६. उम्मग्गसुत्तवण्णना
१८६. छट्ठे परिकस्सतीति आकड्ढियति. उम्मग्गोति उम्मुज्जनं, पञ्ञागमनन्ति अत्थो. पञ्ञा एव वा उम्मुज्जनट्ठेन उम्मग्गोति वुच्चति. साव पटिभानट्ठेन पटिभानं. चित्तस्स उप्पन्नस्स वसं गच्छतीति ये चित्तस्स वसं गच्छन्ति, तेसंयेवेत्थ गहणं वेदितब्बं. अत्थमञ्ञाय धम्ममञ्ञायाति अत्थञ्च पाळिञ्च जानित्वा. धम्मानुधम्मप्पटिपन्नो होतीति लोकुत्तरधम्मस्स अनुच्छविकधम्मं सह सीलेन पुब्बभागप्पटिपदं पटिपन्नो होति. निब्बेधिकपञ्ञोति निब्बिज्झनकपञ्ञो. इदं दुक्खन्ति ठपेत्वा तण्हं सेसं तेभूमकक्खन्धपञ्चकं दुक्खन्ति सुतं होति. पञ्ञायाति मग्गपञ्ञाय. अयं दुक्खसमुदयोति वट्टमूलकतण्हा तस्स दुक्खस्स समुदयोति सुतं होति. इमिना उपायेन सेसद्वयेपि अत्थो वेदितब्बो. चतुत्थपञ्हविस्सज्जनेन अरहत्तफलं कथितन्ति वेदितब्बं.