नञ्च रूपावचरकुसलानं पादकयोगेन सोळसन्नं सोमनस्सलोकुत्तरानन्ति एकवीसतिया च कुसलानं, जवनपरियोसाने तदारम्मणभवङ्गवसेन उप्पज्जमानानं एकादसन्नं कामावचरविपाकानं, भवङ्गवसेनेव पवत्तानं रूपावचरारूपावचरविपाकानं, फलसमापत्तिवसेन पवत्तानं द्वादसन्नं लोकुत्तरविपाकानन्ति एवं एकवीसतिया कुसलानं; द्वत्तिंसाय विपाकानन्ति तेपञ्ञासाय चित्तानं अनन्तरपच्चयो होति. तथा दुतियकुसलचित्तं. ततियचतुत्थानि पन ठपेत्वा उपरिभूमककुसलानि च लोकुत्तरविपाकानि च सेसएकवीसतिचित्तानं. पञ्चमछट्ठानि अत्तनो च, नवन्नञ्च उपरिभूमकउपेक्खाकुसलानं, तेवीसतिया च विपाकानन्ति तेत्तिंसाय. सत्तमअट्ठमानि एकवीसतियाव.

पञ्च रूपावचरकुसलानि अत्तनो अत्तनो पच्छिमानं रूपावचरकुसलानं, चतुन्नम्पि ञाणसम्पयुत्तमहाविपाकानं, पञ्चन्नं रूपावचरविपाकानञ्चाति दसन्नं. एतेनेव च नयेन अरूपावचरकुसलेसु पठमं अत्तनो विपाकेन सद्धिं एकादसन्नं, दुतियं द्वादसन्नं, ततियं तेरसन्नं, चतुत्थं चुद्दसन्नं फलसमापत्तिया चाति पन्नरसन्नं लोकुत्तरकुसलं अत्तनो अत्तनो विपाकस्सेव. अट्ठसु लोभसहगतेसु एकेकं अकुसलं एकादसन्नं कामावचरविपाकमनोविञ्ञाणधातूनं नवन्नं, महग्गतविपाकानं अत्तनो अत्तनो पच्छिमस्स चाति एकवीसतिया. द्वे दोमनस्ससहगतानि उपेक्खासहगतानं छन्नं कामावचरविपाकमनोविञ्ञाणधातूनं अत्तनो पच्छिमस्स चाति सत्तन्नं. विचिकिच्छुद्धच्चसहगतद्वयं सोमनस्ससहगताहेतुकविपाकेन सद्धिं एकादसन्नं कामावचरविपाकमनोविञ्ञाणधातूनं नवन्नं रूपावचरारूपावचरविपाकानं अत्तनो पच्छिमस्स चाति एकवीसतिया.

कुसलविपाकपञ्चविञ्ञाणा कुसलविपाकमनोधातुया, मनोधातु द्विन्नं विपाकमनोविञ्ञाणधातूनं. तासु द्वीसु सोमनस्ससहगता दसन्नं विपाकमनोविञ्ञाणधातूनं भवङ्गभूतानं तदारम्मणकाले अत्तनो पच्छिमस्स वोट्ठब्बनकिरियस्स चाति द्वादसन्नं. उपेक्खासहगताहेतुकमनोविञ्ञाणधातु पन आवज्जनमनोधातुया द्विट्ठानिकाय आवज्जनमनोविञ्ञाणधातुया दसन्नञ्च विपाकमनोविञ्ञाणधातूनन्ति द्वादसन्नमेव. तिहेतुकमहाविपाका सोमनस्ससहगताहेतुकवज्जानं दसन्नम्पि कामावचरविपाकमनोविञ्ञाणधातूनं रूपावचरारूपावचरविपाकानं आवज्जनद्वयस्स चाति एकवीसतिया, दुहेतुकविपाका ठपेत्वा महग्गतविपाके सेसानं द्वादसन्नं. पञ्च रूपावचरविपाका तेभूमककुसलविपाकसहेतुकपटिसन्धिचित्तानं सत्तरसन्नं आवज्जनद्वयस्स चाति एकूनवीसतिया. अरूपावचरविपाकेसु पठमं कामावचरकुसलविपाकतिहेतुकपटिसन्धिचित्तानं, चतुन्नं अरूपावचरविपाकचित्तानं चतुन्नं मनोद्वारावज्जनस्स चाति नवन्नं. दुतियं हेट्ठिमविपाकं वज्जेत्वा अट्ठन्नं, ततियं द्वे हेट्ठिमानि वज्जेत्वा सत्तन्नं, चतुत्थं तीणि हेट्ठिमानि वज्जेत्वा छन्नं चत्तारि लोकुत्तरविपाकानि तिहेतुकविपाकानं तेरसन्नं अत्तनो अत्तनो पच्छिमस्स चाति चुद्दसन्नं.

