७. अहिराजसुत्तवण्णना

६७. सत्तमे इमानि चत्तारि अहिराजकुलानीति इदं दट्ठविसानेव सन्धाय वुत्तं. ये हि केचि दट्ठविसा, सब्बेते इमेसं चतुन्नं अहिराजकुलानं अब्भन्तरगताव होन्ति. अत्तगुत्तियाति अत्तनो गुत्तत्थाय. अत्तरक्खायाति अत्तनो रक्खणत्थाय. अत्तपरित्तायाति अत्तनो परित्ताणत्थाय. परित्तं नाम अनुजानामीति अत्थो.

इदानि यथा तं परित्तं कातब्बं, तं दस्सेन्तो विरूपक्खेहि मेतिआदिमाह. तत्थ विरूपक्खेहीति विरूपक्खनागकुलेहि. सेसेसुपि एसेव नयो. अपादकेहीति अपादकसत्तेहि. सेसेसुपि एसेव नयो. सब्बे सत्ताति इतो पुब्बे एत्तकेन ठानेन ओदिस्सकमेत्तं कथेत्वा इदानि अनोदिस्सकमेत्तं कथेतुं इदमारद्धं. तत्थ सत्ता पाणा भूताति सब्बानेतानि पुग्गलवेवचनानेव. भद्रानि पस्सन्तूति भद्रानि आरम्मणानि पस्सन्तु. मा कञ्चि पापमागमाति कञ्चि सत्तं पापकं लामकं मा आगच्छतु. अप्पमाणो बुद्धोति एत्थ बुद्धोति बुद्धगुणा वेदितब्बा. ते हि अप्पमाणा नाम. सेसपदद्वयेपि एसेव नयो. पमाणवन्तानीति गुणप्पमाणेन युत्तानि. उण्णनाभीति लोमसनाभिको मक्कटको. सरबूति घरगोलिका. कता मे रक्खा, कता मे परित्ताति मया एत्तकस्स जनस्स रक्खा च परित्ताणञ्च कतं. पटिक्कमन्तु भूतानीति सब्बेपि मे कतपरित्ताणा सत्ता अपगच्छन्तु, मा मं विहेठयिंसूति अत्थो.