५. ब्राह्मणसच्चसुत्तवण्णना

१८५. पञ्चमे ब्राह्मणसच्चानीति ब्राह्मणानं सच्चानि तथानि. सो तेन न समणोति मञ्ञतीति सो खीणासवो तेन सच्चेन ‘‘अहं समणो’’ति तण्हामानदिट्ठीहि न मञ्ञति. सेसपदेसुपि एसेव नयो. यदेव तत्थ सच्चं, तदभिञ्ञायाति यं तत्थ ‘‘सब्बे पाणा अवज्झा’’ति पटिपत्तिया सच्चं तथं अविपरीतं. इमिना वचीसच्चं अब्भन्तरं कत्वा परमत्थसच्चं निब्बानं दस्सेति. तदभिञ्ञायाति तं उभयम्पि अभिविसिट्ठाय पञ्ञाय जानित्वा. अनुद्दयाय अनुकम्पाय पटिपन्नो होतीति अनुद्दयत्थाय च अनुकम्पत्थाय च या पटिपदा, तं पटिपन्नो होति, पूरेत्वा ठितोति अत्थो. सेसपटिपदासुपि एसेव नयो.

सब्बे कामाति सब्बे वत्थुकामकिलेसकामा. इति वदं ब्राह्मणो सच्चमाहाति एवम्पि वदन्तो खीणासवब्राह्मणो सच्चमेव आह. सब्बे भवाति कामभवादयो तयोपि. नाहं क्वचनीति एत्थ पन चतुक्कोटिकसुञ्ञता कथिता. अयञ्हि ‘‘नाहं क्वचनी’’ति क्वचि अत्तानं न पस्सति, कस्सचि किञ्चनतस्मिन्ति अत्तनो अत्तानं कस्सचि परस्स किञ्चनभावे उपनेतब्बं न पस्सति, भातिट्ठाने भातरं, सहायट्ठाने सहायं, परिक्खारट्ठाने वा परिक्खारं मञ्ञित्वा उपनेतब्बं न पस्सतीति अत्थो. न च मम क्वचनीति एत्थ ममसद्दं ताव ठपेत्वा ‘‘न च क्वचनि परस्स च अत्तानं क्वचि न पस्सती’’ति अयमत्थो. इदानि ‘‘ममसद्दं आहरित्वा मम किस्मिञ्चि किञ्चनं नत्थी’’ति सो परस्स अत्ता मम किस्मिञ्चि किञ्चनभावे अत्थीति न पस्सति, अत्तनो भातिट्ठाने भातरं, सहायट्ठाने सहायं, परिक्खारट्ठाने वा परिक्खारन्ति किस्मिञ्चि ठाने परस्स अत्तानं इमिना किञ्चनभावेन उपनेतब्बं न पस्सतीति अत्थो. एवमयं यस्मा नेव कत्थचि अत्तानं पस्सति, न तं परस्स किञ्चनभावे उपनेतब्बं पस्सति, न परस्स अत्तानं पस्सति, न परस्स अत्तानं अत्तनो किञ्चनभावे उपनेतब्बं पस्सतीति. इति वदं ब्राह्मणोति एवं चतुक्कोटिकं सुञ्ञतं वदन्तोपि खीणासवब्राह्मणो तस्सा पटिपदाय सम्मा पटिविद्धत्ता सच्चमेव आह, न मुसाति सब्बेसुपि वारेसु मञ्ञनानं पहीनत्तायेव न मञ्ञतीति च अत्थो वेदितब्बो. आकिञ्चञ्ञंयेव पटिपदन्ति किञ्चनभावविरहितं निप्पलिबोधं निग्गहणमेव पटिपदं पटिपन्नो होति पूरेत्वा ठितो.

इमानि खो परिब्बाजका चत्तारि ब्राह्मणसच्चानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानीति यानि तुम्हे भोवादिब्राह्मणानं सच्चानि वदेथ, तेहि अञ्ञानि मया इमानि बाहितपापब्राह्मणस्स चत्तारि सच्चानि चतूहि मग्गेहि सोळसविधेन किच्चेन जानित्वा पच्चक्खं कत्वा पवेदितानि देसितानि जोतितानीति अत्थो. इति इमस्मिं सुत्ते चतूसुपि ठानेसु खीणासवस्स वचीसच्चमेव कथितन्ति.