९. वणिज्जसुत्तवण्णना

७९. नवमे तादिसा वाति तंसदिसाव तंसरिक्खकाव. छेदगामिनी होतीति छेदं गच्छति. यं पत्थितं, तं सब्बं नस्सतीति अत्थो. न यथाधिप्पाया होतीति यथाज्झासया न होति. पराधिप्पाया होतीति परज्झासया अज्झासयतो अधिकतरफला होति. समणं वा ब्राह्मणं वाति एत्थ समितपापबाहितपापताहि समणब्राह्मणता वेदितब्बा. वदतु, भन्ते, पच्चयेनाति, भन्ते, चतुब्बिधेन चीवरादिना पच्चयेन वदेय्यासीति एवं पवारेति निमन्तेति. येन पवारेतीति परिच्छिन्दित्वा यत्तकेन पवारेति. तं न देतीति तं सब्बसोव न देति. न यथाधिप्पायं देतीति यथा तस्स अज्झासयो, एवं दातुं न सक्कोति, हापेत्वा अप्पकं देति. यथाधिप्पायं देतीति यत्तकं सो इच्छति, तत्तकमेव देति. पराधिप्पायं देतीति अप्पकं पवारेत्वा अवत्थरित्वा बहुं देति.