७. अचिन्तेय्यसुत्तवण्णना

७७. सत्तमे अचिन्तेय्यानीति चिन्तेतुं अयुत्तानि. न चिन्तेतब्बानीति अचिन्तेय्यत्तायेव न चिन्तेतब्बानि. यानि चिन्तेन्तोति यानि कारणानि चिन्तेन्तो. उम्मादस्साति उम्मत्तकभावस्स. विघातस्साति दुक्खस्स. बुद्धविसयोति बुद्धानं विसयो, सब्बञ्ञुतञ्ञाणादीनं बुद्धगुणानं पवत्ति च आनुभावो च. झानविसयोति अभिञ्ञाझानविसयो. कम्मविपाकोति दिट्ठधम्मवेदनीयादीनं कम्मानं विपाको. लोकचिन्ताति ‘‘केन नु खो चन्दिमसूरिया कता, केन महापथवी, केन महासमुद्दो, केन सत्ता उप्पादिता, केन पब्बता, केन अम्बतालनाळिकेरादयो’’ति एवरूपा लोकचिन्ता.