२. वित्थारसुत्तवण्णना
१६२. दुतिये अभिक्खणन्ति अभिण्हं. आनन्तरियन्ति अनन्तरविपाकदायकं मग्गसमाधिं. आसवानं खयायाति अरहत्तफलत्थाय. पञ्चिन्द्रियानीति विपस्सनापञ्चमकानि पञ्चिन्द्रियानि. पञ्ञिन्द्रियन्ति हि एत्थ विपस्सनापञ्ञाव पञ्ञिन्द्रियन्ति अधिप्पेतं. सेसमेत्थ पाळिवसेन उत्तानमेव.
इमासं पन पटिपदानं अयं आविभावकथा – इध भिक्खु पुब्बे अकताभिनिवेसो पुब्बभागे रूपपरिग्गहे किलमति, अरूपपरिग्गहे किलमति, पच्चयपरिग्गहे किलमति, तीसु अद्धासु किलमति, मग्गामग्गे किलमति. एवं पञ्चसु ठानेसु किलमन्तो विपस्सनं पापुणाति. विपस्सनं पत्वापि उदयब्बयानुपस्सने, भङ्गानुपस्सने, भयतुपट्ठाने, आदीनवानुपस्सने, निब्बिदानुपस्सने, मुच्चितुकम्यताञाणे, सङ्खारुपेक्खाञाणे, अनुलोमञाणे, गोत्रभुञाणेति इमेसु नवसु विपस्सनाञाणेसुपि किलमित्वाव लोकुत्तरमग्गं पापुणाति. तस्स सो लोकुत्तरमग्गो एवं दुक्खेन गरुभावेन सच्छिकतत्ता दुक्खपटिपदो दन्धाभिञ्ञो नाम जातो. यो पन पुब्बभागे पञ्चसु ञाणेसु किलमन्तो अपरभागे नवसु विपस्सनाञाणेसु अकिलमित्वाव मग्गं सच्छिकरोति, तस्स सो मग्गो एवं दुक्खेन अगरुभावेन सच्छिकतत्ता दुक्खपटिपदो खिप्पाभिञ्ञो नाम जातो. इमिना उपायेन इतरापि द्वे वेदितब्बा.
गोणपरियेसकउपमाहि चेता विभावेतब्बा – एकस्स हि पुरिसस्स चत्तारो गोणा पलायित्वा अटविं पविट्ठा. सो सकण्टके सगहने वने ते परियेसन्तो गहनमग्गेनेव किच्छेन कसिरेन गन्त्वा गहनट्ठानेयेव निलीने गोणेपि किच्छेन कसिरेन अद्दस. एको किच्छेन गन्त्वा अब्भोकासे ठिते खिप्पमेव अद्दस. अपरो अब्भोकासमग्गेन सुखेन गन्त्वा गहनट्ठाने निलीने किच्छेन कसिरेन अद्दस. अपरो अब्भोकासमग्गेनेव सुखेन गन्त्वा अब्भोकासे ठितेयेव खिप्पं अद्दस. तत्थ चत्तारो गोणा विय चत्तारो अरियमग्गा दट्ठब्बा, गोणपरियेसको पुरिसो विय योगावचरो, गहनमग्गेन किच्छेन कसिरेन गमनं विय पुब्बभागे पञ्चसु ञाणेसु किलमतो दुक्खापटिपदा. गहनट्ठाने निलीनानं किच्छेनेव दस्सनं विय अपरभागे नवसु ञाणेसु किलमन्तस्स अरियमग्गानं दस्सनं. इमिना उपायेन सेसउपमापि योजेतब्बा.