अकुसलविपाकपञ्चविञ्ञाणा अकुसलविपाकमनोधातुया, मनोधातु अकुसलविपाकाहेतुकमनोविञ्ञाणधातुया. सा तदारम्मणकाले अत्तनो पच्छिमस्स चुतिकाले पटिसन्धिवसेन भवङ्गवसेन च पवत्तानं इतरेसम्पि नवन्नं कामावचरविपाकानं उपेक्खासहगतानं द्विन्नं परित्तकिरियानञ्चाति द्वादसन्नं. किरियमनोधातु दसन्नं विञ्ञाणानं हसितुप्पादकिरिया पञ्चवोकारे भवङ्गवसेन पवत्तानं नवन्नं तिहेतुकविपाकानं, तदारम्मणवसेन पवत्तानं पञ्चन्नं सोमनस्ससहगतविपाकानं अत्तनो पच्छिमस्स चाति अग्गहितग्गहणेन तेरसन्नं. वोट्ठब्बनकिरिया ठपेत्वा किरियमनोधातुं दसन्नं कामावचरकिरियानं, कामावचरकुसलाकुसलानं पञ्चवोकारे भवङ्गवसेन पवत्तानं पन्नरसन्नं विपाकचित्तानञ्चाति पञ्चचत्तालीसाय.

कामावचरतिहेतुकसोमनस्ससहगतकिरियद्वयं भवङ्गवसेन पवत्तानं तेरसन्नं तिहेतुकविपाकानं तदारम्मणवसेन पञ्चन्नं सोमनस्ससहगतविपाकानं परिकम्मवसेन पवत्तमानानं चतुन्नं रूपावचरकिरियानं अरहत्तफलसमापत्तिया अत्तनो पच्छिमस्स चाति अग्गहितग्गहणेन द्वावीसतिया दुहेतुकसोमनस्ससहगतकिरियद्वयं यथावुत्तानं तेरसन्नं भवङ्गचित्तानं पञ्चन्नं तदारम्मणानं अत्तनो पच्छिमस्स चाति अग्गहितग्गहणेन सत्तरसन्नं. कामावचरतिहेतुकउपेक्खासहगतकिरियद्वयं तेसंयेव तेरसन्नं भवङ्गानं, तदारम्मणवसेन पवत्तानं छन्नं उपेक्खासहगतविपाकानं, परिकम्मवसेन पवत्तानं एकिस्सा रूपावचरकिरियाय चतुन्नं अरूपावचरकिरियानं अरहत्तफलसमापत्तिया अत्तनो पच्छिमस्स चाति अग्गहितग्गहणेन चतुवीसतिया. दुहेतुकउपेक्खासहगतकिरियद्वयं तेसंयेव तेरसन्नं भवङ्गानं छन्नं तदारम्मणानं अत्तनो पच्छिमस्स चाति अग्गहितग्गहणेन अट्ठारसन्नं. रूपावचरकिरियेसु एकेकं नवन्नं पञ्चवोकारे तिहेतुकभवङ्गानं अत्तनो पच्छिमस्स चाति दसन्नं. अरूपावचरकिरियेसु पठमं पञ्चवोकारे नवन्नं भवङ्गानं, चतुवोकारे एकस्स अत्तनो पच्छिमस्स चाति एकादसन्नं. दुतियं चतुवोकारे द्वे भवङ्गानि लभति. ततियं तीणि, चतुत्थं चत्तारि फलसमापत्तिञ्चाति तेसु एकेकं यथापटिपाटिया एकादसन्नं द्वादसन्नं तेरसन्नं पञ्चदसन्नञ्च अनन्तरपच्चयो होति. एवं बहुविधेनापि निद्देसं लभति. तेन वुत्तं –

