१०. कम्बोजसुत्तवण्णना
८०. दसमे नेव सभायं निसीदतीति विनिच्छयकरणत्थं विनिच्छयसभायं नेव निसीदति. न कम्मन्तं पयोजेतीति कसिवणिज्जादिमहाकम्मन्तं नप्पयोजेति. न कम्बोजं गच्छतीति भोगे सम्भरणत्थाय कम्बोजरट्ठं न गच्छति. देसनामत्तमेव चेतं, यं किञ्चि तिरोरट्ठं न गच्छतीति अत्थो. कोधनोतिआदीसु कोधनताय कोधपरियुट्ठितो अत्थानत्थं न जानाति, इस्सुकिताय परसम्पत्तिं न सहति, मच्छरिताय धनं दत्वा किच्चं कातुं न सक्कोति, निप्पञ्ञताय किच्चं संविधातुं न सक्कोति. तस्मा एतानि सभानिसीदनादीनि न करोतीति.
अपण्णकवग्गो ततियो.