८. सुदत्तसुत्तवण्णना

५८. अट्ठमे सञ्ञतानन्ति कायवाचाहि संयतानं. परदत्तभोजिनन्ति परेहि दिन्नमेव भुञ्जित्वा यापेन्तानं. कालेनाति युत्तप्पत्तकालेन. सक्कच्च ददातीति सहत्था सक्कारं कत्वा ददाति. चत्तारि ठानानि अनुप्पवेच्छतीति चत्तारि कारणानि अनुप्पवेसेति ददाति. यसवा होतीति महापरिवारो होति. नवमं केवलं भिक्खूनं कथितं. सेसमेत्थ तादिसमेव.