‘‘दसधा सत्तरसधा, समसट्ठिविधेन च;

बहुधापि च निद्देसं, साधुकं उपलक्खये’’ति.

समनन्तरपच्चयादयो उत्तानत्थायेव.

४२३. उपनिस्सये सद्धं उपनिस्सायाति कम्मकम्मफलइधलोकपरलोकादीसु सद्धं उपनिस्सयं कत्वा. यथा हि पुरिसो हेट्ठापथवियं उदकं अत्थीति सद्दहित्वा पथविं खनति, एवं सद्धो कुलपुत्तो दानादीनं फलञ्च आनिसंसञ्च सद्दहित्वा दानादीनि पवत्तेति. तस्मा ‘‘सद्धं उपनिस्साया’’ति वुत्तं.

सीलं उपनिस्सायातिआदीसुपि इमे सीलादयो धम्मे उपनिस्सयं कत्वाति अत्थो. सीलवा हि सीलानुभावेसु सीलानिसंसेसु च कुसलो सीलं उपनिस्साय सीलवन्तानं दानं देति, उपरूपरि सीलं समादियति सुपरिसुद्धं अखण्डं, चातुद्दसीआदीसु पक्खदिवसेसु उपोसथकम्मं करोति, सीलसम्पदं निस्साय झानादीनि उप्पादेति. बहुस्सुतोपि दानादिपुञ्ञकिरियायत्ता सब्बसम्पत्तियो दानादीनञ्च सङ्किलेसवोदानादिभेदं सुतमयाय पञ्ञाय पटिविज्झित्वा ठितो सुतं उपनिस्साय दानादीनि पवत्तेति. चागवापि चागाधिमुत्तो अत्तनो चागसम्पदं उपनिस्साय दानं देति, सीलवन्तो हुत्वा दिन्नं महप्फलन्ति सीलं समादियति, उपोसथकम्मं करोति, ताय पटिपत्तिया परिसुद्धचित्तो झानादीनि उप्पादेति. पञ्ञवापि इधलोकपरलोकहितञ्चेव लोकसमतिक्कमनुपायञ्च उपपरिक्खन्तो ‘‘सक्का इमाय पटिपत्तिया इधलोकहितम्पि परलोकहितम्पि लोकसमतिक्कमनूपायञ्च सम्पादेतु’’न्ति पञ्ञं उपनिस्साय दानादीनि पवत्तेति. यस्मा पन न केवलं सद्धादयो दानादीनंयेव उपनिस्सया, अत्तनो अपरभागे उप्पज्जमानानं सद्धादीनम्पि उपनिस्सया एव, तस्मा सद्धा सीलं सुतं चागो पञ्ञा सद्धाय सीलस्स सुतस्स चागस्स पञ्ञायाति वुत्तं.

