२. ठानसुत्तवण्णना
१९२. दुतिये ठानानीति कारणानि. ठानेहीति कारणेहि. सोचेय्यन्ति सुचिभावो. संवसमानोति एकतो वसमानो. न सन्ततकारीति न सततकारी. न सन्ततवुत्ति सीलेसूति सततं सब्बकालं सीलजीवितं न जीवतीति अत्थो. संवोहारमानोति कथेन्तो. एकेन एको वोहरतीति एकेन सद्धिं एको हुत्वा कथेति. वोक्कमतीति ओक्कमति. पुरिमवोहारा पच्छिमवोहारन्ति पुरिमकथाय पच्छिमकथं, पुरिमकथाय च पच्छिमकथा, पच्छिमकथाय च पुरिमकथा न समेतीति अत्थो.
ञातिब्यसनेनातिआदीसु ञातीनं ब्यसनं ञातिब्यसनं, ञातिविनासोति अत्थो. दुतियपदेपि एसेव नयो. रोगब्यसने पन रोगोयेव आरोग्यविनासनतो ब्यसनं रोगब्यसनं. अनुपरिवत्तन्तीति अनुबन्धन्ति. लाभो चातिआदीसु एकं अत्तभावं लाभो अनुपरिवत्तति, एकं अलाभोति एवं नयो नेतब्बो. साकच्छायमानोति पञ्हपुच्छनविस्सज्जनवसेन साकच्छं करोन्तो. यथाति येनाकारेन. उम्मग्गोति पञ्हुम्मग्गो. अभिनीहारोति पञ्हाभिसङ्खरणवसेन चित्तस्स अभिनीहारो. समुदाहारोति पञ्हपुच्छनं. सन्तन्ति पच्चनीकसन्तताय सन्तं कत्वा न कथेतीति अत्थो. पणीतन्ति अतप्पकं. अतक्कावचरन्ति यथा तक्केन नयग्गाहेन गहेतुं सक्का होति, एवं न कथेतीति अत्थो. निपुणन्ति सण्हं. पण्डितवेदनीयन्ति पण्डितेहि जानितब्बकं. सेसं सब्बत्थ वुत्तानुसारेनेव वेदितब्बं.