८. उपकसुत्तवण्णना

१८८. अट्ठमे उपकोति तस्स नामं. मण्डिकापुत्तोति मण्डिकाय पुत्तो. उपसङ्कमीति सो किर देवदत्तस्स उपट्ठाको, ‘‘किं नु खो सत्था मयि अत्तनो सन्तिकं उपगते वण्णं कथेस्सति, उदाहु अवण्ण’’न्ति परिग्गण्हनत्थं उपसङ्कमि. ‘‘नेरयिको देवदत्तो कप्पट्ठो अतेकिच्छो’’ति (चूळव. ३४८) वचनं सुत्वा सत्थारं घट्टेतुकामो उपसङ्कमीतिपि वदन्ति. परूपारम्भं वत्तेतीति परगरहं कथेति. सब्बो सो न उपपादेतीति सब्बोपि सो कुसलधम्मं न उप्पादेति, अत्तनो वा वचनं उपपादेतुं अनुच्छविकं कातुं न सक्कोति. अनुपपादेन्तो गारय्हो होतीति कुसलं धम्मं उप्पादेतुं असक्कोन्तो अत्तनो च वचनं उपपन्नं अनुच्छविकं कातुं असक्कोन्तो गारय्हो होति. उपवज्जोति उपवदितब्बो च होति, वज्जेन वा उपेतो होति, सदोसो होतीति अत्थो.

अथ भगवा तस्स वादं गहेत्वा तस्सेव गीवाय पटिमुञ्चन्तो परूपारम्भन्तिआदिमाह. उम्मुज्जमानकंयेवाति उदकतो सीसं उक्खिपन्तंयेव. तत्थ अपरिमाणा पदातिआदीसु तस्मिं अकुसलन्ति पञ्ञापने पदानिपि अक्खरानिपि धम्मदेसनापि अपरिमाणायेव. इतिपिदं अकुसलन्ति इदम्पि अकुसलं इदम्पि अकुसलं इमिनापि कारणेन इमिनापि कारणेन अकुसलन्ति एवं अकुसलपञ्ञत्तियं आगतानिपि अपरिमाणानि. अथापि अञ्ञेनाकारेन तथागतो तं धम्मं देसेय्य, एवम्पिस्स देसना अपरिमाणा भवेय्य. यथाह – ‘‘अपरियादिन्नावस्स तथागतस्स धम्मदेसना, अपरियादिन्नं धम्मपदब्यञ्जन’’न्ति (म. नि. १.१६१). इमिना उपायेन सब्बवारेसु अत्थो वेदितब्बो. याव धंसी वतायन्ति याव गुणधंसी वत अयं. लोणकारदारकोति लोणकारगामदारको. यत्र हि नामाति यो हि नाम. आसादेतब्बं मञ्ञिस्सतीति घट्टेतब्बं मञ्ञिस्सति. अपेहीति अपगच्छ, मा मे पुरतो अट्ठासि. एवञ्च पन वत्वा गीवाय गण्हापेत्वा निक्कड्ढापेसियेवाति.