परिकम्मन्ति अनन्तरं अग्गहेत्वा पुब्बभागे परिकम्मं गहेतब्बं. यथाकम्मूपगञाणस्स अनागतंसञाणस्साति इमेसं द्विन्नं दिब्बचक्खुपरिकम्ममेव, परिकम्मं विसुं नत्थि. दिब्बचक्खुस्सेव परिभण्डञाणानि एतानि, तस्मिं इज्झमाने इज्झन्ति एवं सन्तेपि तदधिमुत्तताय सहितं दिब्बचक्खुपरिकम्मं तेसं परिकम्मन्ति वेदितब्बं. न हि एतानि सब्बेसं दिब्बचक्खुकानं समगतिकानि होन्ति. तस्मा भवितब्बमेत्थ परिकम्मविसेसेनाति. दिब्बचक्खु दिब्बाय सोतधातुयाति दूरे रूपानि दिस्वा तेसं सद्दं सोतुकामस्स दिब्बचक्खु सोतधातुविसुद्धिया उपनिस्सयो होति. तेसं पन सद्दं सुत्वा तत्थ गन्तुकामतादिवसेन दिब्बसोतधातु इद्धिविधञाणस्स उपनिस्सयो होति. एवं सब्बत्थ तस्स तस्स उपकारकभाववसेन उपनिस्सयपच्चयता वेदितब्बा.

मग्गं उपनिस्साय अनुप्पन्नं समापत्तिन्ति तेन तेन मग्गेन सिथिलीकतपारिपन्थकत्ता पहीनपारिपन्थकत्ता च तं तं समापत्तिं उप्पादेन्तीति तेसं मग्गो समापत्तिया उपनिस्सयो होति. विपस्सन्तीति उपरूपरिमग्गत्थाय विपस्सन्ति. अत्थपटिसम्भिदायातिआदि पटिसम्भिदानं मग्गपटिलाभेनेव इज्झनतो वुत्तं. एवंइद्धानञ्च पनेतासं पच्छा तेसु तेसु आरम्मणेसु पवत्तिया मग्गोव उपनिस्सयो नाम होति.

सद्धं उपनिस्साय मानं जप्पेतीति अहमस्मि सद्धो पसन्नोति मानं पवत्तेति. दिट्ठिं गण्हातीति तस्मिं तस्मिं वचने सद्धावसेनेव गन्त्वा पञ्ञाय अत्थं अनुपपरिक्खन्तो ‘‘अत्थि पुग्गलो’’तिआदिवसेन दिट्ठिं गण्हाति. सीलं सुतं चागं पञ्ञन्ति अहमस्मि सीलवा सुतवा चागी पञ्ञासम्पन्नोति मानं जप्पेति. सीलसुतचागपञ्ञासु पन मानमञ्ञनं विय दिट्ठिमञ्ञनं उप्पादेन्तो दिट्ठिं गण्हाति. रागस्सातिआदीसु सद्धादिसम्पदं उपनिस्साय अत्तुक्कंसनकाले तेसु एकेको धम्मो रागस्स, परवम्भनकाले दोसस्स, उभयेन सम्पयुत्तस्स मोहस्स, वुत्तप्पकारानं मानदिट्ठीनं, सद्धादिसम्पदं उपनिस्साय भवभोगसम्पत्तिपत्थनाय उपनिस्सयो होति. एवमेत्थ लोकियकुसलञ्ञेव दस्सितं. लोकुत्तरं पन सन्तं पणीतं उत्तमं अकुसलविद्धंसनं. तस्मा चन्दो विय अन्धकारतमानं न अकुसलस्स उपनिस्सयो होतीति न गहितं.

आतापेतीतिआदि कायिकदुक्खवसेन अब्याकतधम्मदस्सनत्थं वुत्तं. सद्धो हि सद्धं निस्साय अतिसीतं अतिउण्हन्ति अनोसक्कित्वा नानप्पकारानि नवकम्मवेय्यावच्चादीनि करोन्तो अत्तानं आतापेति परितापेति, भोगं उप्पादेत्वा पुञ्ञानि करिस्सामीति परियेट्ठिमूलकं दुक्खं पच्चनुभोति. सीलवापि सीलानुरक्खणत्थं अब्भोकासिकत्तादिवसेन अत्तानं आतापेति परितापेति, पिण्डचारिकत्तादिवसेन परियेट्ठिमूलकं दुक्खं पच्चनुभोति. सुतवापि बाहुस्सच्चानुरूपं पटिपत्तिं पटिपज्जिस्सामीति वुत्तनयेनेव पटिपज्जन्तो अत्तानं आतापेति परितापेति, परियेट्ठिमूलकं दुक्खं पच्चनुभोति. चागवापि चागाधिमुत्तताय अत्तनो यापनमत्तेपि पच्चये अनवसेसेत्वा परिच्चजन्तो, अङ्गादिपरिच्चागं वा पन करोन्तो अत्तानं आतापेति परितापेति, परिच्चजितब्बस्स वत्थुनो उप्पादनत्थं परियेट्ठिमूलकं दुक्खं पच्चनुभोति. पञ्ञवापि उपरूपरि पञ्ञं वड्ढेस्सामीति सप्पञ्ञतं निस्साय सीतुण्हादीनि अगणेत्वा सज्झायमनसिकारेसु योगं करोन्तो अत्तानं आतापेति परितापेति, मिच्छाजीवे आदीनवं सम्माजीवे च आनिसंसं दिस्वा मिच्छाजीवं पहाय परिसुद्धेन आजीवेन जीवितवुत्तिं परियेसन्तो परियेट्ठिमूलकं दुक्खं पच्चनुभोति.

कायिकस्स सुखस्साति सद्धादिसम्पत्तिं उपनिस्साय उप्पन्नानि सुखोपकरणानि परिभुञ्जनकाले सद्धादिसमुट्ठानपणीतरूपफुटकायस्स च तेसं वसेन अविप्पटिसारमूलकपामोज्जपीतिसमुट्ठानरूपफुटकायस्स च सुखुप्पत्तिकाले तेसं कटत्ता उप्पन्नविपाकसुखकाले च कायिकस्स सुखस्स, वुत्तनयेनेव दुक्खुप्पत्तिकाले सद्धादिगुणसम्पत्तिं असहमानेहि पयुत्तवधबन्धनादिकाले च कायिकस्स दुक्खस्स, सद्धादयो उपनिस्साय पवत्तितफलसमापत्तिकाले पन फलसमापत्तिया एतेसु एकेको उपनिस्सयपच्चयेन पच्चयो होतीति वेदितब्बो. कुसलं कम्मन्ति कुसलचेतना अत्तनो विपाकस्स उपनिस्सयपच्चयो, सा पन बलवचेतनाव लब्भति, न दुब्बला. तत्रिदं वत्थु – एका किर इत्थी उब्बन्धितुकामा रुक्खे रज्जुं लग्गेत्वा संविधातब्बं संविदहति. अथेको चोरो रत्तिभागे तं गेहं उपसङ्कमित्वा ‘‘इमाय रज्जुया किञ्चिदेव बन्धित्वा हरिस्सामी’’ति सत्थेन छिन्दितुं उपगतो. अथ सा रज्जु आसीविसो हुत्वा सुसूति अकासि. चोरो भीतो अपसक्कि. इत्थी अत्तनो निवेसना निक्खमित्वा रज्जुपासे गीवं पटिमुञ्चित्वा उब्बन्धा कालमकासि. एवं बलवचेतना अन्तराये निवारेत्वा अत्तनो विपाकस्स उपनिस्सयो होति. न पनेतं एकन्ततो गहेतब्बं. कतोकासञ्हि कम्मं एव विपाकस्स अन्तरायं पटिबाहित्वा विपच्चति, विपाकजनकं पन कम्मं विपाकस्स उपनिस्सयपच्चयो न होतीति न वत्तब्बं. कम्मन्ति एत्थ चतुभूमकम्पि वेदितब्बं. यं पन परतो ‘‘मग्गो फलसमापत्तिया’’ति वुत्तं, तं अचेतनावसेन. तेनेतं दीपेति – यो कोचि विपाकजनको धम्मो, सो अत्तनो विपाकस्स उपनिस्सयपच्चयो होतीति.